सुभाषितरत्नकोशः - प्रावृड्व्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
वानीरप्रसवैर् निकुञ्जसरिताम् आसक्तवासं पयः पर्यन्तेषु च यूथिकासुमनसाम् उज्जृम्भितं जालकैः ।
उन्मीलत्कुटजप्रहासिषु गिरेर् आलम्ब्य सानून् इतः प्राग्भारेषु शिखण्डिताण्डवविधौ मेघैर् वितानाय्यते १०.१ ॥२१५॥
फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलिततनुतरङ्गाम् उत्तरेण श्रवन्तीम् ।
उपरिविघटमानप्रौढतापिञ्जनीलः श्रयति शिखरम् अद्रेर् नूतनस् तोयवाहः १०.२ ॥२१६॥
जृम्भाजर्जरडिम्बडम्बरघनश्रीमत्कदम्बद्रुमाः शैलाभोगभुवो भवन्ति ककुभः कादम्बिनीश्यामलाः ।
उद्यत्कुन्दलतान्तकेतकभृतः कच्छाः सरिच्छ्रोतसाम् आविर्गन्धशिलीन्ध्रलोध्रकुसुमस्मेरा वनानां गतिः १०.३ ॥२१७॥
उत्फुल्लार्जुनसर्ववासितवहत्पौरस्त्यझंझामरुत्- प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः ।
धारासिक्तवसुन्धरासुरभयः प्राप्तास् त एते ऽधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः १०.४ ॥२१८॥
भवभूतेर् अमी
एणी याति विलोक्य बालशलभाञ् शष्पाङ्कुरादित्सया छत्रीकुड्मलकानि रक्षति चिराद् अण्डभ्रमात् कुक्कुटी ।
धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरो दूराद् एव वनान्तरे विषधरग्रासाभिलाषातुरः १०.५ ॥२१९॥
आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः ।
धाराक्लिन्नकदम्बसम्भृतसुरामोदोद्वहाः प्रोषितैर् निःसम्पातविसारिदर्दुररवा नीताः कथं रात्रयः १०.६ ॥२२०॥
योगेश्वरस्य
दात्यूहध्वनिभाञ्जि वेतसशिखासुप्तोरगाणि ध्वनत्- कादम्बानि कुरङ्गयूथकलितस्तूपान्य् उदम्भांसि च ।
तीराण्य् अद्य पिपीलिकासमुदयावर्जज्जटालोलप- व्याप्तान्य् उन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः १०.७ ॥२२१॥
कान्तां क्वापि विलम्बिनीं कलरुतैर् आहूय भूयस् ततो दिग्भागान् अवलोक्य रङ्गवसुधाम् उत्सृज्य पद्भ्यां ततः ।
एष स्फारमृदङ्गनादमधुरैर् अम्भोमुचाम् आरवैर् बर्हश्रेणिकृतातपत्ररचनो हृष्टः शिखी नृत्यति १०.८ ॥२२२॥
पीताम्भःस्तिमिताः सृजन्ति सलिलान्य् आबद्धधारं घनास् तद्धाराध्वनिमीलितानि नयनान्य् अभ्येति निद्रागमः ।
निद्रामुद्रितलोचने प्रतिगृहं मूकायमाने जने निर्द्वन्द्वोच्चरदुच्चदर्दुररवैः कोलाहलिन्यो निशाः १०.९ ॥२२३॥
धारानिपातरवबोधितपञ्जरस्थ- दात्यूहडम्बरकरम्बितकण्ठकूजाः ।
अट्टेषु काण्डपटवारितशीकरेषु धन्याः पिबन्ति मुखतामरसं वधूनाम् १०.१० ॥२२४॥
शैलश्रेणिर् अपेतदावदहना दग्धप्ररूढं वनं जीमूताङ्कुरदन्तुरा दश दिशो भूरेणुमुक्तं नभः ।
किं चान्यत् कलिकोर्मिमेदुरमुखी जाता कदम्बच्छविश् छिद्यन्ते कियता क्षणेन शिखिनां मौनव्रतग्रन्थयः १०.११ ॥२२५॥
केदारे नववारिपूर्णजठरे किंचित्क्वणद्दर्दुरे शम्बूकाण्डकपिण्डपाण्डुरततप्रान्तस्थलीवीरणे ।
डिम्भा दण्डकपाणयः प्रतिदिशं पङ्कच्छटाचर्चिताश् चुभ्रूश् चुभ्रुर् इति भ्रमन्ति रभसाद् उद्यायिमत्स्योत्सुकाः १०.१२ ॥२२६॥
समन्ततो विस्फुरदिन्द्रनील- मणिप्रभाविच्छुरितान्तरालः ।
मर्त्यावतीर्णस्य बिडोजसो ऽयं नीलांशुकच्छत्रम् इवाम्बुवाहः १०.१३ ॥२२७॥
खद्योतच्छुरितान्धकारपटलाः स्पष्टस्फुरद्विद्युतः स्निग्धध्वानविभावितोरुजलदोन्नाहा रटत्कम्बवः ।
एताः केतकभेदवासितपुरोवाताः पतद्वारयो न प्रत्येमि जनस्य यद् विरहिणो यास्यन्ति सोढुं निशाः १०.१४ ॥२२८॥
एतस्मिन् मदजर्जरैर् उपचिते कम्बूरवाडम्बरैः स्तैमित्यं मनसो दिशत्य् अनिभृतं धारारवे मूर्छति ।
उत्सङ्गे ककुभो निधाय रसितैर् अम्भोमुचां घोरयन् मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते १०.१५ ॥२२९॥
गम्भीराम्भोधराणाम् अविरलनिपतद्वारिधारानिनादान् ईषन्निद्रालसाक्षा दृढगृहपटलारूढकुष्माण्डबन्ध्याः ।
दोर्भ्याम् आलिङ्ग्यमाना जलधरसमये पत्रषण्डे निशायां धन्याः शृण्वन्ति सुप्ताः स्तनयुगभरितोरःस्थलाः कामिनीनाम् १०.१६ ॥२३०॥
अपगतरजोविकारा घनपटलाक्रान्ततारकालोका ।
लम्बपयोधरभारा प्रावृद् इयं वृद्धवनितेव १०.१७ ॥२३१॥
अम्भोधेर् वडवामुखानलझलाज्वालोपगूढान्तरा व्यामोहाद् अपिबन्न् अपः स्फुटम् अमी तर्षेण पर्याविलाः ।
उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशाद् अहो दह्यन्ते कथम् अन्यथार्धमलिनाङ्गारद्युतस् तोयदाः १०.१८ ॥२३२॥
कृत्वा पिच्छिलतां पथः स्थगयता निर्भर्त्सनं पादयोः सान्द्रैर् वारिकणैः कपोलफलके विच्छित्तिम् आछिन्दता ।
मेघेनोपकृतं यद् आशु विहिता तस्यागसो निष्कृतिः स्वैरिण्याः प्रियवेश्मवर्त्म दिशता विद्युद्विलासैर् मुहुः १०.१९ ॥२३३॥
आसारोपरमे प्रगाढतिमिराः किम् ईरयन्त्यो निशाः पान्थस्त्रीमनसां स्मरानलकणासन्तानशङ्कास्पृशः ।
पिष्टानां प्रसभं घनाघनघटासंघट्टतो विद्युतां चूर्णाभाः परितः पतन्ति तरलाः खद्योतकश्रेणयः १०.२० ॥२३४॥
हस्तप्राप्यम् इवाम्बरं विदधतः खर्वा इवाशाततीर् गर्जाभिः क्षणजर्जरीकृतघनानुत्तालधारारवाः ।
क्वामग्नं स्थलम् अस्ति नाम तद् इभीवोद्दामसौदामिनी- नेत्रोन्मेषविलोकिताखिलभुवो वर्षन्ति नक्तं घनाः १०.२१ ॥२३५॥
उत्पुच्छानतधूतपक्षततयो झात्कारिणो विभ्रमैर् उद्वाच्यास् ततचञ्चवो लयवशाद् उत्क्षिप्तपादा मुहुः ।
पश्यन्तो निजकण्ठकाण्डमलिनां कादम्बिनीम् उन्नत- ग्रीवाभ्यर्णमिलत्कलापविटपा नृत्यन्ति केकाभृतः १०.२२ ॥२३६॥
इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहः- क्रियासख्येनालं गिरिवनसरिद्ग्रामसुहृदाम् ।
स्फुरल्लोमश्यामच्छगलशिशिकर्णप्रतिसम- च्छदाग्राभिस् त्वग्भिर् वलयितकरीरास् तलभुवः १०.२३ ॥२३७॥
पार्श्वाभ्यां शिरसा निमीलितदृशः कामं निमज्य क्रमाद् अंसौ पृष्ठम् उरः सपक्षतितलं गाढं स्पृशन्तो मुहुः ।
एते कुञ्चितजानवो नवजले निर्वान्ति घर्माहता भूयः पक्षपुटाभिपातरभसोत्सर्पत्कणाः पत्रिणः १०.२४ ॥२३८॥
मज्जानम् अपि विलिम्पति नाकृतपुण्यस्य वर्षति पयोदे ।
निर्गमकेलिसमुत्सुकशिशिवारणगाढपरिरम्भः १०.२५ ॥२३९॥
आक्रन्दाः स्तनितैर् विलोचनजलान्य् अश्रान्तधाराम्बुभिस् तद्विच्छेदभुवश् च शोकशिखिनस् तुल्यास् तडिद्विभ्रमैः ।
अन्तर् मे दयितामुखं तव शशी वृत्तिः समैवावयोस् तत् किं माम् अनिशं सखे जलधर त्वं दग्धुम् एवोद्यतः १०.२६ ॥२४०॥
भुवः किम् एता दिवम् उत्पतन्ति दिवो ऽथवा भूतलम् आविशन्ति ।
चलाः स्थिरा वेति वितर्कयन्त्यो धाराः कराग्रैर् अबलाः स्पृश्नति १०.२७ ॥२४१॥
छत्रावलम्बि विमलोरुपयःप्रवाह- धाराभरस्फटिकपञ्जरसंयताङ्गः ।
पान्थः स्वशासनविलङ्घनजातकोप- कामाज्ञया प्रियतमाम् इव नीयते स्म १०.२८ ॥२४२॥
अद्याम्भः परितः पतिष्यति भुवस् तापो ऽद्य निर्वास्यति क्षेत्रेष्व् अद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः ।
नर्तिष्यन्ति तवोदये ऽद्य जलद व्यालोलपुच्छच्छद- च्छत्रच्छादितमौलयो दिशि दिशि क्रीडालसाः केकिनः १०.२९ ॥२४३॥
गायति हि नीलकण्ठो नृत्यति गौरी तडित् तरलतारा ।
आस्फालयति मृदङ्गं तदनु घनो ऽयं महाकालः १०.३० ॥२४४॥
अलकेषु चूर्णभासः स्वेदलवाभान् कपोलफलकेषु ।
नवघनकौतुकिनीनां वारिकणान् पश्यति कृतार्थः १०.३१ ॥२४५॥
काले वारिधराणाम् अपतितया नैव शक्यते स्थातुम् ।
उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः १०.३२ ॥२४६॥
असितभुजगशिशुवेष्टितम् अभिनवम् आभाति केतकीकुसुमम् ।
आयसवलयाकंकृतविषाणम् इव दन्तिनः पतितम् १०.३३ ॥२४७॥
स्तम्बेषु केतकीनां यथोत्तरं वामनैर् दलैर् अद्य ।
विदलन्ति मेषतर्णकपुच्छच्छविकेशराः सूच्यः १०.३४ ॥२४८॥
धूलीभिः केतकीनां परिमलनसमुद्धूलिताङ्गः समन्ताद् अन्तोद्वेल्लद्बलाकावलिकुणपशिरोनद्धनीलाभ्रकेशः ।
प्रेङ्खद्विद्युत्पताकावलिरुचिरधनुःखण्डखट्वाङ्गधारी सम्प्राप्तः प्रोषितस्त्रीप्रतिभयजनकः कालकापालिको ऽयम् १०.३५ ॥२४९॥
मेघश्यामदिशि प्रवृत्तधनुषि क्रीडत्तडित्तेजसि च्छन्नाहर् निशि गर्जितप्रमनसि प्रम्लानलीलारुषि ।
पूर्णश्रोतसि शान्तचातकतृषि व्यामुग्धचन्द्रत्विषि प्राणान् पान्थ कथं दधासि निवसन्न् एतादृशि प्रावृषि १०.३६ ॥२५०॥
क्षपां क्षामीकृत्य प्रसभम् अपहृत्याम्बु सरितां प्रताप्योर्वीं सर्वां वनगहनम् उच्छाद्य सकलम् ।
क्व सम्प्रत्य् उष्णांशुर् गत इति समन्वेषणपरास् तडिद्दीपालोकैर् दिशि दिशि चरन्तीव जलदाः १०.३७ ॥२५१॥
विद्युद्दीधितिभेदभीषणतमःस्तोमान्तराः संतत- श्यामाम्भोधररोधसंकटवियद्विप्रोषितज्योतिषः ।
खद्योतानुमितोपकण्ठतरवः पुष्णन्ति गम्भीरताम् आसारोदकमत्तकीटपटलीक्वाणोत्तरा रात्रयः १०.३८ ॥२५२॥
अभिनन्दस्य
हर्षोल्लासितचारुचन्द्रकबृहद्बर्हैर् वनानाम् अमी जाताः पुष्पितबालशाखिन इवाभोगा भुजङ्गाशिभिः ।
स्पृष्टाः कोटरनिर्गतार्धतनुभिः पातुं पयोदानिलं निर्यद्वंशकरीरकोटय इव क्षोणीभृतो भोगिभिः १०.३९ ॥२५३॥
शतानन्दस्य
एताः पङ्क्तिलकूलरूढनकदस्तम्बक्वणत्कम्बवः क्रीडत्कर्कटचक्रवालविदलज्जम्बालतोयाविलाः ।
हृल्लेखं जनयन्त्य् अनूपसरिताम् उत्तुण्डगण्डूपदोत्- कीर्णक्लिन्नमृदो नदस्थपुटितप्रान्तास् तटीभूमयः १०.४० ॥२५४॥
योगेश्वरस्य
नवे धारासारे प्रमदचटुलायाः स्थलजुषो वराटीशुभ्रायाः शफरसरणेर् एभिर् उपरि ।
कुलीरैर् भ्राम्यद्भिर् गणयितुम् इव व्यापृतकरा मनः क्रीणन्तीव प्रकटविभवाः पल्वलभुवः १०.४१ ॥२५५॥
अभिषेकस्य
विन्ध्याद्रिमहालिङ्गं स्नपयति पर्यन्यधार्मिकः शुचिभिः ।
जलदेन्द्रनीलगड्डूशतोज्झितैः सम्प्रति पयोभिः १०.४२ ॥२५६॥
पिबति व्योमकटाहे संसक्तचलत्तडिल्लतारसनः ।
मेघमहामार्जारः सम्प्रति चन्द्रातपक्षीरम् १०.४३ ॥२५७॥
योगेश्वरस्यैतौ
अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण ।
पिबति निदाघज्वरिता घनधारां करपुटेनैव १०.४४ ॥२५८॥
तस्यैव
आरोहवल्लीभिर् इवाम्बुधारा- राजीभिर् आभूमिविलम्बिनीभिः ।
संलक्ष्यते व्योम वटद्रुमाभम् अम्भोधरश्यामदलप्रकाशम् १०.४५ ॥२५९॥
दक्षस्य
नीपैः काञ्चीकृतविरचनैः पिञ्जरं श्रोणिबिम्बं मिश्रावंसौ श्रवसि वसता कन्दलीकुड्मलेन ।
पाण्डिच्छायः स्तनपरिसरो यूथिकाकण्ठसूत्रैर् इत्य् आकल्पः प्रकृतिललितो वल्लभः सुन्दरीणाम् १०.४६ ॥२६०॥
लूने कालाञ्जनपरिचये शीकरैः कामम् अक्ष्णोर् एकीभूते कुचकलशयोर् वाससि श्यामसूक्ष्मे ।
दृष्टे स्वाभाविकतनुगुणे दुर्दिनस्वैरिणीनां धन्यो वेषान्तरविरचनं प्रत्युदास्ते कृतार्थः १०.४७ ॥२६१॥
असौ नास्तीवेन्दुः क्वचिद् अपि रविः प्रोषित इव ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितम् इव ।
अहर् वा रात्रिर् वा द्वयम् अपि विलुप्तप्रविचयं घनैर् बद्धव्यूहैः किम् इदम् अतिघोरं व्यवसितम् १०.४८ ॥२६२॥
विलुप्त
तावद् वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावद् विक्षिप्तौ तावद् अङ्घ्री पथि पथिकजनैर् लम्भिता तावद् आशा ।
फुल्लद्धाराकदम्बस्तबकवलयिता यावद् एते न दृष्टा निर्मुक्तव्यालनीलद्युतिनवजलदव्याकुला विध्यपादाः १०.४९ ॥२६३॥
कामं कूले नदीनाम् अनुगिरि महिषीयूथनीडोपकण्ठे गाहन्ते शष्पराजीर् अभिनवशलभग्रासलोका बलाकाः ।
अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित् कापोतं कोद्रवाणां कवलयति कणान् क्षेत्रकोणैकदेशे १०.५० ॥२६४॥
योगेश्वरस्यैतौ
अमुष्मिन् संनद्धे जलमुचि समभ्यस्य कतिचित् ककारान् पर्यन्तद्विगुणमतरेफप्रसविनः ।
स माध्यन्दात्यूहश् चलविपुलकण्ठः प्रसरति क्रमोदञ्चत्तारः क्रमवशनमन् मन्दमधुरः १०.५१ ॥२६५॥
इति प्रावृड्व्रज्या
N/A
References : N/A
Last Updated : November 11, 2016
TOP