संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
मञ्जुघोषव्रज्या

सुभाषितरत्नकोशः - मञ्जुघोषव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


अङ्गामोदसमोच्छ्वलद्घृणिपतद्भृङ्गावलीमालितः स्फूर्जत्काञ्छनसूत्रगुम्फितमिलन्नीलोत्पलश्रीर् इव ।
निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां मञ्जुश्रीः सुरमुक्तमञ्जरिशिखावर्षैर् इवाभ्यर्चितः ३.१ ॥२५॥

मालितः स्फूर्जत्काञ्छन
मालितस्फूर्जल्लाञ्छन

शस्त्रोद्यद्बाहुदेहस्फुरदनलमिलद्धूमकल्पान्तपुञ्जः शृङ्गान्तानन्तविश्वार्पितमहिषमहिषशिरोमक्षिकालीविकल्पः ।
त्रासत्यक्तस्वपर्णास्तृतसुरघृणयेवालसत्पादवृन्दस् तारौघप्लुष्टभानुर् जगद् अवतु नटन् भैरवात्मा कुमारः ३.२ ॥२६॥
वल्लणस्यैतौ

खड्गी सशब्दम् अथ पुस्तकवान् सचिन्तं बालः सखेलम् अभिरामतमः सकामम् ।
नानाविधं सुरवधूभिर् इतीक्षितो वः पायाच् चिरं सुगतवंशधरः कुमारः ३.३ ॥२७॥
पुरुषोत्तमस्य

मुग्धाङ्गुलीकिशलयाङ्घ्रिसुवर्णकुम्भ- वान्तेन कान्तिपयसा धुसृणारुणेन ।
यो वन्दमानम् अभिषिञ्चति धर्मराज्ये जागर्तु वो हितसुखाय स मञ्जुवज्रः ३.४ ॥२८॥
जितारिपादानाम्

अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां श्रुतं नो नामापि क्व नु खलु हिंआशुप्रभृतयः ।
ममाभ्यर्णे धार्ष्ट्याच् चरति पुनर् इन्दीवरम् इति क्रुधेवेदं प्रान्तारुणम् अवतु वो लोचनयुग्मम् ३.५ ॥२९॥

हिमांशुप्रकृतयः
शान्ताकरगुप्तस्य

इति मञ्जुघोषव्रज्या

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP