संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|सुभाषितरत्नकोशः| निर्वेदव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - निर्वेदव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश निर्वेदव्रज्या Translation - भाषांतर धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायताम् आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कम् अङ्कस्थिताः ।अस्माकं तु मनोरथोपरचितप्रासादवापीतट- क्रीडाकाननकेलिमण्डपसदाम् आयुः परं क्षीयते ४२.१ ॥१४६१॥आस्वाद्य स्वयम् एव वच्मि महतीर् मर्मच्छिदो वेदना मा भूत् कस्यचिद् अप्य् अयं परिभवो याञ्छेति संसारिणः ।पश्य भ्रातर् इयं हि गौरवजराधिक्कारकेलिस्थली मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः ४२.२ ॥१४६२॥पश्य गोभट किं कुर्मः कर्मणां गतिर् ईदृशी ।दुषेर् धातोर् इवास्माकं दोषनिष्पत्तये गुणः ४२.३ ॥१४६३॥अनादृत्यौचित्यं ह्रियम् अविगणय्यातिमहतीं यद् एतस्याप्य् अर्थे धनलवदुराशातरलिताः ।अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां मुखानि प्रेक्ष्यन्ते धिग् इदम् अतिदुष्पूरम् उदरम् ४२.४ ॥१४६४॥जातिर् यातु रसातलं गुणगणस् तस्याप्य् अधो गच्छतु शीलं शैलतटात् पताव् अभिजनः संदह्यतां वह्निना ।शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलं येनैकेन विना गुणास् तृणलवप्रायाः समस्ता इमे ४२.५ ॥१४६५॥निष्कन्दाः किम् उ कन्दरोदरभुवः क्षीणास् तरूणां त्वचः किं शुष्काः सरितः स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः ।प्रत्युत्थानम् इतस् ततः प्रतिदिनं कुर्वद्भीर् उद्गीतिभिर् यद् धारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिर् अप्य् आस्यते ४२.६ ॥१४६६॥अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर् विगलितविवेकैर् व्यवसितम् ।यदीशानाम् अग्रे द्रविणकणमोहान्धमनसां कृतं वीतव्रीडैर् निजगुणकथापातकम् अपि ४२.७ ॥१४६७॥यद् एते साधूनाम् उपरि विमुखाः सन्ति धनिनो न चैषावज्ञैषाम् अपि तु निजवित्तव्ययभयम् ।अतः खेदो नास्मिन्न् अपरम् अनुकम्पैव भवति स्वमांसत्रस्तेभ्यः क इव हरिणेभ्यः परिभवः ४२.८ ॥१४६८॥नो बद्धं शरदिन्दुधामधवलं पाणौ मुहुः कङ्कणं व्रीडामन्थरकोमलं नववधूवक्त्रं च नास्वादितम् ।नीतं नैव यशः सुरेन्द्रभवनं शस्त्रेण शास्त्रेण वा कालो जीर्णमठेषु धृष्टपिशुनैश् छात्रैः सह प्रेरितः ४२.९ ॥१४६९॥वयम् अकुशलाः कर्णोपान्ते निवेशयितुं मुखं कृतकचरितैर् भर्तुश् चेतो न वञ्चयितुं क्षमाः ।प्रियम् अपि वचो मिथ्या वक्तुं जडैर् न च शिक्षितं क इव हि गुणो यो ऽस्मान् कुर्यान् नरेश्वरवल्लभान् ४२.१० ॥१४७०॥खलोल्लापाः सोढाः कथम् अपि पराराधनपरैर् निगृह्यान्तर् दुःखं हसितम् अपि शून्येन मनसा ।कृतो वित्तस्तम्भप्रतिहतधियाम् अञ्जलिर् अपि त्वम् आशे मोघाशे किम् अपरम् अतो नर्तयसि माम् ४२.११ ॥१४७१॥जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया वचो वैदेहीति प्रतिदिशम् उदश्रु प्रलपितम् ।कृता लङ्गाभर्तुर् वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्व् अधिगता ४२.१२ ॥१४७२॥सृजति तावद् अशेषगुणालयं पुरुषरत्नम् अलंकरणं भुवः ।तदनु तत् क्षणभङ्गि करोति चेद् अहह कष्टम् अपण्डितता विधेः ४२.१३ ॥१४७३॥सत्पुरुषपक्षपातिनि भगवति भवितव्यते नमस् तुभ्यम् ।या त्वं स्वयम् अकृतज्ञं जडम् अकुलीनं न संस्पृशति ४२.१४ ॥१४७४॥दाता बलिः प्रार्थयिता च विष्णुर् दानं मही वाजिमखस्य कालः ।नमो ऽस्तु तस्यै भवितव्यतायै यस्याः फलं बन्धनम् एव जातम् ४२.१५ ॥१४७५॥प्रिया दुहितरो धातुर् विपदः प्रतिभान्ति नः ।गुणवत्यः कुलीनेभ्यो दीयन्ते कथम् अन्यथा ४२.१६ ॥१४७६॥भद्रे वाणि विधेहि तावद् अमलां वर्णानुपूर्वीं मुखे चेतः स्वास्थ्यम् उपेहि गच्छ गुरुते यत्र स्थिता मानिनः ।लज्जे तिष्ठ पराङ्मुखी क्षणम् इतस् तृष्णु पुरः स्थीयतां पापो यावद् अहं ब्रवीमि धनिने देहीति दीनं वचः ४२.१७ ॥१४७७॥प्रियां हित्वा बालाम् अभिनवविसालव्यसनिनीम् अधीते भिक्षाभुग् भुवम् अधिशयानश् चिरतरम् ।अपि ज्ञात्वा शास्त्रं कटकम् अटतो जीर्यति वपुस् ततो रे पाण्डित्यं यद् इह न सुखं नो ऽपि च तपः ४२.१८ ॥१४७८॥विद्यालते तपस्विनि विकसितसितकुसुमवाक्यसम्पन्ने ।विरम वरं भ्रमरहिते न फलसि भुक्तिं च मुक्तिं च ४२.१९ ॥१४७९॥उन्मादगद्गदगिरो मदविह्वलाक्ष्या भ्रश्यन्निजप्रकृतयः कृतम् अस्मरन्तः ।ऐश्वर्यसीधुरसपानविघूर्णमानाः के नाम न प्रतिपदं पुरुषाः स्खलन्ति ४२.२० ॥१४८०॥स्वल्पद्रविणकणा वयम् अमी च गुणिनो दरिद्रति सहस्रम् ।दानव्यसनलवो हृदि धिग् धातः किं विडम्बयसि ४२.२१ ॥१४८१॥विद्यावान् अपि जन्मवान् अपि तथा युक्तो ऽपि चान्यैर् गुणैर् यन् नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता ।एतावत् तु हृदि व्यथां वितनुते यत् प्राक्तनैः कर्मभिर् लक्ष्मीं प्राप्य जडो ऽप्य् असाधुर् अपि च स्वां योग्यतां मन्यते ४२.२२ ॥१४८२॥ईश्वरगृहम् इदम् अत्र हि विषं च वृषभश् च भस्म चाद्रियते ।यस् तु न विषं न वृषभो न भस्म तस्यात्र का गणना ४२.२३ ॥१४८३॥कामघ्नाद् विषसदृशो भूत्यवलिप्ताद् भुजङ्गसङ्गरुचेः ।को भृङ्गीव न शुष्यति वाञ्छ न फलम् ईश्वराद् अगुणात् ४२.२४ ॥१४८४॥अपि वज्रेण संघर्षम् अपि पद्भ्यां पराभवम् ।सहन्ते गुणलोभेन त एव मणयो यदि ४२.२५ ॥१४८५॥लभन्ते कथम् उत्थानम् अस्थानं गुणिनो गताः ।दृष्टः किं क्वापि केनापि कर्दमात् कन्दुकोद्गमः ४२.२६ ॥१४८६॥हृत्पट्टके यद् यद् अहं लिखामि तत् तद् विधिर् लुम्पति सावधानः ।भूयोविलोपान् मसृणे त्व् इदानीं रेखापि नोदेति मनोरथस्य ४२.२७ ॥१४८७॥कुर्यान् न किं धनवतः स्वजनस्य वार्ता किं तत्क्रिया नयनयोर् न धृतिं विदध्यात् ।माम् एष याचितुम् उपागत इत्य् असत्य- सम्भावनाविकलम् अस्य न चेन् मनः स्यात् ४२.२८ ॥१४८८॥अस्मादृशां नूनम् अपुण्यभाजां न स्वोपयोगी न परोपयोगी ।सन्न् अप्य् असद्रूपतयैव वेद्यो दारिद्र्यमुद्रो गुणरत्नकोषः ४२.२९ ॥१४८९॥तावत् कथं कथय यासि गृहं परस्य तत्रापि चाटुशतम् आरभसे कथं च ।स्वं वर्णयस्य् अथ कथं कुलपुत्र मानी हा मुग्ध दग्धजठरेण विडम्बितो ऽसि ४२.३० ॥१४९०॥सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः ।सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये ४२.३१ ॥१४९१॥सुबन्धोःउचितकर्म तनोति न सम्पदाम् इतरद् अप्य् असद् एव विवेकिनाम् ।इति निरस्तसमस्तसुखान्वयः कथम् अतो न विषीदतु पण्डितः ४२.३२ ॥१४९२॥छित्वा पाशम् अपास्य कूटरचनां भङ्क्त्वा बलाद् वागुरां पर्यस्ताग्निशिखाकलापजटिलान् निःसृत्य दूरं वनात् ।व्याधानां शरगोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः कूपान्तःपतितः करोति विगुणे किं वा विधौ पौरुषम् ४२.३३ ॥१४९३॥कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्नसुलभेन ।विदधति धनिषु न दैन्त्यं ते किल पशवो वयं सुधियः ४२.३४ ॥१४९४॥वसुमति वसुमति बन्धौ धनलवलोभेन ये निषीदन्ति ।तांश् च तृणान् इव दधती कलयसि वद गौरवं कस्य ४२.३५ ॥१४९५॥कपोलेभ्यो बद्धः कथम् अखिलविश्वप्रभुर् असाव् अनार्यैर् अस्माभिः परम् इयम् अपूर्वैव रचना ।यद् इन्दोः पीयूषद्रवमयमयूखोत्करकिरः कलङ्को रत्नं तु प्रतिफणम् अनर्घं विषभृताम् ४२.३६ ॥१४९६॥वित्तोकस्यसर्वः प्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति ।उत्तीर्णस् तु ततो धनार्थम् अपरां भूयो विशत्य् आपदं प्राणानां च धनस्य चायम् अधियाम् अन्योन्यहेतुः पणः ४२.३७ ॥१४९७॥नो मेघायितम् अर्थवारिविरहक्लिष्टे ऽर्थशस्ये मया नोद्वृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् ।नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं मातुः केवलम् एव यौवनवनच्छेदे कुठारायितम् ४२.३८ ॥१४९८॥भर्तृहरेःये कारुण्यपरिग्रहाद् अपणितस्वार्थाः परार्थान् प्रति प्राणैर् अप्य् उपकुर्वते व्यसनिनस् ते साधवो दूरतः ।विद्वेषानुगमाद् अनर्जितकृपो रूक्षो जनो वर्तते चक्षुः संहर बाष्पवेगम् अधुना कस्याग्रतो रुद्यते ४२.३९ ॥१४९९॥मातृगुप्तस्यनरेन्द्रैः श्रीचन्द्रप्रभृतिभिर् अतीतं सहृदयैर् अतिक्रान्तं तैस् तैः कविभिर् अभिनन्दादिभिर् अपि ।इदानीं वाक् तूष्णीं भव किम् उ मुधैव प्रलपसि क्व पूजासम्भारः क्व च तव गुणोल्लासरभसः ४२.४० ॥१५००॥वाक्कूटस्यसुधासूतिः क्षीणो गणपतिर् असाव् एकदशनः पदभ्रष्टा देवी सरिद् अपि सुराणां भगवती ।द्विजिह्वाद् अन्येषां क्व ननु गुणिनाम् ईश्वरजुषां त्वया दृष्टो भोगः किम् इह विफलं क्लिश्यसि मनः ४२.४१ ॥१५०१॥गच्छ त्रपे विरम धैर्य धियः किम् अत्र मिथ्या विडम्बयसि किं पुरुषाभिमान ।प्रध्वस्तसर्वगुणम् अर्जितदोषसैन्यं दैन्यं यद् आदिशति तद् वयम् आचरामः ४२.४२ ॥१५०२॥निरानन्दा दारा व्यसनविधुरो बान्धवजनो जनीभूतं मित्रं धनविरहदीनः परिजनः ।असंतुष्टं चेतः कुलिशकठिनं जीवितम् इदं विधिर् वामारम्भस् तद् अपि च मनो वाञ्छति सुखम् ४२.४३ ॥१५०३॥दुर्वासो मलिनाङ्गयष्टिर् अबला दृष्टो जनः स्वे गृहे नीचात् कर्णकटु श्रुतं धनम् अदाद् आरुढगर्वं वचः ।अन्यो मन्दिरम् आगतः परिचयाद् अप्राप्तकामो गतः खिन्नाः स्मः स्वपरोपकारकरणक्लीबां वहन्तस् तनुम् ४२.४४ ॥१५०४॥क्व पङ्कः क्वाम्भोजं क्वणदलिकुलालापमधुरं शिरो रौद्रं क्वाहेः स्फुरदुरुमयूखः क्व च मणिः ।कलिः क्वायं पापः क्व च गुणनिधेर् जन्म भवतो विधिः सत्यं सत्यं सदृशविनियोगेष्व् अकुशलः ४२.४५ ॥१५०५॥नमस्यः प्रज्ञावान् परिकलितलोकत्रयगतिः सुखी मूर्खः सो ऽपि स्वगतमहिमाद्वैतहृदयः ।अयं मा भूत् कश्चित् प्रतनुमतिकिर्मीरितमनः- समाधानोन्मीलत्सदसदितिसंदेहविधुरः ४२.४६ ॥१५०६॥वल्लणस्यअस्माभिश् चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं भ्राम्यद्भिर् न स को ऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः ।यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा संजल्प्य क्षणम् एकम् अर्धम् अथवा निःश्वस्य विश्राम्यते ४२.४७ ॥१५०७॥इतो दावज्वालः स्थलभुव इतो जालजटिला इतो व्याधो धावत्य् अयम् अनुपदं वक्रितधनुः ।इतो ऽप्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृतमुखः क्व यायात् किं कुर्यान् मृगशिशुर् अयं दैववशगः ४२.४८ ॥१५०८॥केनेयं श्रीर् व्यसनरुचिना शोण विश्राणिता ते जाने जानुद्वयसजल एवाभिरामस् त्वम् आसीः ।वेगभ्रश्यत्तटरुहवनो दुस्तरावर्तवीचिः कस्येदानीं कलुषसलिलः कूलभेदी प्रियो ऽसि ४२.४९ ॥१५०९॥शतानन्दस्यसिन्धोर् अर्णः स्थगितगगनाभोगपातालकुक्षः पोतोपाया इह हि बहवो लङ्घनाय क्षमन्ते ।आहो रिक्तः कथम् अपि भवेद् एष दैवात् तदानीं को नाम स्याद् अतटकुहरालोकनैर् यस्य कल्पः ४२.५० ॥१५१०॥केशटस्यदैवे समर्प्य चिरसंचितमोहभारं स्वस्थाः सुखं वसत किं परयाचनाभिः ।मेरुं प्रदक्षिणयतो ऽपि दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिद् अष्टौ ४२.५१ ॥१५११॥अर्थो न सम्भृतः कश्चिन् न विद्या काचिद् अर्जिता ।न तपः संचितं किंचिद् गतं च सकलं वयः ४२.५२ ॥१५१२॥आजन्मानुगते ऽप्य् अस्मिन् नाले विमुखम् अम्बुजम् ।प्रायेण गुणपूर्णेषु रीतिर् लक्ष्मीवताम् इयम् ४२.५३ ॥१५१३॥सरोकस्यदृष्टा साथ कुपीटयोनिमहसा लेलिह्यमानाकृतिः पुष्पोन्मेषवती च किंशुकलता नीतावनीं वायुना ।रम्भे नोपरि पद्मयोर् बिसलते नाग्रस्फुरत्पल्लवे सौवर्णौ न घटौ न नूतनघनासन्नः शशी पार्वणः ४२.५४ ॥१५१४॥शशीकरस्यतोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तरः स्नानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता ।दुग्धा सेयम् अचेतनेन जरती दुग्धस्यता गर्दभी कष्टं यत् खलु दीर्घया धनतृषा नीचो जनः सेवितः ४२.५५ ॥१५१५॥जोयीकस्यरत्नाकरस् तव पिता स्थितिर् अम्बुजेषु भ्राता सुधारसमयः पतिर् आद्यदेवः ।केनापरेण कमले वद शिशिक्षितासि शारङ्गशृङ्गकुटिलानि विचेष्टितानि ४२.५६ ॥१५१६॥अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये ।नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च ४२.५७ ॥१५१७॥इति निर्वेदव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP