संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| ततश्चन्द्रव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - ततश्चन्द्रव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश ततश्चन्द्रव्रज्या Translation - भाषांतर शृङ्गारे सूत्रधारः कुसुमशरमुनेर् आश्रमे ब्रह्मचारी नारीणाम् आदिदेवस् त्रिभुवनमहितो रागराज्ये पुरोधाः ।ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर् देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः २९.१ ॥८९७॥वसुकल्पस्यशशधरः कुमुदाकरबान्धवः कमलषण्डनिमीलनपण्डितः ।अयम् उदेति करेण दिगङ्गनाः परिमृषन्न् इव कुङ्कुमकान्तिना २९.२ ॥८९८॥राजश्रियःलोकाः शोकं त्यजत न चिरस्थायिनी ध्वान्तवृत्तिर् भद्रे यायाः कुमुदिनि मुदं मुञ्च मोहं चकोर ।स्वच्छज्योत्स्नामृतरसनदीस्रोतसाम् एकशैलः सो ऽयं श्रीमान् उदयति शशी विश्वसामान्यदीपः २९.३ ॥८९९॥एतौ राजश्रियःकर्पूरैः किम् अपूरि किं मलयजैर् आलेपि किं पारदैर् अक्षालि स्फटिकोपलैः किम् अघटि द्यावापृथिव्योर् वपुः ।एतत् तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषु २९.४ ॥९००॥कलाधारो वक्रः स्फुरदधररागो नवतनुर् गलन्मानावेशास् तरुणरमणीर् नागर इव ।घनश्रोणीबिम्बे नयनमुकुले चाधरदले कपोले ग्रीवायां कुचकलशयोश् चुम्बति शशी २९.५ ॥९०१॥श्रीकण्ठस्यसम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुर् गौराङ्गीवदनोपमापरिचितस् तारावधूवल्लभः ।चन्द्रः सुन्दरि दृश्यताम् अयम् इतश् चण्डीशचूडामणिः सद्योमार्जितदाक्षिणात्ययुवतीदन्तावदातद्युतिः २९.६ ॥९०२॥लेखाम् अनङ्गपुरतोरणकान्तिभाजम् इन्दोर् विलोकय तनूदरि नूतनस्य ।देशान्तरप्रणयिनोर् अपि यत्र यूनोर् नूनं मिथः सखि मिलन्ति विलोकितानि २९.७ ॥९०३॥एतौ राजशेखरस्यनैतन् नभो लवणतोयनिधिर् एष पश्य छायापथश् च न भवत्य् अयम् अस्य सेतुः ।नायं शशि निबिडपिण्डितभोग एष शेषो न लाञ्छनम् इदं हरिर् एष सुप्तः २९.८ ॥९०४॥कपाले मार्जारः पय इति करांल् लेढि शशिनस् तरुच्छिद्रप्रोतान् बिसम् इव करी संकलयति ।रतान्ते तल्पस्थान् हरति वनिताप्य् अंशुकम् इति प्रभामत्तश् चन्द्रो जगद् इदम् अहो विक्लवयति २९.९ ॥९०५॥भवति भविष्यति किम् इदं निपतिष्यति बिम्बम् अम्बराच् छशिनः ।अहम् अपि चन्दनपङ्कैर् अङ्कम् अनङ्कं करिष्यामि २९.१० ॥९०६॥भिक्षुसुमतेःचिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः कलङ्कस् तत्रत्यो वहति मलिनाङ्गारतुलनाम् ।इदं त्व् अस्य ज्योतिर् दरदलितकर्पूरधवलं मरुद्भिर् भस्मेव प्रसरति विकीर्णं दिशि दिशि २९.११ ॥९०७॥सद्यश् चन्दनपङ्कपिच्छिलम् इव व्योमाङ्गणं कल्पयन् पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः ।उद्गच्छत्य् अयम् अच्छमौक्तिकमणिप्रालम्बलम्बैः करैर् मुग्धानां स्मरेलखवाचनकलाकेलिप्रदीपः शशी २९.१२ ॥९०८॥असाव् एकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन् कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन् निभृतम् इव चन्द्रो ऽभ्युदयते २९.१३ ॥९०९॥उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका- संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः ।अप्य् उस्रैर् धवलीभवत्सु गिरिषु क्षुब्धो ऽयम् उन्मज्जता विश्वेनेव तमोमयो निधिर् अपाम् अह्नाय फेनायते २९.१४ ॥९१०॥काश्मीरेण दिहानम् अम्बरतलं वामभ्रुवाम् आनन- द्वैराज्यं विदधानम् इन्दुदृषदां भिन्दानम् अम्भःशिराः ।प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर- क्षीवोत्सङ्गकुरङ्गम् ऐन्दवम् इदं तद्बिम्बम् उज्जृम्भते २९.१५ ॥९११॥नैवायं भगवान् उदञ्चति शशी गव्यूतिमात्रीम् अपि द्याम् अद्यापि तमस् तु कौरवकुलश्रीचाटुकाराः कराः ।मथ्नन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु संरुन्धते जीवग्राहम् इव क्वचित् क्वचिद् अपि च्छायासु गृह्णन्ति च २९.१६ ॥९१२॥किं नु ध्वान्तपयोधिर् एष कतकक्षोदैर् इवेन्दोः करैर् अत्यच्छो ऽयम् अधश् च पङ्कम् अखिलं छायापदेशाद् अभूत् ।किं वा तत्करकर्तरीभिर् अभितो निस्तक्षणाद् उज्ज्वलं व्योमैवेदम् इतस् ततश् च पतिताश् छायाछलेन त्वचः २९.१७ ॥९१३॥दलविततिभृतां तले तरूणाम् इह तिलतण्डुलितं मृगाङ्करोचिः ।मदचपलचकोरचञ्चुकोटी- कवलनतुच्छम् इवान्तरान्तराभूत् २९.१८ ॥९१४॥तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका- कपाटघ्नीम् इन्दुः किरणलहरीम् उल्ललयति ।समन्ताद् उन्मीलद्बहलजलबिन्दुस्तबकिनो यथा पुञ्जायन्ते प्रतिगुडकम् एणाङ्कमणयः २९.१९ ॥९१५॥भूयस्तराणि यद् अमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः ।संध्यानलेन भृशम् अम्बरमूषिकायाम् आवर्तितैर् उडुभिर् एव भृतो ऽयम् इन्दुः २९.२० ॥९१६॥यं प्राक् प्रत्यग् अवाग् उदञ्चि ककुभां नामानि सम्बिभ्रतं ज्योत्स्नाजालझलज्झलाभिर् अभितो लुम्पन्तम् अन्धं तमः ।प्राचीनाद् अचलाद् इतस् त्रिजगताम् आलोकबीजाद् बहिर् निर्यान्तं हरिणाङ्कम् अङ्कुरम् इव द्रष्टुं जनो जीवति २९.२१ ॥९१७॥प्राचीनाचलचूलचन्द्रमणिभिर् निर्व्यूढपाद्यं निजैर् निर्यासैर् उडुभिर् निजेन वपुषा दत्तार्घलाजाञ्जलि ।अन्तःप्रौढकलङ्कतुच्छम् अभितः सान्द्रं परिस्तीर्यते बिम्बाद् अङ्कुरभग्ननैशिकतमःसंदोहम् इन्दोर् महः २९.२२ ॥९१८॥मुरारेर् अमीशशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो ऽपि ।कुमुदरजःपटवासं विकिरति गगनाङ्गणे पवनः २९.२३ ॥९१९॥धर्मकीर्तेःकह्लारस्पर्शिगर्भैः शिशिरपरिगमात् कान्तिमद्भिः कराग्रैश् चन्द्रेणालिङ्गितायास् तिमिरनिवसने स्रंसमाने रजन्याः ।अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर् दूरारूढे प्रमोदे हसितम् इव परिस्पष्टम् आशावधूभिः २९.२४ ॥९२०॥पाणिनेःअद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष झगिति क्रोधाद् इवालोहितः ।उद्यन् दूरतरप्रसारितकरः कर्षत्य् असौ तत्क्षणात् स्फायत्कैरवकोषनिःसरदलिश्रेणीकृपाणं शशी २९.२५ ॥९२१॥वसुकल्पस्ययातस्यास्तम् अनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं कमनिलीम् आलिङ्गितुं योजयन् ।शीतस्पर्शम् अवेत्य सान्द्रम् अनया रुद्धे मुखाम्भोरुहे हास्येनेव कुमद्वतीदयितया वैलक्ष्यपाण्डूकृतः २९.२६ ॥९२२॥राजशेखरस्यतथोद्दामैर् इन्दोः सरसबिसदण्डद्युतिधरैर् मयूखैर् विक्रान्तं सपदि परितः पीततिमिरैः ।दिनंमन्या रात्रिश् चकितचकितं कौशिककुलं प्रफुल्लं निद्राणैः कथम् अपि यथाम्भोरुवहनैः २९.२७ ॥९२३॥धोयीकस्यउद्गर्भहूणतरुणीरमणोपमर्द- भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।बिम्बं कठोरबिसकाण्डकडारगौरैर् विष्णोः पदं प्रथमम् अग्रकरैर् व्यनक्ति २९.२८ ॥९२४॥तमोभिर् दिक्कालैर् वियद् अपि विलङ्घ्य क्व नु गतं गता द्राङ् मुद्रापि क्व नु कुमुदकोषस्य सरसः ।क्व धैर्यं तच् चाब्धेर् विदितम् उदयाद्रेः प्रतिसर- स्थलीमध्यासीने शशिनि जगद् अप्य् आकुलम् इदम् २९.२९ ॥९२५॥अपराजितस्यप्रथमम् अरुणच्छायस् तावत् ततः कनकप्रभस् तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।प्रसरति पुनर् ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर् मृगलाञ्छनः २९.३० ॥९२६॥चन्द्रः क्षीरम् अपि क्षरत्य् अविरतं धारासहस्रोत्करैर् उद्ग्रीवैस् तृषितैर् इवाद्य कुमुदैर् ज्योत्स्नापयः पीयते ।क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत् तत्क्षोभाज् जलबुद्बुधा इव तरन्त्य् आलोहितास् तारकाः २९.३१ ॥९२७॥चतुर्णाम्स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बम् अम्बरोद्याने ।किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य २९.३२ ॥९२८॥इह बहलितम् इन्दोर् दीधितीनां प्रभाभिर् मदविकलचकोरीचञ्चुमुद्राङ्किताभिः ।रतिभरपरिखेदस्रस्तरार्थं वधूनां करकिसलयलीलाभञ्जनव्यञ्जिकाभिः २९.३३ ॥९२९॥रजनिपुरन्ध्रिरोध्रतिलकस् तिमिरद्विपयूथकेसरी रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः ।अयम् उदयाचलैकचूडामणिर् अभिनवदर्पणो दिशाम् उदयति गगनसरसि हंसस्य हसन्न् इव विभ्रमं शशी २९.३४ ॥९३०॥बाणस्यएष सान्द्रतिमिरे गगनान्ते वारिणीव मलिने यमुनायाः ।भाति पक्षपुटगोपितचञ्चू राजहंस इव शीतमयूखः २९.३५ ॥९३१॥गगनतलतडागप्रान्तसीम्नि प्रदोष- प्रबलतरवराहोत्खन्यमानश् चकास्ति ।परिकलितकलङ्कः स्तोकपङ्कानुलेपो निजकिरणमृणालीमूलकन्दो ऽयम् इन्दुः २९.३६ ॥९३२॥परिणतलवलीफलाभिपाण्डुस् तनुर् अभवन् मलिनोदरा हिमांशोः ।जनहृदयविभेदकुण्ठितेषोर् विशिखनिशातशिलेव मन्मथस्य २९.३७ ॥९३३॥लब्धोदये सुहृदि चन्द्रमसि स्ववृद्धिर् आसाद्य भिन्नसमयस् त्रिदशोद्धृतानि ।रत्नानि लिप्सुर् इव दिग्भुवनान्तराले ज्योत्स्नाछलेन धवलो जलधिर् जगाह २९.३८ ॥९३४॥गणपतेःपिनष्टीव तरङ्गाग्रैर् अर्णवः फेनचन्दनम् ।तद् आदाय करैर् इन्दुर् लिम्पतीव दिगङ्गनाम् २९.३९ ॥९३५॥सर्वस्वं गगनश्रिया रतिपतेर् विश्वासपात्रं सखा वास्तव्यो हरमूर्ध्नि सर्वभुवनध्वान्तौघमुष्टिंधयः ।क्षीराम्भोधिरसायनं कमलिनीनिद्रौषधीपल्लवो देवः कान्तिमहाधनो विजयते दाक्षायणीवल्लभः २९.४० ॥९३६॥कर्पूरद्रवशीकरोत्करमहानीहारमग्नाम् इव प्रत्यग्रामृतफेनपङ्कपङ्कपटलीलेपोपदिग्धाम् इव ।स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्ताम् इव क्ष्माम् इमां कुर्वन् पार्वणशर्वरीपतिर् असऊद्दामम् उद्द्योतते २९.४१ ॥९३७॥परमेश्वरस्यअसौ बिभ्रत्ताम्रत्विषम् उदयशैलस्य शिरसि स्खलन् प्रालेयांशुर् यदि भवति मत्तो हलधरः ।तदानीम् एतत् तु प्रतिनवतमालद्युतिहरं तमो ऽपि व्यालोलं विगलति तदीयं निवसनम् २९.४२ ॥९३८॥योगेश्वरस्ययथायं भात्य् अंशून् दिशि दिशि किरन् कुन्दविशदान् शशाङ्कः काश्मीरीकुचकलशलावण्यलडितः ।तथायं कस्तूरिमदलिखितपत्रावलितुलां नवाम्भोदच्छेदच्छविर् अपि समारोहति मृगः २९.४३ ॥९३९॥शर्वस्ययथैवैष श्रीमांश् चरमगिरिवप्रान्तलजधौ सुधासूतिश्चेतः कनककमलाशङ्कि कुरुते ।तथायं लावण्यप्रसरमकरन्दद्रवतृषा- पतद्भृङ्गश्रेणीश्रियम् अपि कलङ्कः कलयति २९.४४ ॥९४०॥स्फुटकोकनदारुणं पुरस्ताद् अथ जाम्बूनदपत्रपिञ्जराभम् ।क्रमलङ्घितमुग्धभावम् इन्दोः स्फटिकच्छेदनिभं विभाति बिम्बम् २९.४५ ॥९४१॥भगीरथस्यवियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु ।अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका २९.४६ ॥९४२॥अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः समदयवनीगण्डच्छायं पुनर् मधुपिङ्गलम् ।तदनु च नवस्वर्णादर्शप्रभं शशिनस् ततस् तरुणतगराकारं बिम्बं विभाति नभस्तले २९.४७ ॥९४३॥रक्तः करं किरति पाण्डुपयोधराग्रे चन्द्रो विधूय तिमिरावरणं निशायाः ।दिग्योषितस् तद् अवलोक्य कुतूहलिन्यो ह्रीणाश् च सस्मितम् इवापसरन्ति दूरम् २९.४८ ॥९४४॥गोरोचनारुचकभङ्गपिशङ्गिताङ्गस् तारापतिर् मसृणम् आक्रमते क्रमेण ।गोभिर् नवीनबिसतन्तुवितानगौरैर् आढ्यं भविष्णुर् अयम् अम्बरम् आवृणोति २९.४९ ॥९४५॥असौ समालोकितकाननान्तरे विकीर्णविस्पष्टमरीचिकेसरः ।विनिर्गतः सिंह इवोदयाचलाद् गृहीतनिष्पन्दमृगो निशाकरः २९.५० ॥९४६॥पाणिनेःइन्दुम् इन्द्रदिग् असूत सरस्वान् उत्तरङ्गभुजराजिर् अनृत्यन् ।उज्जहर्ष झषकेतुर् अवापुः षट्पदाः कुमुदबन्धनमोक्षम् २९.५१ ॥९४७॥अभिनन्दस्यमृगेन्द्रस्येव चन्द्रस्य मयूखैर् नखरैर् इव ।पाटितध्वान्तमातङ्ग- मुक्ताभा भान्ति तारकाः २९.५२ ॥९४८॥गौरत्विषां कुचतटेषु कपोलपीठेष्व् एणीदृशां रभसहासम् इवारभन्ते ।तन्वन्ति वेल्लनविलासम् इवामलासु मुक्तावलीषु विशदाः शशिनो मयूखाः २९.५३ ॥९४९॥कचमूलबद्धपन्नगनिश्वासविषाग्निधूमहतमध्यम् ।ऐशानम् इव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् २९.५४ ॥९५०॥दक्षस्यगते ज्योत्स्नासितव्योम- प्रासादाद् दृकतुल्यताम् ।हिमांशुमण्डले लक्ष्म नीलपारावतायते २९.५५ ॥९५१॥सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधौ योग्य-च्छविः प्राग् अभूत् ।उन्मेयाकुलशीभिर् अञ्जलिपुटैर् ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका २९.५६ ॥९५२॥ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छद- च्छायाधामभृतो मृणाललतिकालावण्यभाजो ऽत्र ये ।ये धाराम्बुविडम्बिनः क्षणम् अथो ये तारहारश्रियस् ते ऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः २९.५७ ॥९५३॥राजेशेखरस्यैतौत्रियामावामायाः कमलमृदुगण्डस्थलधृति- प्रगल्भो गण्डाली न विधुरयमक्षुण्णकिरणः ।तदक्षणः सीम्नेयं यदुरसि मनाग् अञ्जनमयी मृगच्छाया दैवाद् अघटि न कलङ्कः पुनर् अयम् २९.५८ ॥९५४॥ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचीसरः क्षीराब्धेर् नवनीतकूटम् अवनीतापार्तितोयोपलः ।यामिन्यास् तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः क्रामत्य् एष चकोरयाचकमहः कर्पूरवर्षः शशी २९.५९ ॥९५५॥ताराकोरकराजिभाजिगगनोद्याने तमोमक्षिकाः संध्यापल्लवपातिनीः कवलयन्न् एकान्ततस् तर्कय ।एतस्मिन्न् उदयास्तभूधरतरुद्वन्द्वान्तराले ततैर् एभिर् भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी २९.६० ॥९५६॥वसुकल्पस्यइति चन्द्रव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP