सुभाषितरत्नकोशः - हेमन्तव्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
यात्रालग्नं तुहिनमरुतां बान्धवः कुन्दलक्ष्म्याः कालः सो ऽयं कमलसरसां सम्पदः कालदूतः ।
निद्राव्याजाज् जडिमविधुरा यत्र गाढे ऽपि मन्तौ वामाः कण्ठग्रहम् अशिथिलं प्रेयसाम् आद्रियन्ते १२.१ ॥२९३॥
अग्रे श्यामलबिन्दुबद्धतिलकैर् मध्ये ऽपि पाकान्वय- प्रौढीभूतपटोलपाटलतरैर् मूले मनाग्बभ्रुभिः ।
वृन्ते कर्कशकीरपिच्छहरिभिः स्थूलैः फलैर् बन्धुराः सम्प्रत्य् उत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः १२.२ ॥२९४॥
दलानां मूलेषु स्तिमितपतितं केसररजः समीरो नेदानीं हरति हरितालद्युतिहरम् ।
कुमुद्वत्याः कोषे मधु शिशिरमिश्रं मधुलिहो लिहन्ति प्रत्यूषे विरसविरसं मन्दरुचयः १२.३ ॥२९५॥
आवाति स्फुटितप्रियङ्गुसुरभिर् नीहारवारिच्छलात् स्वच्छन्दं कमलाकरेषु विकिरन् प्रच्छन्नवह्निच्छटाः ।
प्रातः कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन्- मालाकारवधूकपोलपुलकस्थैर्यक्षमो मारुतः १२.४ ॥२९६॥
गर्वायन्ते पलालं प्रति पथिकशतैः पामराः स्तूयमाना गोपान् गोगर्भिणीनां सुखयति बहुलो रात्रिरोमन्थबाष्पः ।
प्रातः पृष्ठावगाढप्रथमरविरुचिर् ग्रामसीमोपशल्ये शेते सिद्धार्थपुष्पच्छन्दनचितहिमक्लिन्नपक्ष्मा महोक्षः १२.५ ॥२९७॥
योगेश्वरस्य
कटुमधुराण्य् आमोदैः पर्णैर् उत्कीर्णपत्रभङ्गानि ।
दमनकवनानि सम्प्रति काण्डैर् एकान्तपाण्डूनि १२.६ ॥२९८॥
लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुषुप्तं हालिकद्वन्द्वम् आरात् स्तनकलशमहोष्माबद्धरेखस् तुषारः १२.७ ॥२९९॥
क्षेत्रोपान्तपलायमानशशकद्वन्द्वं परीक्ष्यापरान् आहूयातिरसेन कर्षकजनान् आबद्धकोलाहलाः ।
हस्तारोपितदात्ररज्जुलगुडैर् वृद्धैर् अवृद्धैः सह त्यक्त्वा शालिचिकर्तिषाम् इत इतो धान्वन्त्य् अमी पामराः १२.८ ॥३००॥
कृत्वा पृष्ठतरे पटच्चरम् अथ ज्योतिःप्रतङ्काङ्कयोर् ऊर्वोर् अन्तरयोर् निषेदुषि करौ कृत्वा कुकूलानले ।
पार्श्वौ कम्पजडौ पिधाय कफणिद्वन्द्वेन रोमाञ्चिता प्रातर् नो न च सायम् अद्य जरती गेहोदरं मुञ्चति १२.९ ॥३०१॥
वैश्यस्य
प्रोपोसेस् तेन्ततिवेल्य् क्षताङ्का fओर् प्रतङ्का इन् अ.
धूमप्रायः प्रतिमुहुर् अतिक्षोभनोद्वान्ततेजाः कारीषाग्निः सततमृतुना सेव्यतां नीयमानः ।
बाहुक्षेपात् स्तनपरिसराद् अस्तलीलांशुकाभिर् घोषस्त्रीभिर् दिवसविरतौ भाति निर्विश्यमानः १२.१० ॥३०२॥
आभोगिनः किम् अपि सम्प्रति वासरान्ते सम्पन्नशालिखलपल्लवितोपशल्याः ।
ग्रामास् तुषारबन्धुरगोमयाग्नि- धूमावलीवलयमेखलिनो हरन्ति १२.११ ॥३०३॥
अभिनन्दस्य
मूले हरिन्ति किंचित् पार्श्वे पीतानि लोहितान्य् अग्रे ।
मधुरसुरभीणि सम्प्रत्य् अगाढपाकानि बदराणि १२.१२ ॥३०४॥
तस्यैव
भद्रं ते सदृशं यद् अध्वगशतैः कीर्तिस् तवोद्गीयते स्थाने रूपम् अनुत्तमं सुकृतिनो दानेन कर्णो जितः ।
इत्य् आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः १२.१३ ॥३०५॥
योगेश्वरस्य
इति हेमन्तव्रज्या
N/A
References : N/A
Last Updated : November 11, 2016
TOP