संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
जातिव्रज्या

सुभाषितरत्नकोशः - जातिव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


अजाजीजम्बाले रजसि मरिचानां च लुठिताः कटुत्वाद् उष्णत्वाज् जनितरसनौष्ठव्यतिकराः ।
अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः ३५.१ ॥११४८॥

ग्रीवाभङ्गाभिरामं मुहुर् अनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् ।
शष्पैर् अर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ३५.२ ॥११४९॥
कालिदासस्य

स्वैरं चक्रानुवृत्त्या मुहुर् उपरि परिभ्रम्य सम्यक्कृतास्थः क्षिप्ताधिदृष्टिलक्ष्यीकृतपलशकलः पक्कणप्राङ्गणेषु ।
तीव्राधःपातपुञ्जीकृतविततचलत्पक्षपालीविशालश् चिल्लश् चाण्डालपल्लीपिठरजठरतः प्रोद्धरत्य् अर्धदग्धम् ३५.३ ॥११५०॥

उद्ग्रीवा विवृतारुणास्यकुहरास् तृष्णाचलत्तालवः पक्षासम्भववेपमानतनवः प्रोड्डीय किंचिद् भुवः ।
अन्योन्याक्रमिणः शरारिशिशवः प्रातर् नदीरोधसि प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतम् ३५.४ ॥११५१॥

रज्जुक्षेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी ।
तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठानतिव्याकृता- भोगश्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी ३५.५ ॥११५२॥

पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर् एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती ।
निद्राशेषविशेषरक्तनयनो निर्याय नीडोदराद् आसृक्कान्तविदारिताननपुटः पारावतो जृम्भते ३५.६ ॥११५३॥
भृङ्गारस्य

प्रातर् वारविलासिनीजनरणन्मञ्जीरमञ्जुस्वनैर् उद्बुद्धः परिधूय पक्षतिपुटं पारावतः सस्पृहम् ।
किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं मन्दान्दोलितकण्ठकुण्ठितगलः सोत्कण्ठम् उत्कूजति ३५.७ ॥११५४॥
विक्रमादित्यतपस्विनोः

उत्प्लुत्य दूरं परिधूय पक्षा- वधो निरीक्ष्य क्षणबद्धलक्ष्यः ।
मध्येजलं बुड्डति दत्तझम्पः समत्स्यम् उत्सर्पति मत्स्यरङ्कः ३५.८ ॥११५५॥
वाक्पतिराजस्य

नीडाद् अपक्रम्य विधूय पक्षौ वृक्षाग्रम् आरुह्य ततः क्रमेण ।
उद्ग्रीवम् उत्पुच्छम् उदेकपादम् उच्चूडम् उत्कूजति ताम्रचूडः ३५.९ ॥११५६॥

अङ्गुष्ठाक्रमवक्रिताङ्गुलिर् अधः पादार्धनीरुद्धभूः पार्श्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान् मुहुः ।
न्यग्जानुद्वययन्त्रयन्तितघटीवक्त्रान्तरालस्खलद्- धाराध्वानमनोहरं सखि पयो गां दोग्धि गोपालकः ३५.१० ॥११५७॥
उपाध्यायदामरस्य

कर्णाग्रन्थितकिंतनुर् नतशिरा बिभ्रज्जराजर्जर- स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणम् ।
आराद् वीक्ष्य विपक्वसाक्रमकृतक्रोधस्फुरत्कन्धरं श्वा मल्लीकलिकाविकाशिदशनः किंचित् क्वणन् गच्छति ३५.११ ॥११५८॥

तुन्दी चेत् परिचुम्बति प्रियतमां स्वार्थात् ततो भ्रश्यति स्वार्थं चेत् कुरुते प्रियाधररसास्वादं न विन्दत्य् असौ ।
तं चेमं च करोति मूढजडधीः कामान्धमुग्धो यतस् तुन्दौ तुन्दितविग्रहस्य सुरते नैको भवेन् नापरः ३५.१२ ॥११५९॥

नश्यद्वक्त्रिमकुन्तलान्तलुलितस्वच्छाम्बुबिन्दूत्करा हस्तस्वस्तिकसंयमे नवकुचप्राग्भारम् आतन्वती ।
पीनोरुद्वयलीनचीनवसना स्तोकावनम्रा जलात् तीरोद्देशनिमेषलोलनयना बालेयम् उत्तिष्ठति ३५.१३ ॥११६०॥
भोज्यदेवस्य

अम्भोमुचां सलिलम् उद्गिरतां निशीथे ताडीवनेषु निभृतस्थितकर्णतालाः ।
आकर्णयन्ति करिणो ऽर्धनिमीलिताक्षा धारारवं दशनकोटिनिषण्णहस्ताः ३५.१४ ॥११६१॥
हस्तिपकस्य

हलाग्रोत्कीर्णायां परिसरभुवि ग्रामचटका लुठन्ति स्वच्छन्दं नखरशिखराच् छोटितमृदः ।
चलत्पक्षद्वन्द्वप्रभवमरुदुत्तम्भितरजः- कणाश्लेषभ्रामद्रुतमुकुलितोन्मीलितदृशः ३५.१५ ॥११६२॥

आकुब्जीकृतपृष्ठम् उन्नतवलद्वक्त्राग्रपुच्छं भयाद् अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् ।
लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालननः श्वा निःश्वासनिरोधपीवरगलो मार्जारम् आस्कन्दति ३५.१६ ॥११६३॥

पयसि सरसः स्वच्छे मत्स्याञ् जिघृक्षुर् इतस् ततो वलितनयनो मन्दं मन्दं पदं निदधद् बकः ।
वियति विधृतैकाङ्घ्रिस् तिर्यग्विवर्तितकन्धरो दलम् अपि चलत्सप्रत्याशं मुहुर् मुहुर् ईक्षते ३५.१७ ॥११६४॥

मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोद्धतैर् अपिरजोभिर् अलङ्घनीया धावन्य् अमी मृगजवाक्षमयेव रथ्याः ३५.१८ ॥११६५॥

पश्चाद् अङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गम् उच्चैर् आसज्याभुग्नकण्ठो मुखम् उरसि सटां धूलिधूम्रां विधूय ।
घासग्रासाभिलाषाद् अनवरतचलत्प्रोथतुण्डस् तुरङ्गो मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ३५.१९ ॥११६६॥

आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस् तुरङ्गः पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुर् उन्मुक्तकायः ।
पृष्ठान्तः पार्श्वकण्डूव्यपनयनरसाद् द्विस् त्रिर् उद्वर्तिताङ्गः प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्व्यां धुनोति ३५.२० ॥११६७॥

आदौ वितत्य चरणौ विनमय्य कण्ठम् उत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः ।
मात्रा प्रवर्तितमुखं मुखलिह्यमान- पश्चार्धसुस्थमनसः स्तनम् उत्पिबन्ति ३५.२१ ॥११६८॥

प्रियायां स्वैरायाम् अतिकठिनगर्भालसतया किराते चाकर्णीकृतधनुषि धावत्य् अनुपदम् ।
प्रियाप्रेमप्राणप्रतिभयवशाकूतविकलो मृगः पश्चाद् आलोकयति च मुहुर् याति च मुहुः ३५.२२ ॥११६९॥

शीर्णक्षुद्रातपत्री जठरवलयितानेकमात्राप्रपञ्चश् चूडानिर्व्यूढबिल्वच्छद उदरदरीभीषणो जीर्णकण्ठः ।
दूराध्वभ्रान्तिखिन्नः कथम् अपि शनकैर् अङ्घ्रिपीडां नियम्य स्वैरेन्धस्फोटनाय द्विजभवनम् अनु स्नातकः सायम् एति ३५.२३ ॥११७०॥

चञ्चच्चञ्चलचञ्चुवञ्चितचलच्चूडाग्रम् उग्रं पतच्- चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् ।
वारं वारम् उदङ्घ्रिलङ्घनघनप्रेङ्खन्नखक्षुण्णयोः कामं कुक्कुटयोर् द्वयं द्रुतपदक्रूरक्रमं युध्यति ३५.२४ ॥११७१॥

एते जीर्णकुलायकालजटिलाः पांसूत्कराकर्षिणः शाखाकम्पविहस्तदुःस्थविहगान् आकम्पयन्तस् तरून् ।
हेलान्दोलितनर्तितोझितहतव्याघट्टितोन्मूलित- प्रोत्क्षिप्तभ्रमितैः प्रपापटलकैः क्रीडन्ति झञ्झानिलाः ३५.२५ ॥११७२॥

एते संततभृज्यमानचणकामोदप्रधाना मनः कर्षन्त्य् ऊषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः ।
तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह- भ्राम्यत्पीवरयन्त्रकध्वनिर् असद्गम्भीरगेहोदराः ३५.२६ ॥११७३॥

अस्मिन् ईषद्वलितविततस्तोकविच्छिन्नभुग्नः किंचिल्लीलोपचितविभवः पुञ्जितश् चोत्थितश् च ।
धूमोद्गारस् तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान् ३५.२७ ॥११७४॥

कैश्चिद् वीतदयेन भोगपतिना निष्कारणोपप्लुत- प्रक्षीणैर् निजवंशभूर् इति मितैर् अत्यज्यमानाः कुलैः ।
ग्रामा निस्तृणजीर्णकुड्यबहुलाः स्वैरं भ्रमद्बभ्रवः प्रायः पाण्डुकपोतकण्ठमुखरारामे न यान्त्य् उत्कताम् ३५.२८ ॥११७५॥

दुरुपहितहलेषासार्गलद्वारमारात् परिचकितपुरन्ध्रीपातिताभ्यर्णभाण्डम् ।
पवनरयतिरश्चीस् तोयधाराः प्रतीच्छन् विशति वलितशृङ्गः पामरागारम् उक्षा ३५.२९ ॥११७६॥

उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रहङ्घं ततो वक्त्रस्वैरपदक्रमैर् उपगताः किंचिच्चलन्तो गले ।
भेकाः पूतिनिपातिनो मिचिमिचीत्य् उन्मीलितार्धेक्षणा नक्राकारविदारिताननपुटैर् निर्मक्षिकं कुर्वते ३५.३० ॥११७७॥

विलासमसृणोल्लसन्मुसललोलदोःकन्दली- परस्परपरिस्खलद्वलयनिःस्वनैर् दन्तुराः ।
हरन्ति कलहूंकृतिप्रसभकम्पितोरःस्थल- त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः ३५.३१ ॥११७८॥

विकासयति लोचने स्पृशति पाणिनाकुञ्चिते विदूरम् अवलोकयत्य् अतिसमीपसंस्थं पुनः ।
बहिर् व्रजति सातपे स्मरति नेत्रवर्तेः पुमाञ् जराप्रमुखसंस्थितः समवलोकयन् पुस्तकम् ३५.३२ ॥११७९॥
वराहस्य

प्रायो रथ्यास्थलभुवि रजःप्रायदूर्वालतायां जाल्मैः पृष्ठापहृतसलवाः सक्षुधो माम् अहोक्षाः ।
स्वैरं श्वासानिलतरलितोद्भूतधूलीप्रवेश- प्लुष्टप्राणा विहितविधुतग्रासविघ्नं चरन्ति ३५.३३ ॥११८०॥

सीमनि लघुपङ्कायाम् अङ्कुरगौराणि चञ्चितोरस्काः ।
लघुतरम् उत्प्लवमानाश् चरन्ति बीजान्ति कलविङ्काः ३५.३४ ॥११८१॥

क्वणद्वलयसंततिक्षणम् उदञ्चिदोष्कन्दली गलत्पटसमुन्मिषत्कुचतटीनखाङ्कावली ।
कराम्बुजधृतोल्लसन्मुशलम् उन्नमन्ती मुहुः प्रलम्बिमणिमालिनी कलमकण्डनी राजते ३५.३५ ॥११८२॥
वागुरस्य

उत्पुच्छः प्रमदोच्छ्वसद्वपुर् अधोविस्रंसिपक्षद्वयः स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः ।
उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस- न्यग्भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः क्षणम् ३५.३६ ॥११८३॥
सोन्नोकस्य

सिद्धार्थयष्टिषु यथोत्तरहीयमान- संस्थानबद्धफलसूचिपरम्परासु ।
विच्छिद्यमानकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानम् उपादधाति ३५.३७ ॥११८४॥

बकोटाः पान्थानां शिशिरसरसीसीम्नि सरताम् अमी नेत्रानन्दं ददति चरणाचोटितमुखाः ।
धुनाना मूर्धानं गलबिलगलत्स्फारशफर- स्फुरत्पुच्छानच्छव्यतिकरसबाष्पाकुलदृशः ३५.३८ ॥११८५॥

तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननः किंचित्कुञ्चितलोचनः खुरपुटेनाचोटयन् भूतलम् ।
निश्वासैर् अतिसंततैर् बुषकणाजालं खले विक्षिपन्न् उक्षा गोष्ठतटीषु लब्धविजयो गोवृन्दम् आस्कन्दति ३५.३९ ॥११८६॥
अचलस्य

अर्चिर्मालाकरालाद् दिवम् अभिलिहतो दाववह्नेर् अदूराद् उड्डीयोड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः ।
अग्रे ऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा धूम्याटाः पर्यटन्ति प्रतिविटपम् अमी निष्ठुराः स्वस्थलीषु ३५.४० ॥११८७॥
मधुकण्ठस्य

नीवारौदनमण्डम् उष्णमधुरं सद्यःप्रसूतप्रिया- पीताद् अप्य् अधिकं तपोवनमृगः पर्याप्तम् आचामति ।
गन्धेन स्फुरता मनाग् अनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ३५.४१ ॥११८८॥
भवभूतेः

मधुरम् इव वदन्तः स्वागतं भृङ्गशब्दैर् नतिम् इव फलनम्रैः कुर्वते ऽमी शिरोभिः ।
मम ददत इवार्घं पुष्पवृष्टिं किरन्तः कथय नतिसपर्यां शिक्षिताः शाखिनो ऽपि ३५.४२ ॥११८९॥
श्रीहर्षस्य

अस्मिन् वृद्धवनेचरीकरतलैर् दत्ताः सपञ्चाङ्गुलाः शिखरिभिः शृङ्गैः करालोदराः ।
द्वारोपान्तपशूकृतार्प्यपुरुषक्षुब्धास्थिकिर्मीरिताश् चित्तोत्कम्पम् इवानयन्ति गहनाः कान्तार ३५.४३ ॥११९०॥

तैस् तैर् जीवोपहारैर् इह कुहरशिलासंश्रयाम् अर्चयित्वा देवीं कान्तारदुर्गां रुधिरम् उपतरु क्षेत्रपालाय दत्त्वा ।
तुम्बीवीणाविनोदव्यवहितसरकाम् अह्नि जीर्णे पुराणीं हालां मालूरकोषैर् युवतिसहचरा बर्बराः शीलयन्ति ३५.४४ ॥११९१॥
योगेश्वरस्य

अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं प्रशिथिलविपुलत्वं ज्वालकोच्छ्वासिपालम् ।
परिणतिपरिपाटिव्याकृतेनारुणिम्ना हतहरितिम् अशेषं नागरङ्गं चकास्ति ३५.४५ ॥११९२॥
अभिनन्दस्य

इति जातिव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP