संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|सुभाषितरत्नकोशः| मानिनीव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - मानिनीव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश मानिनीव्रज्या Translation - भाषांतर मानोन्नतेत्य् असहनेत्य् अतिपण्डितेति मय्य् एव धिक्कृतिर् अनेकमुखी सखीनाम् ।आकारमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणान् उपवर्णयन्ति २१.१ ॥६३५॥लक्ष्मीधरस्यवलतु तरला दृष्टा दृष्टिः खला सखि मेखला स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यतु कञ्चुकम् ।तद् अपि न मया सम्भाष्यो ऽसौ पुनर् दयितः शठः स्फुरति हृदयं मौनेनान्तर् न मे यदि तत्क्षणात् २१.२ ॥६३६॥अमरुकस्यतद् एवाजिह्माक्षं मुखम् अविशदास् ता गिर इमाः स एवाङ्गाक्षेपो मयि सरसम् आश्लिष्यति तनुम् ।यद् उक्तं प्रत्युक्तं तद् अपटु शिरःकम्पनपरं प्रिया मानेनाहो पुनर् अपि कृता मे नववधूः २१.३ ॥६३७॥शम्बूकस्ययदि विनिहिता शून्या दृष्टिः किम् उ स्थिरकौतुका यदि विरचितो मौने यत्नः किम् उ स्फुरितो ऽधरः ।यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः कृतम् अभिनयैर् दृष्टो मानः प्रसीद विमुच्यताम् २१.४ ॥६३८॥अमरुकस्यचेतःचक्षुःएकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतस् ताम्बूलारचनच्छलेन रभसाश्लेषक्रमो विघ्नितः ।संलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके भर्तुः प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः २१.५ ॥६३९॥श्रीहर्षस्य ॥यद्वक्त्राभिमुखं मुखं विनिहितं दृष्टिर् धृता चान्यतस् तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।हस्ताभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कञुच्के सन्धयः २१.६ ॥६४०॥दूराद् उत्सुकम् आगते विचलितं सम्भाषिणि स्फारितं संश्लिष्यत्य् अरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् ।मानिन्याश् चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं क्षणाच् चक्षुर् जातम् अहो प्रपञ्चचतुरं जातागसि प्रेयसि २१.७ ॥६४१॥रतिपालस्य ॥वचोवृत्तिर् मा भूद् वलतु च नवा वक्त्रम् अभितो न नाम स्याद् बाष्पागमविषदं लोचनयुगम् ।समाश्वासस् तेन प्रणतशिरसः पत्युर् अभवत् प्रिया प्रौढक्रोधाप्य् अपहृतवती यन् न चरणौ २१.८ ॥६४२॥बोपालितस्य ॥किं पादान्ते पतसि विरम स्वामिनो हि स्वतन्त्राः कंचित् कालं क्वचिद् अपि रतिस् तेन कस् ते ऽपराधः ।आगस्कारिण्य् अहम् इह यया जीवितं त्वद्वियोगे भर्तृप्राणाः स्त्रिय इति ननु त्वं मयैवानुनेयः २१.९ ॥६४३॥वाक्कूटस्य ॥यद् गम्यं गुरुगौरवस्य सुहृदो यस्मिंल् लभन्ते ऽन्तरं यद्दाक्षिण्यरसाद् भिया च सहसा नर्मोपचाराण्य् अपि ।यल्लज्जा निरुणद्धि यत्र शपथैर् उत्पाद्यते प्रत्ययस् तत् किं प्रेम स उच्यते परिचयस् तत्रापि कोपेन किम् २१.१० ॥६४४॥भ्रूभङ्गो गणितश् चिरं नयनयोर् अभ्यस्तम् आमीलनं रोद्धुं शिक्षितम् आदरेण हसितं मौने ऽभियोगः कृतः ।धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथंचिन् मया बद्धो मानपरिग्रहे परिकरः सिद्धिस् तु दैवे स्थिता २१.११ ॥६४५॥धर्मकीर्तेः ॥परिग्रहे परिकरःपरिग्रहः परिकरेतथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं ततो ऽनु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा ।इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं मयाप्तं प्राणानां कुलिशकठिनानां फलम् इदम् २१.१२ ॥६४६॥भावकदेव्याः ॥यदा त्वं चन्द्रो ऽभूर् अविकलकलापेशलवपुस् तदाहं जातार्द्रा शशधरमणीनां प्रतिकृतिः ।इदानीम् अर्कस् त्वं खररुचिसमुत्सारितरसः किरन्ती कोपाग्नीन् अहम् अपि रविग्रावघटिता २१.१३ ॥६४७॥कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्यस्मितम् अनुनयो दृष्टिपातः प्रसादः ।तस्य प्रेम्णस् तद् इदम् अधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न हि मे मन्युमोक्षः खलायाः २१.१४ ॥६४८॥प्रद्युम्नस्य ॥शठान्यस्याः काञ्चीमणिरणितम् आकर्ण्य सहसा समाश्लिष्यन्न् एव प्रशिथिलभुजग्रन्थिर् अभवः ।तद् एतत् क्वाचक्षे घृतमधुमय त्वन्मृदुवचो- विषेणाघूर्णन्ती किम् अपि न सखीयं गणयति २१.१५ ॥६४९॥हिङ्गोकस्य ॥मुग्धासि नायम् अपराध्यति मैवम् आलि केयं रुषा परुषिता लिखिताप्य् अनेन ।केलिस्खलद्वसनम् उत्पुलकाङ्गभङ्गम् उत्तुङ्गपीनकुचम् आलिखिता त्वम् एव २१.१६ ॥६५०॥वीर्यमित्रस्य ॥पाणौ शोणतले तनूदरि दरक्षामं कपोलस्थलं विन्यस्याञ्जनदिग्धलोचनजलैः किं ग्लानिम् आनीयते ।मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दलीम् उन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते २१.१७ ॥६५१॥कोपः सखि प्रियतमे ननु वञ्चनैव तन् मुञ्च मानिनि रुषं क्रियतां प्रसादः ।प्राणेश्वरश् चरणयोः पतितस् तवायं सम्भाष्यतां विकसता नयनोत्पलेन २१.१८ ॥६५२॥बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं खेदो ऽस्मासु न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि ।तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते २१.१९ ॥६५३॥कुमारभट्टस्य ॥गतप्राया रात्रिः कृशतनु शशी शीर्यत इव प्रदीपो ऽयं निद्रावशम् उपगतो घूर्णत इव ।प्रणामान्तो मानस् त्यजसि न तथापि क्रुधम् अहो कुचप्रत्यासत्त्या हृदयम् अपि ते चण्डि कठिनम् २१.२० ॥६५४॥महोदधेः ॥गतो दूरं चन्द्रो जठरलवलीपाण्डुरवपुर् दिशः किंचित् किंचित् तरणिकिरणैर् लोहितरुचः ।इदं निद्राच्छेदे रसति सरसं सारसकुलं चकोराक्षि क्षिप्रं जहिहि जहिहि प्रेमलडितम् २१.२१ ॥६५५॥मया तावद् गोत्रस्खलितहतकोपान्तरितया न रुद्धो निर्गच्छन्न् अयम् अतिविलक्षः प्रियतमः ।अयं त्व् आकूतज्ञः परिणतिपरामर्शकुशलः सखीलोको ऽप्य् आसील् लिखित इव चित्रेण किम् इदम् २१.२२ ॥६५६॥हिम्बोकस्य ॥भवतु विदितं कृत्यालापैर् अलं प्रिय गम्यतां तनुर् अपि न ते दोषो ऽस्माकं विधिस् तु पराङ्मुखः ।तव यदि तथारूढं प्रेम प्रपन्नम् इमां दशां प्रकृतिचपले का नः पीडा गते हतजीविते २१.२३ ॥६५७॥धर्मकीर्तेः ॥असद्वृत्तो नायं न च सखि गुणैर् एष रहितः प्रियो मुक्ताहारस् तव चरणमूले निपतितः ।गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिताम् उपायो नास्त्य् अन्यो हृदयपरितापोपशमने २१.२४ ॥६५८॥भट्टहरेः ॥अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदं त्वयाकाण्डे मानः किम् इति शरले प्रेयसि कृतः ।समाकृष्टा ह्य् एते विरहदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास् तद् अलम् अधुनारण्यरुदितैः २१.२५ ॥६५९॥विकटनितम्बायाः ॥मा रोदीः सखि नश्यदन्धतमसं पश्याम्बरं ज्योत्स्नता शीतांशुः सुधया विलिम्पति सखा राज्ञो मनोजन्मनः ।कः कोपावसरः प्रसीद रहसि स्वेदाम्भसां बिन्दवो लुम्पन्तु स्तनपत्रभङ्गमकरीः सौधागुरुश्यामलाः २१.२६ ॥६६०॥मा रोदीः करपल्लवप्रणयिनीं कृत्वा कपोलस्थलीं मा भाङ्क्षीः परिखेद साक्षिभिर् इव श्वासौर् मुखेन्दोः श्रियम् ।मुग्धे दग्धगिरः स्खलन्ति शतशः किं कुप्यसि प्रेयसि प्राणास् तन्वि ममासि नोचितम् इदं तद् व्यर्थम् उत्ताम्यसि २१.२७ ॥६६१॥यद् एतन् नेत्राम्भः पतद् अपि समासाद्य तरुणी- कपोलव्यासङ्गं कुचकलशम् अस्याः कलयति ।ततः श्रोणीबिम्बं व्यवसितविलासं तद् उचितं स्वभावस्वच्छानां विपद् अपि सुखं नान्तरयति २१.२८ ॥६६२॥पक्ष्मान्तरस्खलिताः कपोलफलके लोलं लुठन्तः क्षणं धारालास् तरलोत्सकत्तनुकणाः पीनस्तनास्फालनात् ।कस्माद् ब्रूहि तवाद्य कण्ठविगलन्मुक्तावलीविभ्रमं बिभ्राणा निपतन्ति बाष्पपयसां प्रस्यन्दिनो बिन्दवः २१.२९ ॥६६३॥राजशेखरस्यकपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैर् अयम् अमृतहृद्यो ऽधररसः ।मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तनतटं प्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् २१.३० ॥६६४॥धिग् धिक् त्वाम् अयि केन दुर्मुखि कृतं किं किं न कायव्रतं द्वित्राण्य् अत्र दिनानि को न कुपितः को नाभवन् मानुषः ।स्मः केचिन् न वयं यद् एकम् अपरस्याप्य् उक्तम् आकर्ण्यताम् अत्युन्माथिनि चन्दने ऽपि नियतं नामाग्निर् उत्तिष्ठति २१.३१ ॥६६५॥वल्लणस्यस्फुटतु हृदयं कामः कामं करोतु तनुं तनुं न खलु चटुलप्रेम्णा कार्यं पुनर् दयितेन मे ।इति सरभसं मानाटोपाद् आदीर्य वचस् तया रमणपदवी शारङ्गाक्ष्या सशङ्कितम् ईक्षिता २१.३२ ॥६६६॥एकस्मिञ् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यं हृदये स्थिते ऽप्य् अनुनये संरक्षतोर् गौरवम् ।पश्चाद् आकुलयोर् अपाङ्गवलनान् मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः २१.३३ ॥६६७॥कन्दर्पकन्दलि सलीकदृशा लुनीहि कोपाङ्कुरं चरणयोः शरणातिथिः स्याम् ।पश्य प्रसीद चरमाचलचूलचुम्बि बिम्बं विधोर् लवलपाण्डुरसस् तम् एति २१.३४ ॥६६८॥अहो दिव्यं चक्षुर् वहसि तव सापि प्रणयिनी पराक्ष्णाम् अग्राह्यं युवतिषु वपुः संक्रमयति ।समानाभिज्ञानं कथम् इतरथा पश्यति पुरो भवान् एकस् तस्याः प्रतिकृतिमयीर् एव रमणीः २१.३५ ॥६६९॥मनोविनोदस्यप्रिये मौनं मुञ्च श्रितुर् अमृतधाराः पिबतु मे दृशऊन्मील्येतां भवतु जगद् इन्दीवरमयम् ।प्रसीद प्रेमापि प्रशमयति निःशेषम् अधृतीर् अभूमिः कोपानां ननु निरपराधः परिजनः २१.३६ ॥६७०॥डिम्बोकस्यकोपस् त्वया यदि कृतो मयि पङ्कजाक्षि सो ऽस्तु प्रियस् तव किम् अस्ति विधेयम् अन्यत् ।आश्लेषम् अर्पय मदर्पितपूर्वम् उच्चैर् उच्चैः समर्पय मदर्पितचुम्बनं च २१.३७ ॥६७१॥शतानन्दस्यसखि कलितः स्खलितो ऽयं हेयो नैव प्रणाममात्रेण ।चिरम् अनुभवतु भवत्या बाहुलताबन्धनं धूर्तः २१.३८ ॥६७२॥गोनन्दस्यजाते केलिकलौ कृते कमितरि व्यर्थानुनीतौ चिरान् माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि ।मायास्वापम् उपेत्य तन्निपुणया निद्रान्ध्यम् आचेष्टितं मानम्लानिर् अभून् न येन च न चाप्य् आसीद् रहःखण्डनम् २१.३९ ॥६७३॥कथंचिन् नैदाघे दिवस इव कोपे विगलिते प्रसत्तौ प्राप्तायां तदनु च निशायाम् इव शनैः ।स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो मुखेन्दुर् मानिन्याः स्फुरति कृतपुण्यस्य सुरते २१.४० ॥६७४॥मानव्याधिनिपीडिताहम् अधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखीजनो ऽस्ति चतुरो यो मां बलान् नेष्यति ।मानी सो ऽपि जनो न लाघवभयाद् अभ्येति मातः स्वयं कालो याति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया २१.४१ ॥६७५॥यावन् नो सखि गोचरं नयनयोर् आयाति तावद् द्रुतं गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः ।दृष्टे धूर्तविचेष्टिते तु दयिते तस्मिन्न् अवश्यं मम स्वेदाम्भःप्रतिरोधिनिर्भरतरस्मेरं मुखं जायते २१.४२ ॥६७६॥दुष्टा मुष्टिर् इहाहता हृदि नखैर् आचोटिता पार्श्वयोर् आकृष्टा कबरीषु गाढम् अधरे सीत्कुर्वती खण्डिता ।त्वत्कृत्यं त्वदगोचरे ऽपि हि कृतं सर्वं मयैवाधुना माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव २१.४३ ॥६७७॥सुतनु जहिहि मौनं पश्य पादानतं मां न खलु तव कदाचित् कोप एवंविधो ऽभूत् ।इति निगदति नाथे तिर्यग् आमीलिताक्ष्या नयनजलम् अनल्पं मुक्तम् उक्तं न किंचित् २१.४४ ॥६७८॥चेतस्य् अङ्कुरितं विकारिणि दृशोर् द्वन्द्वे द्विपत्रायितं प्रायः पल्लवितं वचःस्व् अपरताप्रत्यायमानादिषु ।तत् तत् कोपविचेष्टिते कुसुमितं पादानते तु प्रिये मानिन्याः फलितं न मानतरुणा पर्यन्तवन्ध्यायितम् २१.४५ ॥६७९॥राजशेखरस्यकियन्मात्रं गोत्रस्खलितम् अपराधश् चरणयोश् चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि ।रुषं मुञ्चामुञ्च प्रियम् अनुगृहाणायतिहितं शृणु त्वं यद् ब्रूमः प्रियसखि नखं मा कुरु नदीम् २१.४६ ॥६८०॥दैवाद् अयं यदि जनो विदितो ऽपराधी दासोचितैः परिभवैर् अयम् एव शास्यः ।एषा कपोलफलके ऽगरुपत्रवल्ली किं पीड्यते सुतनु बाष्पजलप्रणालैः २१.४७ ॥६८१॥कृत्वागः स च नागतो ऽपि किम् अपि व्यक्तं मनो मन्यते तत् क्वासे कम् उपैमि जङ्गमवने को माम् इहाश्वासयेत् ।इत्य् उक्त्वाश्रुगलन्मुखी विटसखी ध्वस्ता विशन्ती गृहं धन्येनाधिम् उपाश्रुणोर् असि कृतात्यन्तं प्रिया रोदिता २१.४८ ॥६८२॥वल्लणस्यकपोलं पक्ष्मभ्यः कलयति कपोलात् कुचतटं कुचान् मध्यं मध्यान् नवमुदितनाभीसरसिजम् ।न जानीमः किं नु क्व नु कियद् अनेन व्यवसितं यद् अस्याः प्रत्यङ्गं नयनजलबिन्दुर् विहरति २१.४९ ॥६८३॥नरसिंहस्यविकिर नयने मन्दच्छायं भवत्व् असितोत्पलं वितर दयिते हासज्योत्स्नां निमीलतु पङ्कजम् ।वद सुवदने लज्जामूका भवन्तु शिखण्डिनः परपरिभवो मानस्थानैर् न मानिनि सह्यते २१.५० ॥६८४॥अयं धूर्तो मायाविनयमधुराद् अस्य चरितात् सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किम् ।कपोले यल् लाक्षारसबहलरागप्रणयिनीम् इमां धत्ते मुद्राम् अनतिचिरवृत्तान्तपिशुनाम् २१.५१ ॥६८५॥अप्राप्तकेलिसुखयोर् अतिमानरुद्ध- संधानयोर् रहसि जातरुषोर् अकस्मात् ।यूनोर् मिथो ऽभिलषतोः प्रथमानुनीतिं भावाः प्रसादपिशुनाः क्षपयन्ति निद्राम् २१.५२ ॥६८६॥सोन्नोकस्यैतौश्रवसि न कृतास् ते तावन्तः सखीचवनक्रमाश् चरणपतितो ऽङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः ।कठिनहृदये मिथ्यामौनव्रतव्यसनाद् अयं परिजनपरित्यागोपायो न मानपरिग्रहः २१.५३ ॥६८७॥न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलता न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम् ।इदं तु प्रेयस्याः प्रथयति रुषो ऽन्तर्विकसिताः शते ऽपि प्रश्नानां यदभिदुरमुद्रो ऽधरपटः २१.५४ ॥६८८॥वैद्यधन्यस्यतत् तद् वदत्य् अपि यथावसरं हसत्य् अप्य् आलिङ्गने ऽपि न निषधति चुम्बने ऽपि ।किं तु प्रसादनभयाद् अतिनिह्नुतेन कोपेन को ऽपि निहितो ऽद्य रसावतारः २१.५५ ॥६८९॥महाव्रतस्यआश्लेषेण पयोधरप्रणियिनीं प्रत्यादिशन्त्या दृशं दृष्ट्वा चाधरबद्धतृष्णम् अधरं निर्भर्त्सयन्त्या मुखम् ।ऊर्वोर् गाढनिपीडनेन जघने पाणिं च रुद्ध्वानया पत्युः प्रेम न खण्डितं निपुणया मानो ऽपि नैवोज्झितः २१.५६ ॥६९०॥दीर्घोच्छ्वासविकम्पिताकुलशिखा यत्र प्रदीपाः कुले दृष्टिर् यत्र च दीर्घजागरगुरुः कोपे मदीये तव ।विस्रम्भैकरसप्रसादमधुरा यत्र प्रवृत्ताः कथास् तान्य् अन्यानि दिनानि मुञ्च चरणौ सैवाहम् अन्यो भवान् २१.५७ ॥६९१॥परीरम्भारम्भः स्पृशति परम् इच्छां न तु भुजौ भजन्ते विज्ञानं न तु गिरम् अनूरोधविधयः ।मनस्विन्याः स्वैरं प्रसरति निशासीमसमये मनः प्रत्यावृत्तं कमितरि कथंचिन् न तु वपुः २१.५८ ॥६९२॥चक्रपाणेःअद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः प्रोत्क्षिप्तो ऽयम् अशोकदोहदविधौ पादः क्वणन्नूपुरः ।तावत् किं कथयामि केलिपटुना निर्गत्य कुञ्जोदराद् अज्ञातोपनतेन तेन सहसा मूर्ध्नैव सम्भावितः २१.५९ ॥६९३॥मधुकूटस्यसखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा विधिपरिणतं यस्मात् सर्वो जनः सुखम् अश्नुते ।मम तु हृदये संतापो ऽयं प्रिये विमुखे ऽपि यत् कथम् अपि हतव्रीडं चेतो न याति विरागिताम् २१.६० ॥६९४॥भ्रूभेदे रचिते ऽपि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते ।कार्कश्यं गमिते ऽपि चेतसि तनू रोमाञ्चम् आलम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ् जने २१.६१ ॥६९५॥प्रेयान् सो ऽयम् अपाकृतः सशपथं पादानतः कान्तया द्वित्राण्य् एव पदानि वासभवनाद् यावन् न यात्य् आत्मना ।तावत् प्रत्युत पाणिसम्पुटलसन्नीवीनिबन्धं धृतो धावित्वेव कृतप्रणामकम् अहो प्रेम्णो विचित्रा गतिः २१.६२ ॥६९६॥गते प्रेमाबन्धे हृदयबहुमाने विगलिते निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतास् ते च दिवसा न जाने को हेतुः स्फुटति शतधा यन् न हृदयम् २१.६३ ॥६९७॥सुतनु नितम्बस् तव पृथुर् अक्ष्णोर् अपि नियतम् अर्जुनो महिमा ।मध्यः सवलिर् इदानीं मान्धाता कुचतटः क्रियताम् २१.६४ ॥६९८॥दामोदरस्यदृष्टे लोचनवन् मनाङ् मुकुलितं चाग्रे गते वक्त्रवन् न्यग्भूतं बहिर् आस्थितं पुलकवत् संस्पर्शम् आतन्वति ।नीवीबन्धवद् आगतं शिथिलताम् आभाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि २१.६५ ॥६९९॥इति मानिनी व्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP