संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
दीनव्रज्या

सुभाषितरत्नकोशः - दीनव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


प्रातर् बाष्पाम्बुबिन्दुव्यतिकरविगलत्क्लिन्नसृक्कः कथंचित् किंचित् संकुब्जजङ्घाजनितजडजवो जीर्णजानुर् जरार्तः ।
मुष्ट्यावष्टभ्य यष्टिं कटिपुटविचटत्कर्पटः प्लुष्टकन्थः कुन्थन्न् उत्थाय पान्थः पथि परुषमरुन्मूर्छ्यमानः प्रयाति ३९.१ ॥१३०४॥

पुण्याग्नौ पूर्णवाञ्छः प्रथमम् अगणितप्लोषदोषः प्रदोषे पान्थस् तप्त्वा प्रसुप्तस् तदनु तततृणे धामनि ग्रामदेव्याः ।
उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रो वाते वाति प्रकामं हिमकणिनि कणन् कोणतः कोणम् एति ३९.२ ॥१३०५॥
बाणस्यैतौ

पोतान् एतान् अपि गृहवति ग्रीष्ममासावसानं यावन् निर्वाहयति भवती येन वा केनचिद् वा ।
पश्चाद् अम्भोधरजलपरीपातम् आसाद्य तुम्बी कूष्माण्डी च प्रभवति तदा भूभुजः के वयं के ३९.३ ॥१३०६॥
धरणीधरस्य

क्षुत्क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवो लिप्ता जर्जरकर्करी जतुलवैर् नो मां तथा बाधते ।
गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ३९.४ ॥१३०७॥

साक्रन्दाः शिशवः सपत्रपुटका वप्तुः पुरोवर्तिनः प्रच्छन्ने च वधूर् विभागकुशला मध्ये स्थिता गेहिनी ।
कट्याच्छादनबन्धकेन कथम् अप्य् आसादितेनान्धसा सिन्दूरारुणमण्डले सवितरि प्राणाहुतिर् दीयते ३९.५ ॥१३०८॥

एते दरिद्रशिशवस् तनुजीर्णकन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः ।
सूर्यस्फुरत्करकरम्बितभित्तिदेश- लाभाय शीतसमये कलिम् आचरन्ति ३९.६ ॥१३०९॥

तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनी तत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम् ।
एतत् सोढवतो ऽपि दुःस्थगृहिणः किं ब्रूमहे दुर्दशाम् अद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत् कुन्थति ३९.७ ॥१३१०॥

अद्याशनं शिशुजनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती ।
इत्य् अश्रुपातमलिनीकृतगण्डदेशा नेच्छेद् दरिद्रगृहिणी रजनीविरामम् ३९.८ ॥१३११॥

सक्तूञ् शोचति सम्प्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान् प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति ।
दत्त्वा मूर्धनि शीर्णशूर्पशकलं जीर्णे गृहे व्याकुला किं तद् यन् न करोति दुःस्थगृहिणी देवे भृशं वर्षति ३९.९ ॥१३१२॥
योगेश्वरस्य

जरदम्बरसंवरणग्रन्थिविधौ ग्रन्थकार एको ऽहम् ।
परिमितकदन्नवण्टनविद्यापारंगता गृहिणी ३९.१० ॥१३१३॥
वीरस्य

मा रोदीश् चिरम् एहि वत्स विफलं दृष्ट्वाद्य पुत्रान् इमान् आयातो भवतो ऽपि दास्यति पिता ग्रैवेयकं वाससी ।
श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निःकिंचनो निश्वस्याश्रुजलफुतानतमुखः पान्थः पुनः प्रोषितः ३९.११ ॥१३१४॥

कूष्माण्डीविटपः फलत्य् अविरतं सिक्तः सुवर्णाम्बुना भूयोभिर् गदितं हितैषिभिर् इतीवास्माभिर् अङ्गीकृतम् ।
तत् संयाच्य कुतश्चिद् ईश्वरगृहाद् आनीयमानं शनैर् अध्वन्य् एव हि बिन्दुभिर् विगलितं श्राणे शरावोदरे ३९.१२ ॥१३१५॥

मातर् धर्मरते कृपां कुरु मयि श्रान्ते च वैदेशिके द्वारालिन्दककोणकेषु निभृतः स्थित्वा क्षिपामि क्षपाम् ।
इत्य् एवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितः स्कन्धे न्यस्तपलालमुष्टिविभवः पान्थः शनैर् गच्छति ३९.१३ ॥१३१६॥

लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः पुच्छाग्रे गृहिणी स्वरेषु शिशवो लग्ना वधूः कम्बले ।
एकः शीर्णजरद्गवो विधिवशात् सर्वस्वभूतो गृहे सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ३९.१४ ॥१३१७॥

शीतवातसमुद्भिन्न- पुलकाङ्कुरशालिनी ।
ममाम्बरविहीनस्य त्वग् एव पटिकायते ३९.१५ ॥१३१८॥

सद्यो विभिद्यते नूनं दरिद्रतनुपञ्जरम् ।
यदि न स्यान् मनोराज्य- रज्जुभिर् दृढसंयतम् ३९.१६ ॥१३१९॥

प्रायो दरिद्रशिशवः परमन्दिराणां द्वारेषु दत्तकरपल्लवलीनदेहाः ।
लज्जानिगूढवचसो बत भोक्तुकामा भोक्तारम् अर्धनयनेन विलोकयन्ति ३९.१७ ॥१३२०॥

अध्वश्रमाय चरणौ विरहाय दारा अभ्यर्थनाय वचनं च वपुर् जरायै ।
एतानि मे विदधतस् तव सर्वदैव धातस् त्रपा यदि न किं न परिश्रमो ऽपि ३९.१८ ॥१३२१॥

वर्धनमुखासिकायाम् उदरपिशाचः किम् इच्छकाम् इच्छन् ।
पर्याकुलयति गृहिणीम् अकिंचनः कृपणसंवासः ३९.१९ ॥१३२२॥

वरं मृतो न तु क्षुद्रस् तथापि महद् अन्तरम् ।
एकस्य बन्धुर् नादत्ते नामान्यस्याखिलो जनः ३९.२० ॥१३२३॥

कृपणस्यास्तु दारिद्र्यं कार्पण्यावृतिकारकम् ।
विभवस् तस्य तद्दोष- घोषणापटुडिण्डिमः ३९.२१ ॥१३२४॥
व्यासस्य

जीवतापि शवेनापि कृपणेन न दीयते ।
मांसं वर्धयतानेन काकस्योपकृतिः कृता ३९.२२ ॥१३२५॥
कविराजस्य

श्रीफलं यन् न तद् दीर्घम् इति तावद् व्यवस्थितम् ।
तत्रैकान्तधृतिर् यस्य मन्यते मुग्ध एव स ३९.२३ ॥१३२६॥
रिसूकस्य

दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः ३९.२४ ॥१३२७॥
गोभट्टस्य

पथिक हे विजहीहि वृथार्थितां न खलु वेत्सि नवस् त्वम् इहागतः ।
इदम् अहिभ्रमितं पचमन्दिरं बलिभुजो ऽपि न यान्ति यदन्तिकम् ३९.२५ ॥१३२८॥

रवेर् अस्तमये येन निद्रा नेत्रेषु निर्मिता ।
तेन किं न कृतो मृत्युर् मर्त्यानां विभवक्षये ३९.२६ ॥१३२९॥

येनैवाम्बरखण्डेन दिवा संचरते रविः ।
तेनैव निशि शीतांशुर् अहो दौर्गत्यम् एतयोः ३९.२७ ॥१३३०॥

मलीमसेन देहेन प्रतिगेहम् उपस्थिताः ।
आत्मनैवात्मकथका वयं वायसवृत्तयः ३९.२८ ॥१३३१॥

भूयाद् अतो बहुव्रीहि- शासनाशा मुधैव मे ।
पूर्वापरापरामर्शाद् विमूढस्येव मे मतिः ३९.२९ ॥१३३२॥

इति दीनव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP