संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
ततोऽनुरागव्रज्या

सुभाषितरत्नकोशः - ततोऽनुरागव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया व्यावृत्तस्तनम् अङ्गचुम्बिचिबुकं स्थित्वा तया मां प्रति ।
अन्तर्विस्फुरदिन्द्रनीलमणिमन्मुक्तावलीमांसलाः सप्रेम प्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः १७.१ ॥४६५॥

आकर्णान्तविसर्पिणः कुवलयच्छायामुषश् चक्षुषः क्षेपा एव तवाहरन्ति हृदयं किं सम्भ्रमेणामुना ।
मुग्धे केवलम् एतद् आहितनखोत्खाताङ्कम् उत्पांशुलं बाह्वोर् मूलम् अलीकमुक्तकबरीबन्धच्छलाद् दर्शितम् १७.२ ॥४६६॥

तरत्तारं तावत् प्रथमम् अथ चित्रार्पितम् इव क्रमाद् एवापाङ्गे सहजम् इव लीलामुकुलितम् ।
ततः किंचित् फुल्लं तदनु घनबाष्पाम्बुलहरी- परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः १७.३ ॥४६७॥
वीर्यमित्रस्य

लीलाताण्डवितभ्रु विभ्रमवलद् वक्त्रं कुरङ्गीदृशा साकूतं च सकौतुकं च सुचिरं न्यस्ताः किलास्मान् प्रति ।
नीलाब्जव्यतिमिश्रकेतकदलद्राघीयसीनां स्रजां सोदर्याः सुहृदः स्मरस्य सुधया दिग्धाः कटाक्षच्छटाः १७.४ ॥४६८॥
राजशेखरस्य

दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्तिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान् निर्गन्तुम् एवेहते याता वामतयैव मे ऽद्य सुतरां प्रीत्यै नवोढा प्रिया १७.५ ॥४६९॥

तद्व्रीडाभरभुग्नम् आस्यकमलं विन्यस्य जानूपरि प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः ।
हास्यश्रीलवलाञ्छिता च यद् असाव् अस्याः कपोलस्थली लोकल्लोचनगोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः १७.६ ॥४७०॥
प्रद्युम्नस्य

बिसकवलनलिलामग्नपूर्वार्धकायं कमलम् इति गृहीतं हंसम् आशु त्यजन्त्याः ।
विरतचरिततारस्फारनेत्रं यद् अस्याश् चकितम् इह न दृष्टं मूढ तद् वञ्चितो ऽसि १७.७ ॥४७१॥

अयं लोकन्मुक्तावलिकिरणमालापरिकरः स्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथसुहृत् ।
विशालः श्यामायाः स्खलितघननीलांशुकवृतिः स्तनाभोगः स्निह्यन्मसृणघुसृणालेपसुभगः १७.८ ॥४७२॥

मन्ये हीनं स्तनजघनयोर् एकम् आशङ्क्य धात्रा प्रारब्धो ऽस्याः परिकलयितुं पाणिनादाय मध्यः ।
लावण्यार्द्रे कथम् इतरथा तत्र तस्याङ्गुईनाम् आमग्नानां त्रिवलिवलयच्छद्मना भान्ति मुद्राः १७.९ ॥४७३॥

यत्रैतन् मृगनाभिपत्रतिलकं पुष्णाति लक्ष्मश्रियं यस्मिन् हासमयो विलिम्पति दिशो लावण्यबालातपः ।
तन् मित्रं कुसुमायुधस्य दधती बालान्धकाराञ्चिता तारैकावलिमण्डनेयम् अनघा श्यामा वधूर् दृश्यताम् १७.१० ॥४७४॥
मनोविनोदस्यामी

वक्त्राम्बुजं भुजमृणाललतं प्रियाया लावण्यवारि वलिवीचि वपुस् तडागम् ।
तत्प्रेमपङ्कपतितो न समुज्जिहीते मच्चित्तकुञ्जरपतिः परिगाहमानः १७.११ ॥४७५॥

कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्ये ऽस्यास् त्रिवलीविभङ्गविषमे निष्पन्दताम् आगता ।
मद्दृष्टिस् तृषितेव सम्प्रति शनैर् आरुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुर् ईक्षते जललवप्रस्यन्दिनी लोचने १७.१२ ॥४७६॥
श्रीहर्षदेवस्य

अलम् अतिचपलत्वात् स्वप्नमायोपमत्वात् परिणतिविरसत्वात् संगमेन प्रियायाः ।
इति यदि शतकृत्वस् तत्त्वम् आलोकयामस् तद् अपि न हरिणाक्षीं विस्मरत्य् अन्तरात्मा १७.१३ ॥४७७॥

नपुंसकम् इति ज्ञात्वा तां प्रति प्रहितं मनः ।
रमते तच् च तत्रैव हताः पाणिनिना वयम् १७.१४ ॥४७८॥

हारो ऽयं हरिणाक्षीणां लुठति स्तनमण्डले ।
मुक्तानाम् अप्य् अवस्थेयं के वयं स्मरकिंकराः १७.१५ ॥४७९॥
धर्मकीर्तेर् अमी

सा सुन्दरीति तरुणीति तनूदरीति मुग्धेति मुग्धवदनेति मुहुर् मुहुर् मे ।
कान्ताम् अयं विरहिणीम् अनुरन्तुकामः कामातुरो जपति मन्त्रम् इवान्तरात्मा १७.१६ ॥४८०॥
वीर्यमित्रस्य

सा बाला वयम् अप्रगल्भमनसः सा स्त्री वयं कातराः साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम् ।
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयं दोषैर् अन्यजनाश्रितो ऽपटवो जाताः स्म इत्य् अद्भुतम् १७.१७ ॥४८१॥
धर्मकीर्तेः

अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् अधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयम् अशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् अपहृतम् अपविद्धं पीतम् उन्मूलितं च १७.१८ ॥४८२॥

यान्त्या मुहुर् वलितकन्धरम् आननं तद् आवृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः १७.१९ ॥४८३॥

परिच्छेदव्यक्तिर् भवति न पुरस्थे ऽपि विषये भवत्य् अभ्यस्ते ऽपि स्मरणम् अतथाभावविरमम् ।
न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा मनो निष्ठाशून्यं भ्रमति च किम् अप्य् आलिखति च १७.२० ॥४८४॥

परिच्छेदातीतः सकलवचनानाम् अविषयः पुनर्जन्मन्य् अस्मिन्न् अनुभवपथं यो न गतवान् ।
विवेकप्रध्वंसाद् उपचितमहामोहगहनो विकारः को ऽप्य् अन्तर् जडयति च तापं च कुरुते १७.२१ ॥४८५॥
भवभूतेर् अमी

गच्छन्त्या मुहुर् अर्पितं मृगदृशा तारस्फुरद्वीक्षणं प्रान्तभ्राम्यदसञ्जितभ्रु यद् इदं किं तन् न जानीमहे ।
क्वापि स्वेदसमुच्चयः स्नपयति क्वापि प्रकमोद्गमः क्वाप्य् अङ्गेषु तुषानलप्रतिसमः कन्दर्पदर्पक्रमः १७.२२ ॥४८६॥

अमृतसिक्तम् इवाङ्गम् इदं यदि भवति तन्वि तवाद्भुतवीक्षितैः ।
अधरम् इन्दुकराद् अपि शुभ्रयन्त्य् अरुणयन्त्य् अरुणाद् अपि किं दृशम् १७.२३ ॥४८७॥

सा नेत्राञ्जनतां पुनर् व्रजति मे वाचाम् अयं विभ्रमः प्रत्यासन्नकरग्रहेति च करी हस्तोदरे शायितः ।
एतावद् बहु यद् बभूव कथम् अप्य् एकत्र मन्वन्तरे निर्माणं वपुषो ममोरुतपसस् तस्याश् च वामभ्रुवः १७.२४ ॥४८८॥
वल्लणस्य

नूनम् आज्ञाकरस् तस्याः सुभ्रुवो मकरध्वजः ।
यतस् तन्नेत्रसंचार- सूचितेषु प्रवर्तते १७.२५ ॥४८९॥

आदौ विस्मयनिस्तरङ्गम् अनु च प्रेङ्खोलितं साध्वसैर् व्रीडानम्रम् अथ क्षणं प्रविकसत्तारं दिदृक्षारसैः ।
आकृष्टं सहजाभिजात्यकलनात् प्रेम्णा पुरः प्रेरितं चक्षुर् भूरि कथंकथंचिद् अगमत् प्रेयांसम् एणीदृशः १७.२६ ॥४९०॥

गच्छति पुरः शरीरं धावति पश्चाद् असंस्थितं चेतः ।
चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य १७.२७ ॥४९१॥
कालिदासस्य

अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ।
करोति कस्य नो बाले पिपासाकुलितं मनः १७.२८ ॥४९२॥
दण्डिनः

अस्यास् तुङ्गम् इव स्तनद्वयम् इदं निम्नेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश् च वलयो भित्तौ समायाम् अपि ।
अङ्गे च प्रतिभाति मार्दवम् इदं स्निग्धस्वभावश् चिरं प्रेम्णा मन्मुखचन्द्रम् ईक्षित एव स्मेरेव वक्तीति च १७.२९ ॥४९३॥

स्वच्छन्दं स्वगृहाङ्गणं भ्रमति सा मद्दर्शनाल् लीयते धन्यान् पश्यति लोचनेन सकलेनार्धेन मां वीक्षते ।
अन्यान् मन्त्रयते पुनर् मयि गते मौनं समालम्बते नीतो दूरम् अहं तया दयितया सामान्यलोकाद् अपि १७.३० ॥४९४॥

स खलु सुकृतिभाजाम् अग्रणीः सो ऽतिधन्यो विनिहितकुचकुम्भा पृष्ठतो यन् मृगाक्षी ।
बहलतरनखाग्रक्षोदविन्यस्तमार्गे शिरसि टसिति लिक्षां हन्ति हूंकारगर्भम् १७.३१ ॥४९५॥

अलसयति गात्रम् अधिकं भ्रमयति चेतस् तनोति संतापम् ।
मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः १७.३२ ॥४९६॥

मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्तापयोधरयुगे रतिखेदखिन्नः ।
वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपाः क्षपयति क्षणलब्धनिद्रः १७.३३ ॥४९७॥

धिक् तस्य मूढमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समीकरोति ।
भ्रूभङ्गविभ्रमविलासनिरीक्षितानि कोपप्रसादहसितानि कुतः शशाङ्के १७.३४ ॥४९८॥

तावज् जरामरणबन्धुवियोगशोक- संवेगभिन्नमनसाम् अपवर्गवाञ्छा ।
यावन् न वक्रगतिर् अञ्जननीलरोचिर् एणीदृशां दशति लोचनदन्तशूकः १७.३५ ॥४९९॥

सा यैर् दृष्टा न वा दृष्टा मुषिताः समम् एव ते ।
हृतं हृदयम् एकेषाम् अन्येषां चक्षुषः फलम् १७.३६ ॥५००॥

सा बालेति मृगेक्षणेति विकसत्पद्माननेति क्रम- प्रोन्मीलत्कुचकुड्मलेति हृदय त्वां धिग् वृथा श्राम्यसि ।
मायेयं मृगतृष्णिकास्व् अपि पयः पातुं समीहा तव त्यक्तव्ये पथि मा कृथाः पुनर् अपि प्रेमप्रमादास्पदम् १७.३७ ॥५०१॥
धर्मकीर्तेः

अवचनं वचनं प्रियसंनिधाव् अनवलोकनम् एव विलोकनम् ।
अवयवावरणं च यद् अञ्चल- व्यतिकरेण तद् अङ्गसमर्पणम् १७.३८ ॥५०२॥

रोमाञ्चैर् इव कीलिता चलति नो दृष्टिः कपोलस्थले स्वान्तं प्रेमपयोधिपङ्कपतनान् निश्चेष्टम् आस्ते गतम् ।
उद्धाराय तयोर् गता इव पुनस् त्रासान् निवृत्ता इव श्वासा दीर्घम् अहो गतागतम् अमी कुर्वन्त एवासते १७.३९ ॥५०३॥

यदि सरोजम् इदं क्व निशि प्रभा यदि निशापतिर् अह्नि कुतो नु स ।
रचयतोभयधर्मि तवाननं प्रकटितं विधिना बहु नैपुणम् १७.४० ॥५०४॥

अभिमुखे मयि संवृतम् ईक्षितं हसितम् अन्यनिमित्तकथोदयम् ।
विनयवारितवृत्तिर् अतस् तया न विवृतो मदनो न च संवृतः १७.४१ ॥५०५॥

को ऽसौ कृती कथय को मदनैकबन्धुर् उद्ग्रीवम् अर्चयसि कस्य मृगाक्षि मार्गम् ।
नीलाब्जकर्बुरितमध्यविनिद्रकुन्द- दामाभिरामरुचिभिस् तरलैः कटाक्षैः १७.४२ ॥५०६॥

गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा १७.४३ ॥५०७॥
सावर्णेः

अलसवलितैः प्रेमार्द्रार्द्रैर् निमेषपराङ्मुखैः क्षणम् अभिमुखं लज्जालोलैर् मुहुर् मुकुलीकृतैः ।
हृदयनिहितं भावाकूतं वमद्भिर् इवेक्षणैः कथय सुकृती को ऽसौ मुग्धे त्वयाद्य विलोक्यते १७.४४ ॥५०८॥
श्रीहर्षस्य

उपरि कबरीबन्धग्रन्थेर् अथ ग्रथिताङ्गुली निजभुजलते तिर्यक् तन्व्या वितत्य विवृत्तया ।
विवृतविलसद्वामापाङ्गस्तनार्धकपोलया कुवलयदलस्रक्संदिग्धश्रियः प्रहिता दृशः १७.४५ ॥५०९॥

साकूतं दयितेन सा परिजनाभ्याशे समालोकिता स्वाकूतप्रतिपादनाय रभसाद् आश्वासयन्ती प्रियम् ।
वैदर्भाक्षरगर्भिणीं गिरम् उदीर्यान्यापदेशाच् छिशुं प्रीत्या कर्षति चुम्बति त्वरयति श्लिष्यत्य् असूयत्य् अपि १७.४६ ॥५१०॥

व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि व्रीडया स्वप्नभ्रान्तिपरिप्लुतेन मनसा गाढं समालिङ्गति ।
दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता तन्वङ्ग्या विफलं विचेष्टितम् अहो भावानभिज्ञे जने १७.४७ ॥५११॥

आयाते दयिते मरुस्थलभुवाम् उल्लङ्घ्य दुर्लङ्घ्यतां गेहिन्या परितोषबाष्पतरलाम् आसज्य दृष्टिं मुखे ।
दत्त्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादराद् आमृष्टं करभय केशरसटाभारावलग्नं रजः १७.४८ ॥५१२॥
केशटस्य

दर्भाङ्कुरेण चरणः क्षत इत्य् अकाण्डे तन्वी स्थिता कतिचिद् एव पदानि गत्वा ।
आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् १७.४९ ॥५१३॥

आकुन्तल २.१२

कालिदासस्य

दूराद् एव कृतो ऽञ्जलिर् न स पुनः पानीयपानोचितो रूपालोकनविस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः ।
रोमाञ्चो ऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्याद् अपाम् अक्षुण्णो विधिर् अध्वगेन घटितो वीक्ष्य प्रपापालिकाम् १७.५० ॥५१४॥
बाणस्य

चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव मृशसि मृदु कर्णान्तिकगतः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वम् अधरं वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती १७.५१ ॥५१५॥

आकुन्तल १.२०

स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेषयन्त्या तया यातं यच् च निरम्बयोर् गुरुतया मन्दं विषादाद् इव ।
मा गा इत्य् उपरुद्धया यद् अपि तत् सासूयम् उक्ता सखी सर्वं तत् किल मत्परायणम् अहो कामः स्वतां पश्यति १७.५२ ॥५१६॥

आकुन्तल २.२

कालिदासस्यैतौ

वक्त्रश्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दुकं क्रीडाकौतुकमिश्रभावम् अनया ताम्रं वहन्त्याननम् ।
भृङ्गाग्रग्रहकृष्टकेतकदलस्पर्धावतीनां दृशां दीर्घापाङ्गतरङ्गणैकसुहृदाम् एषो ऽस्मि पात्रीकृतः १७.५३ ॥५१७॥
राजशेखरस्य

तरङ्गय दृशो ऽङ्गने पततु चित्रम् इन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् ।
मगाग् वपुर् अपावृणु स्पृशतु काञ्चनं कालिकाम् उदञ्चय निजाननं भवतु च द्विचन्द्रं नभः १७.५४ ॥५१८॥

एको जयति सद्वृत्तः किं पुनर् द्वौ सुसंहतौ ।
किं चित्रं यदि तन्वङ्ग्याः स्तनाभ्यां निर्जितं जगत् १७.५५ ॥५१९॥

प्रणालीदीर्घस्य प्रतिकलम् अपाङ्गस्य सुहृदः कटाक्षव्याक्षेपाः शिशुशफरफालप्रतिभुवः ।
स्नुवानाः सर्वस्वं कुसुमधनुषो ऽस्मान् प्रति सखे नवं नेत्राद्वैतं कुवलयदृशः संनिदधति १७.५६ ॥५२०॥

भुवनभुवि सृजन्तस् तारहारावतारान् दिशि दिशि विकिरन्तः केतकानां कुटुम्बम् ।
वियति विरचयन्तश् चन्द्रिकां दुग्धमुग्धां प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति १७.५७ ॥५२१॥
राजशेखरस्य

यत् पश्यन्ति झगित्य् अपाङ्गसरणिद्रोणीजुषा चक्षुषा विङ्खन्ति क्रमदोलितोभयभुजं यन् नाम वामभ्रुवः ।
भाषन्ते च यद् उक्तिभिः स्तबकितं वैदग्ध्यमुद्रात्मभिस् तद् देवस्य रसायनं रसनिधेर् मन्ये मनोजन्मनः १७.५८ ॥५२२॥

क्रमसरलितकण्ठप्रक्रमोल्लासितोरस् तरलितवलिरेखासूत्रसर्वस्वम् अस्याः ।
स्थितम् अतिचिरम् उच्चैर् अग्रपादाङ्गुलीभिः करकलितसखीकं मां दिदृक्षोः स्मरामि १७.५९ ॥५२३॥

स्मरशरधिसकाशं कर्णपाशं कृशाङ्गी रयविगलितताडीपत्रताडङ्कम् एकम् ।
वहति हृदयचौरं कुङ्कुमन्यासगौरं वलयितम् इव नालं लोचनेन्दीवरस्य १७.६० ॥५२४॥

चोलाञ्चलेन चलहारलताप्रकाण्डैर् वेणीगुणेन च बलाद् वलयीकृतेन ।
हेलाहितभ्रमरकभ्रममण्डलीभिश् छत्रत्रयं रचयतीव चिरं नतभ्रूः १७.६१ ॥५२५॥

अमन्दमणिनूपुरक्वणनचारुचारीक्रमं झणज्झणितमेखलास्खलिततारहारच्छटम् ।
इदं तरलकङ्कणावलिविशेषवाचालितं मनो हरति सुभ्रुवः किम् अपि कन्दुकक्रीडितम् १७.६२ ॥५२६॥

सा दुग्धमुग्धमधुरच्छविरङ्गयष्टिस् ते लोचने तरुणकेतकपत्रदीर्घे ।
कम्बोर् विडम्बनकरश् च स एव कण्ठः सैवेयम् इन्दुवदना मदनायुधाय १७.६३ ॥५२७॥

क्व पातव्या ज्योत्स्नामृतभवनगर्भापि तृषितैर् मृणालीतन्तुभ्यः सिचयरचना कुत्र घटते ।
क्व वा पारीमेयो बत बकुलदाम्नां परिमलः कथं स्वप्नः साक्षात् कुवलयदृशं कल्पयतु ताम् १७.६४ ॥५२८॥
राजशेखरस्यामी

रसवद् अमृतं कः संदेहो मधून्य् अपि नान्यथा मधुरम् अपि किं चूतस्यापि प्रसन्नरसं फलम् ।
सकृद् अपि पुनर् मध्यस्थः सन् रसान्तरविज् जनो वदतु यद् इहान्यत् स्वादु स्यात् प्रियादशनच्छदात् १७.६५ ॥५२९॥

कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितम् अमृतं हन्त स्वादोः परं रससम्पदः ।
विषम् उपहितं चिन्ताव्याजान् मनस्य् अपि कामिनाम् अलसमधुरैर् लीलातन्त्रैस् तयार्धविलोकितैः १७.६६ ॥५३०॥

चञ्चच्चोलाञ्चलानि प्रतिसरणरयव्यस्तवेणीनि बाहोर् विक्षेपाद् दक्षिणस्य प्रचलितवलयास्फालकोलाहलानि ।
श्वासत्रुट्यद्वचांसि द्रुतम् इतरकरोत्क्षिप्तलोलालकानि स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां कन्दुकक्रीडितानि १७.६७ ॥५३१॥

प्रहरविरतौ मध्ये वाह्नस् ततो ऽपि परेण वा किम् उत सकले याते ऽप्य् अह्नि त्वम् अद्य समेष्व् असि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पझलज्झलैः १७.६८ ॥५३२॥
झलज्झलस्य

कल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्चाप्तयो हंसानाम् उदयो ऽस्तु पूर्णशशिनः स्ताद् भद्रम् इन्दीवरे ।
इत्य् उद्बाष्पवधूगिरः प्रतिपदं सम्पूरयन्त्यान्तिके कान्तः प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः १७.६९ ॥५३३॥
शृङ्गारस्य

सामान्यवाचि पदम् अप्य् अभिधीयमानं मां प्राप्य जातम् अभिधेयविशेषनिष्ठम् ।
स्त्री काचिद् इत्य् अभिहिते हि मनो मदीयं ताम् एव वामनयनां विषयीकरोति १७.७० ॥५३४॥

इति अनुरागव्रज्या


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP