संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| शरद्व्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - शरद्व्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश शरद्व्रज्या Translation - भाषांतर ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानार्द्रनखक्षताभम् ।प्रसादयन्ती सकलङ्कम् इन्दुं तापं रवेर् अभ्यधिकं चकार ११.१ ॥२६६॥यद्य् अप्य् अहं शशिमुखी विमलाम्बरश्रीर् बन्धूकपुष्परुचिराधरपल्लवापि ।धिङ् मां तथापि गलितोरुपयोधरत्वाद् इत्य् उच्चकैः शरद् इयं वहतीव तापम् ११.२ ॥२६७॥ते हंसातिथिवत्सला जलरुहां कालेन पीतायुषां संजीवौषधयो जरा जलमुचाम् एते शरद्वासराः ।येष्व् अभ्यागतखञ्जरीटशबलास् तोयापसारक्रम- स्तोकस्तोकतरङ्गितान्तपुलिनाः कर्षन्ति नद्यो मनः ११.३ ॥२६८॥धूम्रैः पक्षपुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर् आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः ।मङ्गल्यं च कलङ्कपल्लवसखं स्मेरानना शर्बरी ज्योत्स्नातर्पणगौरम् इन्दुकलशं व्योमाङ्गणे न्यस्यति ११.४ ॥२६९॥दधति धवलाम्भोदच्छायां सितच्छदपङ्क्तयो दिवि पयसि च श्वेताम्भोजभ्रमं प्रतिमाशतैः ।विदधति न चेद् उत्कण्ठार्द्रं शरन् मणिनूपुर- ध्वनितमधुरोत्तालस्निग्धैर् मनः क्वणितोर्मिभिः ११.५ ॥२७०॥घनैः शेफालीनां हृदयनिबिडाश्लिष्टवसुधैः प्रसूनैर् उन्नालैः पुलकिततरोद्यानतरवः ।निशान्ताः प्रीणन्ति प्रमदकुररोद्गीतरभसो नभस्वद्व्याधूतस्फुटकुमुदगन्धप्लुतदिशः ११.६ ॥२७१॥रजःपातज्ञानां कुमुदसुमनोमण्डलभुवि स्मरस्योच्चैर् मन्त्रं किम् अपि जपतां हुंकृतिम् इयम् ।स्थिरे यूनां मानग्रहपरिभवे मूर्छति घनो द्विरेफाचार्याणां मधुमदपटीयान् कलकलः ११.७ ॥२७२॥अधः पश्यन् पार्श्वद्वयवलितसाचीकृतशिराः शनैः पक्षस्थैर्याद् दिवि मसृणचक्राकृतिगतिः ।चिराच् चिल्लस् तिर्यक्त्वरिततरम् आहारनिपुणो निपत्यैवाकस्माच् चलचरणमूर्धं प्रपतति ११.८ ॥२७३॥दूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्रः कण्ठेनोच्चैर् मदकलरुतस्तोकवाचालचञ्चुः ।हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेः कंचित् कालं नटति निकटे खञ्जरीटः प्रियायाः ११.९ ॥२७४॥मनोविनोदस्यामीतोयान्तर्लीनमीनप्रचयविचयनव्यापृतत्रोटिकोटि- प्राग्भागप्रह्वकङ्कावलिधवलरुचः पर्यटत्खञ्जरीटाः ।कूजत्कादम्बराजीपिहितपरिसराः शारदीनां नदीनां तीरान्ता मञ्जुगुञ्जन्मदकल्कुरबश्रेणयः प्रीणयन्ति ११.१० ॥२७५॥तीष्णं रविस् तपति नीच इवाचिराढ्यः शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः ।तोयं प्रसीदति मुनेर् इव धर्मचिन्ता कामी दरिद्र इव शोणम् उपैति पङ्कः ११.११ ॥२७६॥संतापिनी समदहंसकलाभिलापा प्रालेयधामधवलाम्बरम् आदधाना ।आपाण्डुपीवरपयोधरम् उद्वहन्ती काचिद् वधूर् विरहिणीव शरद् विभाति ११.१२ ॥२७७॥शनैः शान्ताकूताः सितकलधरच्छेदपुलिनाः पुरस्ताद् आकीर्णाः कलविरुतिभिः सारसकुलैः ।चिताश् चित्राकारैर् निशि विकचनक्षत्रकुमुदैर् नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः ११.१३ ॥२७८॥आपीनप्रविसारितोरुविकटैः पश्चार्धभागैर् गुरुर् वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः ।ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप- स्मेरासु क्षणदासु धेनधवलीवर्गः परिक्रामति ११.१४ ॥२७९॥पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिर् अङ्कितम् अलक्तकलोहिताभिः ।गोरोचनाहरितबभ्रु बहिःपलाशम् आमोदते कुमुदम् अम्भसि पल्वलस्य ११.१५ ॥२८०॥सान्द्रस्थूलनलोपरोधविषमाः शक्यावताराः पुरस् तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीवालुकाः ।व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदराः संत्रासं जनयन्ति कुञ्जसरितः काचाभनीलोदकाः ११.१६ ॥२८१॥इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः पाकस्वीकारनम्रे शिरसि निविशते शूकशालेः शुकाली ।केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिर् आधारम् आराद् अच्छः कच्छेषु पङ्कः सुखयति सरिताम् आतपाद् उक्षपालम् ११.१७ ॥२८२॥अभिनन्दस्यसद्यःस्नातानुलिप्ता इव दधति रुचं पल्लवाः कर्दमाङ्काः कच्छान्ताः काशतूलैः पवनवशगतैर् मेषयूथोपमेयाः ।नद्यः प्रत्यग्रतीरोपनतिसरभसैः खञ्जनैः साञ्जनाक्षा हंसाः कंसारिदेहत्विषि गगनतले शङ्खशोभां वहन्ति ११.१८ ॥२८३॥हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम् अन्यः को ऽपि कषायकण्ठलिठनाद् आघर्घरो निस्वनः ।ते सम्प्रत्य् अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ११.१९ ॥२८४॥श्रीकमलायुधस्यवराहान् आक्षेप्तुं कलमकवलप्रीत्यभिमुखान् इदानीं सीमानः प्रतिविहितमञ्चाः स्वपतिभिः ।कपोतैः पोतार्थं कृतनिबिडनीडा विटपिनः शिखाभिर् वल्मीकाः खरनखरखातोदरमृदः ११.२० ॥२८५॥शतानन्दस्यलालाकल्पैस् त्रिदशकरिणां दिग्वधूहासभूतैर् अध्वश्रान्तप्रवहणहरित्फेनशङ्कां दिशद्भिः ।वातोदस्तैः शशधरकलाकोमलैर् इन्द्रतूलैर् लीलोत्तंसं रचयितुम् अलं कन्यकाः कौतुकिन्यः ११.२१ ॥२८६॥शुभाङ्गस्यहारच्छायां वहति कुचयोर् अन्तराले मृणाली कर्णोपान्ते नवकुवलयैर् अच्युतः कर्णिकार्थः ।या सीमन्ते मणिभिर् अरुणैः सा च्छविर् बन्धुजीवैर् वेशः शोभां दिशति परमाम् आर्तवः शालिगोप्याः ११.२२ ॥२८७॥मधुशीलस्यदूरापायप्रकटविटपाः पर्यटत्खञ्जरीटा- क्रान्तप्रान्ताः प्रसभविलसद्राजहंसावतंसाः ।अद्यानन्दं ददति विचरच्चक्रवाकोपचञ्चु- ग्रासत्रासप्रचलशफरस्मेरनीरास् तटिन्यः ११.२३ ॥२८८॥डिम्बोकस्यउन्मग्नचञ्चलवनानि वनापगानाम् आश्यानसैकततरङ्गपरंपराणि ।निम्नावशिष्टसलिलानि मनो हरन्ति रोधांसि हंसपदमुद्रितकर्दमानि ११.२४ ॥२८९॥व्यालीविमर्दविगलज्जलकोटराणि शाखाविलम्बिमृतशैवलकन्दलानि ।दूरीभवन्ति सरितां तटकाननानि पूर्वप्रवाहमहिमानम् उदाहरन्ति ११.२५ ॥२९०॥शुभाङ्गस्यतृणराजपाकसौरभसुगन्धयः परिणताशवो दिवसाः ।आद्यकुलोपनिमन्त्रणसुहितद्विजदुःसहोष्माणः ११.२६ ॥२९१॥योगेश्वरस्यआढ्यान् निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः ।द्वयम् आकुलयति चेतः स्कन्धावारद्विजातीनाम् ११.२७ ॥२९२॥वागुरस्यइति शरद्व्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP