संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
सूर्यव्रज्या

सुभाषितरत्नकोशः - सूर्यव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


यस्याधो ऽधस् तथोपर्य् उपरि निरवधि भ्राम्यतो विश्वम् अश्वैर् आवृत्तालातलीलां रचयति रयतो मण्डलं तिग्मधाम्नः ।
सो ऽव्याद् उत्तप्तकार्तस्वरसरलशरस्पर्धिभिर् धामदण्डैर् उद्दण्डैः प्रापयन् वः प्रचुरतमतमःस्तोमम् अस्तं समस्तम् ७.१ ॥१४८॥
राजशेखरस्य

शुकतुण्डच्छवि सवितुश् चण्डरुचः पुण्डरीकवनबन्धोः ।
मण्डलम् उदितं वन्दे कुण्डलम् आखण्डलाशायाः ७.२ ॥१४९॥
विद्यायाः

तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय व्योमेन्द्रनीलतरुकाञ्चनपल्लवाय ।
संसारसागरसमुत्क्रमयोगिसार्थ- प्रस्थानपूर्णकलशाय नमः सवित्रे ७.३ ॥१५०॥
वराहमिहिरस्य

संसक्तं सिक्तमूलाद् अभिनवभुवनोद्यानकौतूहलिन्या यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन ।
अर्कालोकः क्रियाद् वो मुदम् उदयशिरश्चक्रवालालवालाद् उद्यन् बालप्रवालप्रतिमरुचिर् अहःपादपप्राक्प्रवालः ७.४ ॥१५१॥
मयूरस्य

इति सूर्यव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP