संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| सुगतव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - सुगतव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश सुगतव्रज्या Translation - भाषांतर नमो बुद्धायनानाकवीन्द्रवचनानि मनोहराणि संख्यावतां परमकण्ठविभूषणानि ।आकम्पकानि शिरसश् च महाकवीनां तेषां समुच्चयम् अनर्घम् अहं विधास्ये ०.१ ॥१॥सुगतव्रज्याआबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा मारा मारवधूस्तनाश् च न दधुः क्षोभं स वो ऽव्याज् जिनः १.१ ॥२॥अश्वघोषस्यनम्राः पादनखेषु यस्य दशसु ब्रह्मेशकृष्णास् त्रयस् ते देवाः प्रतिबिम्बनात् त्रिदशतां सुव्यक्तम् आपेदिरे ।स त्रैलोक्यगुरुः सुदुस्तरभवाकूपारपारंगतो मारव्यूहजयप्रगल्भसुभटः शास्ता तव स्तान् मुदे १.२ ॥३॥वसुकल्पस्यकामक्रोधौ द्वयम् अपि पदं प्रत्यनीकं वशित्वे हत्वानङ्गं किम् इव हि रुषा साधितं त्र्यम्बकेण ।यस् तु क्षान्त्या शमयति शतं मन्मथाद्यान् अरातीन् कल्याणं वो दिशतु स मुनिग्रामणीर् अर्कबन्धुः १.३ ॥४॥संघश्रियःश्रेयांसि वः स सुगतः कुरुताद् अपार- संसारसागरसमुत्तरणैकसेतुः ।दुर्वारमारपरिवारबलावलेप- कल्पान्तसंततपयःप्रसरैर् अहार्यः १.४ ॥५॥अपराजितरक्षितस्यशास्ता समस्तभुवनं भगवान् अपायात् पायाद् अपास्ततिमिरो मिहिरोपमेयः ।संसारभित्तिभिदुरो भवकन्दकन्दु- कन्दर्पदर्पदलनव्यसनी मुनीन्द्रः १.५ ॥६॥वसुकल्पस्यकारुण्यामृतकन्दलीसुमनसः प्रज्ञान्वधूमौक्तिक- ग्रीवालंकरणश्रियः शमसरित्पूरोत्सलच्छीकराः ।ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित- स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः १.६ ॥७॥शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्- दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः ।देयात् तुभ्यम् अवार्यवीर्यविटपः क्षान्तिप्रसूनोदयः सुच्छायः षडभिज्ञकल्पविटपी सम्बोधिबीजं फलम् १.७ ॥८॥एतौ श्रीधरनन्दिनःएकस्यापि मनोभुवस् तदबलापाङ्गैर् जगन्निर्जये कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयम् ।यस् त्व् एनं सबलं च जेतुम् अभितस् तत्कम्पमात्रं भ्रुवोर् नारेभे सुगतस् तु तद्गुणकथा स्तम्भाय नः केवलम् १.८ ॥९॥कुमुदाकरमतेःप्रत्येकानन्तजातिप्रतिवपुर् अमितावृत्तिजम्भार्जितैनो- भोक्तृव्रातोज्जिहीर्षाफलनिलयमहापौरुषस्यापि शास्तुः ।के ऽप्य् उत्कर्षं स्तुवन्ति स्मरम् अपि जयतस् तद् वदामः किम् अस्मिन् यो भस्मासीत्कटाक्षज्वलनकणिकया द्राग् उमाकामुकस्य १.९ ॥१०॥वल्लणस्यपायाद् वः समयः स मारजयिनो वन्ध्यायितास्त्रोत्करः क्रोधाद् यत्र तदुत्तमाङ्गकवलोन्मीलन्महाविक्रमः ।आसीद् अद्भुतमौलिरत्नमिलितां व्यात्ताननच्छायिकाम् आलोक्यात्मन एव मारसुभटः पर्यस्तधैर्योदयः १.१० ॥११॥सुभटःसुमटःधरघरश्रीपार्श्ववर्मणःखेलाचञ्चलसंचरन्निजपदप्रेङ्खोललीलामिलत्- सद्यःसान्द्रपरागरागरचितापूर्वप्रसूनश्रियः ।आश्लिष्यन्मधुलम्पटालिनिवहस्योच्चैर् मिथश् चुम्बनैर् व्याकोषः कुसुमाञ्जलिर् दिशतु वः श्रेयो जिनायार्पितः १.११ ॥१२॥जितारिनन्दिनःदरोन्मुक्तारक्तस्फुरदधरवीथीक्रमवमन्- मयूखान्तर्मूर्च्छद्द्युतिदशनम् उद्देशवशिनः ।सुखं तद् वः शास्तुर् दिशतु शिवम् अज्ञानरजनी- व्यवच्छेदोद्गच्छन्महिमघनसंध्यातप इव १.१२ ॥१३॥त्रिलोचनस्यकन्दर्पाद् अपि सुन्दराकृतिर् इति प्रौढोत्सलद्रागया वृद्धत्वं वरयोषितो ऽनयद् इति त्रासाकुलस्वान्तया ।मारस्यापि शरैर् अभेद्यहृद् इति श्रद्धाभरप्रह्वया पायाद् वः स्फुटबाष्पकम्पपुलकं रत्या जिनो वन्दितः १.१३ ॥१४॥तस्यैवेति श्रुतिःपादाम्भोजसमीपसंनिपतितस्वर्णाथदेहस्फुरन्- नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः ।वन्दारुत्रिदशौघरत्नमुकुटोद्भूतप्रभापल्लव- प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः १.१४ ॥१५॥वसुकल्पस्यक एकस् त्वं पुष्पायुध मम समाधिव्ययविधौ सुपर्वाणः सर्वे यदि कुसुमशस्त्रास् तद् अपि किम् ।इतीवैनान् नूनं य इह सुमनोस्त्रत्वम् अनयत् स वः शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी १.१५ ॥१६॥इति सुगतव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP