संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| अर्थान्तरन्यासव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - अर्थान्तरन्यासव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश अर्थान्तरन्यासव्रज्या Translation - भाषांतर कालिन्द्या दलितेन्द्रनीलशकलश्यामाम्भसो ऽन्तर्जले मग्नस्याञ्जनपुञ्जसंचयनिभस्याहेः कुतो ऽन्वेषणा ।ताराभाः फणचक्रवालमणयो न स्युर् यदि द्योतिनो यैर् एवोन्नतिम् आप्नुवन्ति गुणिनस् तैर् एव यान्त्य् आपदम् ४०.१ ॥१३३३॥भग्नाशस्य करण्डपिण्डिततनोर् म्लानेन्द्रियस्य क्षुधा कृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।तृप्तस् तत्पिशितेन सत्वरम् असौ तेनैव यातः पथा स्वस्थास् तिष्ठत दैवम् एव जगतः शान्तौ क्षये चाकुलम् ४०.२ ॥१३३४॥यस्याः कृते नृपतयस् तृणवत् त्यजन्ति प्राणान् प्रियान् अपि परस्परबद्धवैराः ।तेषाम् असृक् पिबति सैव मही हतानां श्रीः प्रायशो विकृतिम् एति बहूपभुक्ता ४०.३ ॥१३३५॥रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा निरालम्बो मार्गश् चरणरहितः सारथिर् अपि ।रविर् यात्य् एवान्तं प्रतिदिनम् अपारस्य नभसः क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ४०.४ ॥१३३६॥वागीश्वरस्यपौलस्त्यः कथम् अन्यदारहरणे दोषं न विज्ञातवान् काकुत्स्थेन कथं न हेमहरिणस्यासम्भवो लक्षितः ।अक्षाणां च युधिष्ठिरेण महता ज्ञातो न दोषः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ४०.५ ॥१३३७॥अकार्ये तथ्यो वा भवति वितथः कामम् अथवा तथाप्य् उच्चैर् धाम्नां हरति महिमानं जनरवः ।तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो रवेस् तादृक् तेजो न हि भवति कन्यां गत इति ४०.६ ॥१३३८॥कृतो यद् अह्नस् तनिमा हिमागमे लघीयसी यच् च निदाघशर्वरी ।अनेन दृष्टान्तयुगेन गम्यते सदर्थसंकोचसमुद्यतो विधिः ४०.७ ॥१३३९॥पीताम्बराय तनयां प्रददौ पयोधिस् तत्कालकूटगरलं च दिगम्बराय ।तत्रानयोर् वदत कस्य गुणातिरेकः प्रायः परिच्छदकृतादर एव लोकः ४०.८ ॥१३४०॥किं जन्मना जगति कस्यचिद् ईक्षितेन शक्त्यैव याति निजया पुरुषः प्रतिष्ठाम् ।शक्ता हि कूपम् अपि शोषयितुं न कुम्भाः कुम्भोद्भवेन पुनर् अम्बुधिर् एव पीतः ४०.९ ॥१३४१॥पुंसः स्वरूपविनिरूपणम् एव कार्यं तज्जन्मभूमिगुणदोषकथा वृथैव ।कः कालकूटम् अभिनन्दति सागरोत्थं को वारविन्दम् अभिनिन्दति पङ्कजातम् ४०.१० ॥१३४२॥खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मूर्धनि छायाम् आतपवैरिणीम् अनुसरन् बिल्वस्य मूलं गतः ।तत्राप्य् आशु कदाचिद् एव पतता बिल्वेन भग्नं शिरः प्रायो गच्छति यत्र भाग्यरहितस् तत्रापदां भाजनम् ४०.११ ॥१३४३॥अलंकारः शङ्काकरनरकपालः परिकरः प्रशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।अवस्थेयं स्थाणोर् अपि भवति यत्रामरगुरोर् विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनर् अमी ४०.१२ ॥१३४४॥न सम्बन्दोपाधिं दधत इह दाक्षिण्यनिधयः प्रहृष्टप्रेमाणां स हि सहज एषाम् उदयते ।क एते सम्बन्धान् मलयमरुतश् चूततरवो यद् एतान् आलभ्य प्रतिपरुरुदानं जनयति ४०.१३ ॥१३४५॥लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां पुंसः कुलं न हि निमित्तम् उदात्ततायाः ।वातापितापनमुनेः कलशात् प्रसूतिर् लीलायितं पुनर् अमुष्यसमुद्रपानम् ४०.१४ ॥१३४६॥स्थलीनां दग्धानाम् उपरि मृगतृष्णानुसरणात् तृषार्तः शारङ्गो विरमति न खिन्ने ऽपि वपुषि ।अजानानस् तत्त्वं न स मृगयते ऽन्यां च सरसीम् अभूमौ प्रत्याशा न हि फलति विघ्नं च कुरुते ४०.१५ ॥१३४७॥किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्य् एष यत् किं वा नास्ति परिश्रमो दिनकरस्यास्ते न यन् निश्चलः ।किं त्व् अङ्गीकृतम् उत्सृजन् कृपणवच् छ्लाघ्यो जनो लज्जते निर्व्यूढिः प्रतिपन्नवस्तुषु सताम् एकं बताहो व्रतम् ४०.१६ ॥१३४८॥स्वच्छाशयो भवति को ऽपि जनः प्रकृत्या सङ्गः सताम् अभिजनश् च न हेतुर् अत्र ।दुग्धाब्धिलब्धजननो हरकन्धरास्थः स्वां कालतां त्यजति जातु न कालकूटः ४०.१७ ॥१३४९॥वासश् चर्म विभूषणं शवशिरो भिक्षाणतेनाशनं गौर् एकः स च लाङ्गले ऽप्य् अकुशलस् तन्मात्रसारं धनम् ।शर्वस्येत्य् अवगम्य याति विमुखी रत्नालयं जाह्वनी कष्टं दुर्गतिकस्य जीवितम् अहो दारैर् अपि त्यज्यते ४०.१८ ॥१३५०॥कैवर्तकर्कशकरग्रहणच्युतो ऽपि जाले पुनर् निपतितः शफरो वराकः ।दैवात् ततो ऽपि गलितो गिलितो बकेन वामे विधौ वद कथं व्यसनस्य शान्तिः ४०.१९ ॥१३५१॥खनति न खुरैः क्षोणीपृष्ठं न नर्दति सादरं प्रकृतिपुरुषं दृष्ट्वैवाग्रे न कुप्यति गाम् अपि ।वहति तु धुरं धुर्यो धैर्याद् अनुद्धतकन्धरो जगति कृतिनः कार्यौदार्यात् परान् अतिशेरते ४०.२० ॥१३५२॥शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिभृतं महीध्राद् उत्तुङ्गाद् अवनितलम् अस्माच् च जलधिम् ।अधो ऽधो गङ्गावद् वयम् उपगता दूरम् अथवा पदभ्रंशेतानां भवति विनिपातः शतमुखः ४०.२१ ॥१३५३॥क्वापि कस्य च कुतो ऽपि कारणाच् चित्तवृत्तिर् इह किं गुणागुणैः ।उन्नतं यद् अवधीर्य भूधरं नीचम् अब्धिम् अभियाति जाह्नवी ४०.२२ ॥१३५४॥सरसि बहुशस् ताराछायां दशन् परिवञ्चितः कुमुदविटपान्वेषी हंसो निशासु विचक्षणः ।न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं कुहकचकितो लोकः सत्ये ऽप्य् अपायम् अवेक्षते ४०.२३ ॥१३५५॥अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् ।बालाद् अन्यः को ऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम् ४०.२४ ॥१३५६॥निर्गुणम् अप्य् अनुरक्तं प्रायो न समाश्रितं जहति सन्तः ।सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कम् अपि ४०.२५ ॥१३५७॥अविकारिणम् अपि सज्जनम् अनिशम् अनार्यः प्रबाधते ऽत्यर्थम् ।कमलिन्या किम् अपकृतं हिमस्य यस् तां सदा दहति ४०.२६ ॥१३५८॥भयं यद् धनुरीश्वरस्य शिशिना यज् जामदग्न्यो हतस् त्यक्ता येन गुरोर् गिरा वसुमती बद्धो यद् अम्भोनिधिः ।एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्णय येन सो ऽपि सहसा नीतः कथाशेषताम् ४०.२७ ॥१३५९॥शशिनम् उदितं लेखामात्रं नमन्ति न चेतरं गगनसरितं धत्ते मूर्ध्ना हरो न नगात्मजाम् ।त्रिभुवनपतिर् लक्ष्मीं त्यक्त्वा हरिः प्रियगोपिकः परिचितगुणद्वेषी लोको नवं नवम् इच्छति ४०.२८ ॥१३६०॥उपशमफलाद् विद्याबीजात् फलं धनम् इच्छतां भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम् ।नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुम् अलं शालेर् बीजं न जातु जवाङ्कुरम् ४०.२९ ॥१३६१॥तृषार्तैः शारङ्गैः प्रति जलधरं भूरि विरुतं घनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः ।खगानां के मेघाः क इव विहगा वा जलमुचाम् अयाच्यो नार्तानाम् अनुपकरणीयो न महताम् ४०.३० ॥१३६२॥अमरसिंहस्यपयस् तेजो वायुर् गगनम् अवनिर् विश्वम् अपि वा स्वयं विष्णुस् तस्य त्रिदशजयिनः किं न सुकरम् ।छलान् नीतो ऽधस्ताद् बलिर् अणुकरूपेण तद् अपि स्वभावाच् चक्री यः प्रगुणम् अपि चक्रेण सृजति ४०.३१ ॥१३६३॥मुष्टिकरगुहस्यकिं नोज्ज्वलः किम् उ कलाः सकला न धत्ते दत्ते न किं नयनयोर् मुदम् उन्मयूखः ।राहोस् तु चक्रपतितो ऽस्तमितो ऽयम् इन्दुः सत्यं सताम् अहृदयेषु गुणास् तृणानि ४०.३२ ॥१३६४॥अतुलस्यलूनास् तिलास् तदनु शोषम् उपागतास् ते शोषाद् धि शुद्धिम् अथ तापम् उपेतवन्तः ।तापात् कठोरतरयन्त्रनिपीडनानि स्नेहो निमित्तम् इति दुःखपरंपरायाः ४०.३३ ॥१३६५॥दुग्ध मुग्धम् अस्ति यस् त्वया धृतः स्नेह एष विपदेककारणम् ।यत्कृते त्वम् अपवासितं पुनश् छिन्नम् उन्मथितम् अग्निसाकृतम् ४०.३४ ॥१३६६॥मूर्धेन्दुः परमेश्वरेण विधृतो वक्रो जडात्मा क्षयी कर्णान्ते च परापकारचतुरो न्यस्तो द्विजिह्वाधिपः ।नन्दी द्वारि बहिःकृतो गुणनिधिः कष्टं किम् अत्रोच्यतां पात्रापात्रविचारणास्व् अनिपुणः प्रायो भवेद् ईश्वरः ४०.३५ ॥१३६७॥काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः ।पार्थस्यापि पराभवं यदि रिपुर् नादात् क्व तादृक् तपो नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः ४०.३६ ॥१३६८॥शम्बूकाः किल निर्गता जलनिधेस् तीरेषु दावाग्निना दह्यन्ते मणयो वणिक्करतलैर् आयान्ति राज्ञां शिरः ।स्थानप्रच्युतिर् अल्पकस्य विपदे सन्तस् तु देशान्तरं यान्तो यान्ति सदा समर्पितगुणाः श्लाघ्याः पराम् उन्नतिम् ४०.३७ ॥१३६९॥य एको लोकानां परमसुहृद् आनन्दजनकः कलाशाली श्रीमान् निधुवनविधौ मङ्गलघटः ।सुधासूतिः सो ऽयं त्रिपुरहरचूडामणिर् अहो प्रयात्य् अस्तं हन्त प्रकृतिविषमा दैवगतयः ४०.३८ ॥१३७०॥अपेताः शत्रुभ्यो वयम् इति विषादो ऽयम् अफलः प्रतीकारस् त्व् एषाम् अनिशम् अनुसंधातुम् उचितः ।जरासंधाद् भग्नः सह हलभृता दानवरिपुर् जघानैनं पश्चान् न किम् अनिलसूनुः प्रियसखः ४०.३९ ॥१३७१॥चन्द्रः क्षयी प्रकृतिवक्रतनुर् जडात्मा दोषाकारः स्फुरति मित्रविपत्तिकाले ।मूर्ध्ना तथापि विधृतः परमेश्वरेण नैवाश्रितेषु महतां गुणदोषचिन्ता ४०.४० ॥१३७२॥शुक्लीकरोति मलिनानि दिगन्तराणि चन्द्रो न शुक्लयति चात्मगतं कलङ्कम् ।नित्यं यथार्थघटनाहितमानसानां स्वार्थोद्यमो भवति नो महतां कदाचित् ४०.४१ ॥१३७३॥गृह्णाति युक्तम् इतरच् च जहाति धीमान् एष स्वभावजनितो महतां विवेकः ।अन्योन्यमिश्रितम् अपि व्यतिरिच्य शुद्धं दुग्धं पिबत्य् उदकम् उज्झति राजहंसः ४०.४२ ॥१३७४॥प्रायो भवत्य् अनुचितस्थितिदेशभाजः श्रेयः स्वजीवपरिपालनमात्रम् एव ।अन्तःप्रतप्तमरुसैकतदह्यमान- मूलस्य चम्पकतरोः क विकाशचिन्ता ४०.४३ ॥१३७५॥विद्यायाःग्रहपरिकवलिततनुर् अपि रविर् इह बोधयति पद्मषण्डानि ।भवति विपद्य् अपि महताम् अङ्गीकृतवस्तुनिर्वाहः ४०.४४ ॥१३७६॥प्रणत्या बहुलाभो ऽपि न सुखाय मनीषिणः ।चातकः स्वल्पम् अप्य् अम्बु गृह्णात्य् अनन्तकन्धरः ४०.४५ ॥१३७७॥कस्योपयोगमात्रेण धनेन रमते मनः ।पदप्रमाणम् आधारम् आरूढः को न कम्पते ४०.४६ ॥१३७८॥उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं पुरो नानाभङ्गान् अनुभवति पश्यैष जलदः ।कथंचिल् लब्धानि प्रवितरति तोयानि जगते गुणं वा दोषं वा गणयति न दानव्यसनिता ४०.४७ ॥१३७९॥वल्लणस्यैतेसुधाधाम्नः कान्तिं ग्लपयति विलुम्पत्य् उडुगणं किरत्य् उष्णं तेजः कुमुदवनलक्ष्मीः शमयति ।रविर् जानात्य् एव प्रतिदिवसम् अस्ताद्रिपतनं तथापि प्रत्यग्राभ्युदयतरलः किं न कुरुते ४०.४८ ॥१३८०॥कविराजस्यइत्य् अर्थान्तरन्यासव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP