संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| वयःसन्धिव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - वयःसन्धिव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश वयःसन्धिव्रज्या Translation - भाषांतर भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोः स्तनाभोगो ऽव्यक्तस् तरुणिमसमारम्भसमये ।इदानीं बालायाः किम् अमृतमयः किं मधुमयः किम् आनन्दः साक्षाद् ध्वनति मधुरः पञ्चमकलः १५.१ ॥३३४॥वीर्यमित्रस्यकलःलयःउन्नालालकभञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः ।तिर्यग्लोचनचेष्टितानि वचसि च्छेकोक्तिसंक्रान्तयः स्त्रीणां ग्लायति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः १५.२ ॥३३५॥विधत्ते सोल्लेखं कतरद् इह नाङ्गं तरुणिमा तथापि प्रागल्भ्यं किम् अपि चतुरं लोचनयुगे ।यद् आदत्ते दृश्याद् अखिलम् अपि भावव्यतिकरं मनोवृत्तिं द्रष्टुः प्रथयति च दृश्यं प्रति जनम् १५.३ ॥३३६॥एतौ राजशेखरस्यएतद् दधाति नवयौवननर्तकस्य कश्मीरजच्छुरिततालकयुग्मलक्ष्मीम् ।मध्ये समुच्छ्वसितवृत्ति मनाग् उपान्ते लब्धात्मसीम कुचकुड्मलयुग्मम् अस्याः १५.४ ॥३३७॥यौवननगरारम्भे रामाहृदयस्थलीषु कुसुमेषोः ।मकरपताकेवेयं राजति रोमावली रम्या १५.५ ॥३३८॥एतौ लडहचन्द्रस्यचलितशिशुदशानां यौवनारम्भरेखा- परिचयपरिचुम्बत्प्रेमकौतूहलानाम् ।उचितसहजलज्जादुर्बला बालिकानां गुरुजनभयभाजां के ऽपि ते भ्रूविलासाः १५.६ ॥३३९॥गुणेश्वरस्यनैतत् समुन्नमितचूचुकमुद्रम् अन्तः- संक्रान्तसीमकुचकोरकचक्रम् अस्याः ।संकेतिताङ्गनवयौवननाटकस्य कश्मीरजच्छुरितनूतनकांस्यतालम् १५.७ ॥३४०॥नितम्बः संवादं मसृणमणिवेद्या मृगयते मनाग् गण्डः पाण्डुर् मधुमुकुललक्ष्मीं तुलयति ।विशन्त्यास् तारुण्यं घुसृणघनलावण्यपयसि प्रकामं प्रोन्मज्जद् वपुर् अपि च तस्या विजयते १५.८ ॥३४१॥उद्भिन्नस्तनकुड्मलद्वयम् उरः किंचित् कपोलस्थलीं लिम्पत्य् एव मधूककान्तिर् अधरः संमुग्धलक्ष्मीमयः ।प्रत्यासीदति यौवने मृगदृशः किं चान्यद् आविर्भवल् लावण्यामृतपङ्कलेपलडहच्छायं वपुर् वर्तते १५.९ ॥३४२॥गेहाद् बहिर् विरम चापलम् अस्तु दूरम् अद्यापि शैशवदशालडितानि तानि ।आप्यायमानजघनस्थलपीड्यमानम् अर्धोरुकं त्रुटति पुत्रि तव क्षणेन १५.१० ॥३४३॥प्रेमासङ्गि च भङ्गि च प्रतिवचो ऽप्य् उक्तं च गुप्तं तथा यत्नाद् याचितम् आननं प्रति समाधाने च हाने च धीः ।इत्य् अन्यो मधुरः स को ऽपि शिशुतातारुण्ययोर् अन्तरे वर्तिष्णोर् मृगचक्षुषो विजयते द्वैविध्यमुग्धो रसः १५.११ ॥३४४॥लक्ष्मीधरस्यनितम्बः स्वां लक्ष्मीम् अभिलषति नाद्यापि लभते समन्तात् साभोगं न च कुचविभागाञ्चितम् उरः ।दृशोर् लीलामुद्रा स्फुरति च न चापि स्थितिमती तद् अस्यास् तारुण्यं प्रथमम् अवतीर्णं विजयते १५.१२ ॥३४५॥शारिद्यूतकथाकुतूहलि मनश् छेकोक्तिशिक्षारतिर् नित्यं दर्पणपाणिता सहचरीवर्गेण चाचार्यकम् ।प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येन लज्जा मनाक् स्तोकारोहिणि यौवने मृगदृशः को ऽप्य् एष केलिक्रमः १५.१३ ॥३४६॥दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते ।नो धत्ते गुरुतां तद् अप्य् उपचिताभोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः १५.१४ ॥३४७॥आकण्ठार्पितकञ्चुकाञ्चलम् उरो हस्ताङ्गुलीमुद्रणा- मात्रासूत्रितहास्यम् आस्यम् अलसाः पञ्चालिकाकेलयः ।तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयस् तस्याः सीदति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः १५.१५ ॥३४८॥दोर्मूलावधिसूत्रितस्तनम् उरः स्निह्यत्कटाक्षे दृशाव् ईषत्ताण्डवपण्डिते स्मितसुधाच्छेकोक्तिषु भ्रूलते ।चेतः कन्दलितस्मरव्यतिकरं लावण्यम् अङ्गैर् वृतं तन्वङ्ग्यास् तरुणिम्नि सर्पति शनैर् अन्यैव काचिद् गतिः १५.१६ ॥३४९॥वारं वारम् अनेकधा सखि मया चूतद्रुमाणां वने पीतः कर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः ।तस्मिन्न् अद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गम् उत्कम्पितं तापश् चेतसि नेत्रयोस् तरलिमा कस्माद् अकस्मान् मम १५.१७ ॥३५०॥भोज्यदेवस्यदरोत्तानं चक्षुः कलितविरलापाङ्गवलनं भविष्यद्विस्तारिस्तनमुकुलगर्भालसम् उरः ।नितम्बे संक्रान्ताः कतिपयकला गौरवजुषो वपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृगदृशः १५.१८ ॥३५१॥गणितगरिमा श्रोणिर् मध्यं निबद्धवलित्रयं हृदयम् उदयल्लज्जं सज्जच्चिरन्तनचापलम् ।मुकुलितकुचं वक्षश् चक्षुर् मनाग्वृतवक्रिम क्रमपरिगलद्बाल्यं तन्व्या वपुस् तनुते श्रियम् १५.१९ ॥३५२॥बालो ऽद्यापि किलेति लक्षितम् अलंकर्तुं निजैर् भूषणैर् रामाभिश् चिरम् उद्यते हृदि लिहन्न् इच्छाम् अनिच्छां वहन् ।स्निह्यत्तारम् अथान्यदृष्टिविरहे यः संमुखं वीक्षितो नम्रः स्मेरमुखीभवन्न् इति वयःसन्धिश्रियालिङ्गितः १५.२० ॥३५३॥वल्लणस्यमाध्यस्थ्यं च समस्तवस्तुषु परिप्रश्ने शिरोघूर्णनं प्रेयस्यां परम् अर्पितान्तरबहिर्वृत्तिप्रपञ्चक्रमः ।किं चापि स्फुटदृष्टिविभ्रमकलानिर्माणशिक्षारसः प्रत्यङ्गं स्मरकेलिमुद्रितमहो बाला वयोविभ्रमे १५.२१ ॥३५४॥पद्भ्यां मुक्तास् तरलगतयः संश्रिता लोचनाभ्यां श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः ।धत्ते वक्षः कुचसचिवताम् अद्वितीयत्वम् आस्यं तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन १५.२२ ॥३५५॥बाल्यं यद् अस्यास् त्रिवलीतटिन्यास् तटे विनष्टं सह चापलेन ।तदर्थम् उत्थापितचारुचैत्य- कल्पौ स्तनौ पाण्डुतरौ तरुण्याः १५.२३ ॥३५६॥तदात्वप्रोन्मीलन्म्रदिमरमणीयात् कठिनतां निचित्य प्रत्यङ्गाद् इव तरुणभावेन घटितौ ।स्तनौ सम्बिभ्राणाः क्षणविनयवैजात्यमसृण- स्मरोन्मेषाः केषाम् उपरि न रसानां युवतयः १५.२४ ॥३५७॥मुरारेःभ्रूलीला चतुरा त्रिभागवलिता दृष्टिर् गतिर् मन्थरा विस्रब्धं हसितं कपोलफलके वैदग्ध्यवक्रं वचः ।नोद्दिष्टं गुरुणा न बन्धुकथितं दृष्टं न शास्त्रे क्वचिद् बालायाः स्वयम् एव मन्मथकलापाण्डित्यम् उन्मीलति १५.२५ ॥३५८॥लावण्यामृतसिन्धुसान्द्रलहरीसंसिक्तम् अस्या वपुर् जातस् तत्र नवीनयौवनकलालीलालतामण्डपः ।तत्रायं स्पृहणीयशीतलतरच्छायासु सुप्तोत्थितः संमुग्धो मधुबान्धवः स भगवान् अद्यापि निद्रालसः १५.२६ ॥३५९॥वीर्यमित्रस्यभ्रुविर् लीलैवान्या दरहसितम् अभ्यस्यति मुखं दृशोर् वक्रः पन्थास् तरुणिमसमारम्भसचिवः ।इदानीम् एतस्याः कुवलयदृशः प्रत्यहम् अयं नितम्बस्याभोगो नयति मणिकाञ्चीम् अधिकताम् १५.२७ ॥३६०॥राज्यपालस्यमध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नम- द्विस्तारिस्तनभारमन्थरम् उरो मुग्धाः कपोलश्रियः ।किंचिन्मुग्धविलोकनीरजदृशस् तारुण्यपुण्यातिथेस् तस्याः कुङ्कुमपङ्कलेपनडहच्छायं वपुर् वर्तते १५.२८ ॥३६१॥वज्रमुष्टेःसमस्तं विज्ञाय स्मरनरपतेश् चारुचरितं चरश् चक्षुः कर्णे कथयितुम् अगात् सत्वरम् इव ।प्रयाणं बाल्यस्य प्रतिपदम् अभूद् विग्रहभरः परिस्पन्दो वाचाम् अपि च कुचयोः सन्धिर् अभवत् १५.२९ ॥३६२॥उत्खेलत्त्रिवलीतरङ्गतरला रोमावलीशैवल- स्रग्वलिर् युवती ध्रुवं जनमनोनिर्वाणवाराणसी ।एतस्या यद् उरस्तटीपरिसरे यद् बाल्यचापल्ययोः स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते १५.३० ॥३६३॥भवस्यस्तनोद्भेदः किंचित् त्यजति तनुतायाः परिचयं तथा मध्यो भागस् त्रिवलिवलयेभ्यः स्पृहयति ।नितम्बे च स्वैरं विलसति विलासव्यसनिता मृगाक्ष्याः प्रत्यङ्गं कृतपदम् इवानङ्गलडितम् १५.३१ ॥३६४॥यत् प्रत्यङ्गं तटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणां क्षोभं धत्ते यद् अपि बहलः स्निग्धलावण्यपङ्कः ।उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् द्वन्द्वम् एतत् तन् मन्ये ऽस्याः स्मरगजयुवा गाहते हृत्तडागम् १५.३२ ॥३६५॥कृतनिभशतं निष्क्रामन्तीं सखीभिर् अनूद्धृतां कथम् अपि हठाद् आकृष्यान्ते पटस्य निवेशिताम् ।नवनिधुवनक्रीडारम्भप्रकम्पविवर्तिनीम् अनुभवमृदूभूतत्रासां मनः स्मरति प्रियाम् १५.३३ ॥३६६॥स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचाम् अभिनवविलासोक्तिसरसः ।गतीनाम् आरम्भः किसलयितलीलापरिमलः स्पृशन्त्यास् तारुण्यं किम् इव न मनोज्ञं मृगदृशः १५.३४ ॥३६७॥अस्ति भयम् अस्ति कौतुकम् अस्ति च मन्दाक्षम् अस्ति चोत्कण्ठा ।बालानां प्रणयिजने भावः को ऽप्य् एष नैकरसः १५.३५ ॥३६८॥प्रगल्भानाम् अन्ते निवसति शृणोति स्मरकथां स्वयं तत्तच्चेष्टाशतम् अभिनयेनार्पयति च ।स्पृहाम् अन्तः कान्ते वहति न समभ्येति निकटं यथैवेयं बाला हरति च तथैवेयम् अधिकम् १५.३६ ॥३६९॥अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल- ग्रन्थिप्रग्रथितं करद्वयम् उपर्य् उत्तानम् आविभ्रता ।सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तम्भिते- नोच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवम् १५.३७ ॥३७०॥शतानन्दस्यस एष यौवनाचार्यः सिद्धये स्मरभूभुजः ।प्रियायां बलिम् उद्दिश्य तनोति स्तनमण्डलम् १५.३८ ॥३७१॥बिभ्रत्या वपुर् उन्नमत्कुचयुगं प्रादुर्भवद्विभ्रमं बालाया लसदङ्गसंधिविरमद्बाल्यं वलद्भ्रूलतम् ।अन्तर् विस्फुरति स्मरो बहिर् अपि व्रीडा समुन्मीलते स्वैरं लोचनवक्रिमा विलसति श्रीः काचिद् उज्जृम्भते १५.३९ ॥३७२॥रुद्रस्यसुतनुर् अधुना सेयं निम्नां स्वनाभिम् अभीक्षते कलयति परावृत्तेनाक्ष्णा नितम्बसमुन्नतिम् ।रहसि कुरुते वासोगुप्तौ स्वमध्यकदर्थनाम् अपि च किम् अपि व्रीडां क्रीडासखीम् इव मन्यते १५.४० ॥३७३॥यद् अन्योन्यप्रेमप्रवणयुवतीमन्मथकथा- समारम्भे स्तम्भीभवति पुलकैर् अञ्चिततनुः ।तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं कुरङ्गाक्षी दीक्षागुरुम् अकृत कंचित् सुकृतिनम् १५.४१ ॥३७४॥नरसिंहस्यतरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनम् उन्मुद्रयति च ।दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम् अहो सारङ्गाक्ष्यास् तरुणिमनि गाढः परिचयः १५.४२ ॥३७५॥राजशेखरस्यगतिर् मन्दा सान्द्रं जघनम् उदरं क्षामम् अतनुः स्तनाभोगः स्तोकं वचनम् अतिमुग्धं च हसितम् ।विलोकभ्रूवल्लीचलनलयलोलं च नयनं क्व जातं बालायाः क्व च विषयम् अक्ष्णोर् इयम् अगात् १५.४३ ॥३७६॥सुदोकस्यहरतितरां जनहृदयं कलिकोपगता लता च दयिता च ।यदि पुनर् अतनुशिलीमुखसमाकुला किं न पर्याप्तम् १५.४४ ॥३७७॥गोभटस्यधृतम् इव पुरः पश्चात् कैश्चित् प्रणुन्नम् इवोल्लसत्- पुलकम् इव यत्प्राप्तोच्छ्वासव्युदस्तमिथोन्तरम् ।अतिगतसखीहस्तोन्मानक्रमं दिवसक्रमैर् इदम् अनुभवद्वाञ्छापूर्तिक्षमर्द्धि कुचद्वयम् १५.४५ ॥३७८॥स्तनतटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् ।इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति १५.४६ ॥३७९॥मात्रानर्तनपण्डितभ्रु वदनं किंचित्प्रगल्भे दृशौ स्तोकोद्भेदनिवेशितस्तनम् उरो मध्यं दरिद्राति च ।अस्या यज् जघनं घनं च कलया प्रत्यङ्गम् एणीदृशः सत्यंकार इव स्मरैकसुहृदा तद् यौवनेनार्पितम् १५.४७ ॥३८०॥राजशेखरस्यअयि पुरारि परुन्मलयानिला ववुर् अमी जगुर् एव च कोकिलाः ।कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः १५.४८ ॥३८१॥उत्पलराजस्यस्खलति वयसि बाले निर्जिते राजनीव स्फुरति रतिनिधाने यौवने जेतरीव ।मदमदनविवृद्धिस्पर्धयेवाबलानां किम् अपि वपुषि लीलाकुड्मलानि स्फुटन्ति १५.४९ ॥३८२॥दृष्ट्या वर्जितम् आर्जवं समतया दत्तं पयो वक्षसे क्षीणायुर् गतिषु त्वरा स्मितम् अपि भ्रूलास्यलीलासखम् ।सत्या न प्रकृतौ गुरः शिशुतया प्रस्थानदत्तार्घया काप्य् अन्या हरिणीदृशः परिणतिः कन्दर्पमुद्राङ्किता १५.५० ॥३८३॥राजशेखरस्यइति वयःसन्धिव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP