सुभाषितरत्नकोशः - सम्भोगव्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
प्रौढप्रेमरसान् नितम्बफलकाद् विश्रंसिते ऽप्य् अंशुके काञ्चीदाममणिप्रभाभिर् अनु चारब्धे दुकूलान्तरे ।
कान्तेनाशु मुधा विलोकितम् अथो तन्व्या मुधा लज्जितं भूयो ऽनेन मुधावकृष्टम् अथ तत् तन्व्या मुधा संवृतम् १९.१ ॥५५९॥
रूढे रतिव्यतिकरे करणीयशेष- मायासभाजि दयिते मुहुर् आतुरायाः ।
प्रत्यक्षरं मदनमन्थरम् अर्थयन्त्याः किं किं न हन्त हृदयंगमम् अङ्गनायाः १९.२ ॥५६०॥
रतान्तश्रान्तायाः स्तनजघनसंदानितदृशि स्मरावेशव्यग्रे दवयति दुकूलं प्रणयिनि ।
क्षणं श्रोणौ पाणी क्षणम् अपि कुचाग्रे प्रियदृशोः क्षणं विन्यस्यन्त्या जगद् अपि न मूल्यं मृगदृशः १९.३ ॥५६१॥
तैस् तैर् विजृम्भितशतैर् मदनोपदेशैर् मुग्धा विधाय लडितानि च तानि तानि ।
अङ्के निलीय कमितुः शिथिलाङ्गमुद्रा निद्राति नाल्पतपसः फलसम्पद् एषा १९.४ ॥५६२॥
यद् व्रीडाभरभुग्नम् आस्यकमलं यच् चक्षुर् अत्युल्लसत् पक्ष्मश्रेणि यद् अङ्गम् अङ्गजमनोराज्यश्रियाम् आश्रयः ।
यद् वर्धिष्णु मनोभवप्रनयिता यन् मन्दमन्युग्रहस् तेनैवेह मनो हरत्य् अधरितप्रौढा नवोढा न किम् १९.५ ॥५६३॥
स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणं नेत्रयोस् तत् साम्राज्यम् अगञ्जितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम् ।
यद् बाला बलवन्मनोभवभयभ्रश्यत्तपं सत्रपा तत्कालोचितनर्मकर्म दयिताद् अभ्यास्यम् अभ्यस्यति १९.६ ॥५६४॥
समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि ।
तपोभिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम् इदं रम्यं वाम्यं मदनविवशाया मृगदृशः १९.७ ॥५६५॥
इदम् अमृतम् अमेयं सेयम् आनन्दसिन्धुर् मधुमधुरम् अपीदं किंचिद् अन्तर् धुनोति ।
यद् अयम् उदयलीलालालसानां वधूनां रतिविनिमयभाजां केलिभिर् याति कालः १९.८ ॥५६६॥
को ऽसौ सुन्दरि पुष्पसायकसखः सौभाग्यवारांनिधः को ऽसाव् इन्दुमुखि प्रसन्नहृदयः कः कुम्भिकुम्भस्तनि ।
यस्मिन् विस्मयनीयतप्ततपसे स्वैरं समुच्छृङ्खला विश्राम्यन्ति तव स्मरज्वरहराः कन्दर्पकेलिश्रियः १९.९ ॥५६७॥
प्रद्युम्नस्य
आत्ते वाससि रोद्धुम् अक्षमतया दोःकन्दलीभ्यां स्तनौ तस्योरःस्थलम् उत्तरीयविषये सद्यो मया सञ्जितम् ।
श्रोणीं तस्य करे ऽधिरोहति पुनर् व्रीडाम्बुधौ माम् अथो मञ्जन्तीम् उदतारयन् मनसिजो देवः स मूर्छागुरुः १९.१० ॥५६८॥
वल्लणस्य
यद् एतद् धन्यानाम् उरसि युवतीसङ्गसमये समारूढं किंचित् पुलकम् इदम् आहुः किल जनाः ।
मतिस् त्व् एषास्माकं कुचयुगतटीचुम्बकशिला- निवेशाद् आकृष्टः स्मरशरशलाकोत्कर इव १९.११ ॥५६९॥
संकर्षणस्य
अङ्गाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव् आकृष्टे जघनांशुके कृतम् अधःसंसक्तम् ऊरुद्वयम् ।
नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया दीपः स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः १९.१२ ॥५७०॥
जिह्रेमि जागर्ति गृहोपकण्ठे सखीजनो वल्लभकौतुकेन ।
तदंशुकाक्षेपम् अधीरपाणे विमुञ्च काञ्चीमणयो रणन्ति १९.१३ ॥५७१॥
महोदधेः
कान्ते तल्पम् उपागते विगलिता नीवी स्वयं बन्धनाद् वासश् च श्लथमेखलागुणधृतं किंचिन् नितम्बे स्थितम् ।
एतावत् सखि वेद्मि केवलम् अहं तस्याङ्गसङ्गे पुनः को ऽसौ कास्मि रतं तु किं कथम् अपि स्वल्पापि मे न स्मृतिः १९.१४ ॥५७२॥
विकटनितम्बायाः
अतिप्रौढा रात्रिर् बहलशिखदीपः प्रभवति प्रियः प्रेमारब्धस्मरविधिरसज्ञः परम् असौ ।
सखि स्वैरं स्वैरं सुरतम् अकरोद् व्रीडितवपुर् यतः पर्यङ्गो ऽयं रिपुर् इव कडत्कारमुखरः १९.१५ ॥५७३॥
धन्यासि यत् कथयसि प्रियसंगमेन नर्मस्मितं च वचनं च रसं च तस्य ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिद् अपि स्मरामि १९.१६ ॥५७४॥
विद्यायाः
जयति समरतान्तान्दोलनापाण्डगण्ड- स्थलकृतनिजवासखेदपूरानुजन्मा ।
श्लथतनुभुजबन्धप्राप्रदीर्घप्रसारो मुखपरिमलमुग्धः कान्तयोः श्वासवातः १९.१७ ॥५७५॥
मनोजन्मप्रौढव्यतिकरशतायासविधिषु प्रियः प्रायो मुग्धो झगिति कृतचेतोभवविधिः ।
सहूंकारोज्जृम्भा स्मरपरवशा कान्तविमुखं मुखं मुग्धापाङ्गं क्षिपति विरसं प्रौढयुवती १९.१८ ॥५७६॥
नवनवरहोलीलाभ्यासप्रपञ्चितमन्मथ- व्यतिकरकलाकल्लोलान्तर्निमग्नमनस्कयोः ।
अपि तरुणयोः किं स्यात् तस्यां दिवि स्पृहयालुता मुकुलितदृशोर् उद्भिद्यन्ते न चेद् विरहत्विषः १९.१९ ॥५७७॥
तस्यापाङ्गविलोकितस्य मधुरप्रोल्लासितार्धभ्रुवस् तस्य स्मेरशुचेः क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया ।
भावानाम् अपि तादृशां मृगदृशो हावानुगानाम् अहो नाधन्यः कुरुते प्ररूढपुलकैर् आतिथ्यम् अङ्गैर् जनः १९.२० ॥५७८॥
समाकृष्टं वासः कथम् अपि हठात् पश्यति मयि क्रमाद् ऊरुद्वन्द्वं जरठशरगौरं मृगदृशः ।
तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया निरुद्धं हस्ताभ्यां झगिति मम नेत्रोत्पलयुगम् १९.२१ ॥५७९॥
अनल्पं संतापं शमयति मनोजन्मजनितं तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति ।
तद् एवं को ऽप्य् ऊष्मा रमणपरिरम्भोत्सवमिलत्- पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते १९.२२ ॥५८०॥
नाधन्यान् विपरीतमोहनरसप्रेङ्खन्नितम्बस्थली- लोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनम् ।
संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापद्रुत- श्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी १९.२३ ॥५८१॥
सोन्नोकस्य
शीत्कारवन्ति दरमीलितलोचनानि रोमाञ्चमुञ्चितनुघर्मकणावलीनि ।
एणीदृशां मकरकेतुनिकेतनानि वन्दामहे सुरतविभ्रमचेष्टितानि १९.२४ ॥५८२॥
मुहुर् व्रीडावत्याः प्रतिहसितवत्याः प्रतिमुहुर् मुहुर् विश्रान्ताया मुहुर् अभिनिविष्टव्यवसितेः ।
श्रमाम्भोभिस् तम्यत्तिलकमलिकाघूर्णदलकं मुखं लीलावत्या हरति विपरीतव्यतिकरे १९.२५ ॥५८३॥
सुरभेः
आस्तां दूरेण विश्लेषः प्रियाम् आलिङ्गतो मम ।
स्वेदः किं न सरिन्नाथो रोमाञ्चः किं न पर्वतः १९.२६ ॥५८४॥
चिरारूढप्रेमप्रणयपरिहासेन हृतया तद् आरब्धं तन्व्या न तु यद् अबलायाः समुचितम् ।
अनिर्व्यूढे तस्मिन् प्रकृतिसुकुमाराङ्गलतया पुनर् लज्जालोलं मयि विनिहितं लोचनयुगम् १९.२७ ॥५८५॥
नखदशननिपातजर्जराङ्गी रतिकलहे परिपीडिता प्रहारैः ।
सपदि मरणम् एव सा तु यायाद् यदि न पिबेद् अधरामृतं प्रियस्य १९.२८ ॥५८६॥
मुग्धे तवास्मि दयिता दयितो भव त्वम् इत्य् उक्तया न हि न हीति शिरो ऽवधूय ।
स्वस्मात् करान् मम करे वलयं क्षिपन्त्या वाचं विनाभ्युपगमः कथितो मृगाक्ष्या १९.२९ ॥५८७॥
पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकाप्रकरः ।
रतिरसरभसकचग्रहलुलितालकवल्लरीगलितः १९.३० ॥५८८॥
बाणस्य
आवृण्वाना झगिति जघनं मद्दुकूलाञ्चलेन प्रेङ्खक्रीडाकुलितकबरीबन्धनव्यग्रपाणिः ।
अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा १९.३१ ॥५८९॥
अभिनन्दस्य
हरति रतिविमर्दे लुप्तपात्राङ्कुरत्वात् प्रकटनखपदाङ्कः किं च रोमाञ्चमुद्रः ।
हरिणशिशुदृशो ऽस्या मुग्धमुग्धं हसन्त्याः परिणतशरकाण्डस्निग्धपाण्डुः कपोलः १९.३२ ॥५९०॥
वीर्यमित्रस्य
करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।
स्थगयति करैः पत्युर् नेत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर् मुहुर् ईक्षितुम् १९.३३ ॥५९१॥
विश्रान्तिं नूपुरे याते श्रूयते रसनाध्वनिः ।
प्रायः कान्ते रतिश्रान्ते कामिनी पुरुषायते १९.३४ ॥५९२॥
भावोद्गाढम् उपोढकम्पपुलकैर् अङ्गैः समालिङ्गितं रागाच् चुम्बितम् अभ्युपेत्य वदनं पीतं च वक्त्रामृतम् ।
जल्पन्त्यैव मुहुर् न नेति निभृतं प्रध्वस्तचारित्रया निःशेषेण समापितो रतविधिर् वाचा तु नाङ्गीकृतः १९.३५ ॥५९३॥
यत् पीनस्तनभारलालसलसद्वासःस्फुरद्गण्डया तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुः पीयते ।
तच् छ्लाघ्यं सुरतं च तत् तद् अमृतं तद् वस्तु तद् ब्रह्म तच् चेतोहारि तद् एव तत् किम् अपि तत् तत्त्वान्तरं सर्वथा १९.३६ ॥५९४॥
न बत विधृतः काञ्चीस्थाने करः श्लथवाससि प्रहितम् असकृद् दीपे चक्षुर् घनस्थिरतेजसि ।
कुचकलशयोर् ऊढः कम्पस् तया मम संनिधौ मनसिजरुजो भावैर् उक्ता वचोभिर् अपह्नुताः १९.३७ ॥५९५॥
अभिनन्दस्य
हर्षाश्रुदूषितविलोचनया मयाद्य किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम् ।
रोमाञ्चकञ्चुकतिरस्कृतदेहया वा ज्ञातानि तानि परिरम्भसुखानि किं वा १९.३८ ॥५९६॥
अचलस्य
स कस्मान् मे प्रेयान् सखि कथम् अहं तस्य दयिता यतो मां स्पृष्ट्वैव स्नपयति करं स्वेदपयसा ।
विलोक्याश्लेषाद् अप्य् अवहित इवामील्य नयने व्युदञ्चद्रोमाञ्चस्थगितवपुर् आलिङ्गति समाम् १९.३९ ॥५९७॥
किम् अपि किम् अपि मन्दं मन्दम् आसत्तियोगाद् अविचलितकपोलं जल्पतोश् च क्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णोर् अविदितगतयामा रात्रिर् एव व्यरंसीत् १९.४० ॥५९८॥
त्तररामचरित १.२७
भवभूतेः
दाक्षिण्याद् अभिमानतो रसवशाद् विश्रामहेतोर् मम प्रागल्भ्याद् यद् अनुष्ठितं मृगदृशा शक्यं न तद् योषिताम् ।
निर्व्यूढं न यदा तया तद् अखिलं खिन्नैस् तरत्तारकैः सव्रीडैश् च विलोकितैर् मयि पुनर् न्यस्तः समस्तो व्ययः १९.४१ ॥५९९॥
वलितमनसोर् अप्य् अन्योन्यं समावृतभावयोः पुनर् उपचितप्रायप्रेम्णोः पुनस् त्रपमाणयोः ।
इह हि निबिडव्रीडानङ्गज्वरातुरचेतसोर् नवतरुणयोः को जानीते किम् अद्य फलिष्यति १९.४२ ॥६००॥
लक्ष्मीधरस्य
द्रष्टुं केतकपत्रगर्भसुभगाम् ऊरुप्रभाम् उत्सुकस् तत्संवाहनलीलया च शनकैर् आक्षिप्तचण्डातकः ।
लज्जामुग्धविलोचनस्मितसुधानिर्धौतबिम्बाधरं कमप्रश्लथबाहुबन्धनम् असव् आलिङ्गितो बालया १९.४३ ॥६०१॥
निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां दीर्घापाङ्गसरित्तरङ्गतरलं शय्याम् अनुप्रेषितम् ।
उज्जृम्भः किल वल्लभो ऽपि विरते वस्तुन्य् अपि प्रस्तुते घूर्णन्ती किल सापि हूंकृतवती शून्यं सखी दक्षिणा १९.४४ ॥६०२॥
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद् एकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
तिर्यग्वर्तितकन्धरां सपुलकस्वेदोद्गमोत्कम्पिनीम् अन्तर्हासचलत्कपोलफलकां धूर्तो ऽपरां चुम्बति १९.४५ ॥६०३॥
कुचोपान्तं कान्ते लिखति नखराग्रैर् अकलितं ततः किंचित् पश्चाद् वलति च मुखेन्दौ मृगदृशः ।
बहिर् व्याजामर्षप्रसरपरुषान्तर्गतरसा निरीक्ष्या रे मायी किम् इदम् इति पूर्वा विजयते १९.४६ ॥६०४॥
जीवचन्द्रस्य
आश्लेषे प्रथमं क्रमाद् अपहृते हृद्ये ऽधरस्यार्पणे केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
अन्तर्गूढविगाढसम्भ्रमरसस्फारीभवद्गण्डया तूष्णीं शारिविसारणाय निहितः स्वेदाम्बुगर्भः करः १९.४७ ॥६०५॥
राजशेखरस्य
आश्लेषचुम्बनरतोत्सवकौतुकानि क्रीडा दुरोदरपणः प्रतिभूर् अनङ्गः ।
भोगः स यद्य् अपि जये च पराजये च यूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव १९.४८ ॥६०६॥
मुरारेः
कलहकलया यत् संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूश् चकर्ष न कञ्चुकम् ।
दयितम् अभितस् ताम् उत्कण्ठां विवव्रुर् अनन्तरं झटिति झटिति त्रुट्यन्तो ऽन्तः स्तनांशुकसन्धयः १९.४९ ॥६०७॥
रतिपतिधनुर् ज्याटङ्कारो मदद्विपडिण्डिमः सपुलकजलप्रेमप्रावृट्पयोधरगर्जितम् ।
निधुवनयुधस्तूर्यातोद्यं जहार नतभ्रुवां जघनसरसीहंसस्वानः श्रुतिं रसनारवः १९.५० ॥६०८॥
युगलम् अगलत् तर्षोत्कर्षे तरूत्पलगौरयोः पटुविघटनाद् ऊर्वोः पूर्वं प्रिये परिपश्यति ।
श्रुतिकुवलयं दीपोच्छित्त्यै निरास यद् अङ्गना ज्वलति रसनारोचिर् दीपे तद् आप निरर्थताम् १९.५१ ॥६०९॥
अप्फिणाभ्युदय १४.२४
दशनदशनैर् ओष्ठो मम्लौ न पल्लवकोमलो व्यसहत नखच्छेदानङ्गं शिरीषमृदुच्छवि ।
न भुजलतिकागाढाश्लेषैः श्रमं ललिता ययुर् युवतिषु किम् अप्य् अव्याख्येयं स्मरस्य विजृम्भितम् १९.५२ ॥६१०॥
अप्फिणाभ्युदय १४.२८
किम् उपगमिता भर्त्रा तप्तद्विलोहवेदकताम् उत रमयितुः स्यूताङ्गे ऽङ्गे शितैः स्मरसायकैः ।
विलयनम् अथ प्राप्ता रागानलोष्मभिर् इत्य् अहो न पतिभुजयोर् निष्यन्दान्तः प्रिया निरवीयत १९.५३ ॥६११॥
अप्फिणाभ्युदय १४.२९
काश्मीरभट्टश्रीशिवस्वामिनश् चैते
इति सम्भोगव्रज्या
N/A
References : N/A
Last Updated : November 11, 2016
TOP