संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
वसन्तव्रज्या

सुभाषितरत्नकोशः - वसन्तव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी स्तोकोन्मुक्ततुषारम् अम्बरमणेर् ईषत्प्रगल्भं महः ।
अप्य् एते सहकारसौरभमुचो वाचालिताः कोकिलैर् आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ८.१ ॥१५२॥
संघश्रियः

नैवैके वयम् एव कोकिलवधूकण्ठोच्चरत्पञ्चम- स्थानोद्बोधितपञ्चमार्गणगुणास्फालेन रोमाञ्चिताः ।
पश्यैते तरवो ऽपि सुन्दरि जरत्पत्रव्ययानन्तरोद्- भिन्नपाटलकोटिसम्पुटदलप्रादुर्भवत्कुड्मलाः ८.२ ॥१५३॥
विनयदेवस्य

मलयमहीधरपवनः कलकण्ठकलध्वनिर् निकुञ्जलताः ।
उत्कलिका उत्कलिकाश् चेतसि जनयन्ति लोकस्य ८.३ ॥१५४॥

कान्तेन प्रहितो नवः प्रियसखीवर्गेण बद्धस्पृहश् चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना ।
आमृष्टो मुहुर् ईक्षितो मुहुर् अभिघ्रातो मुहुर् लोठितः प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः ८.४ ॥१५५॥
वाक्कुटस्य

द्विस् त्रिः कोकिलया रुतं त्रिचतुरैश् चूताङ्कुरैर् उद्गतं कोषान् बोभ्रति किंशुका मधुकरश्रेणीजुषः पञ्चषान् ।
क्वापि क्वापि मदाकुलाकुलतया कान्तापराधग्रह- ग्रन्थिच्छेदसमुद्यतं च हृदयं दोलायते सुभ्रुवाम् ८.५ ॥१५६॥
नीलस्य

जम्बूनां कुसुमोदरेष्व् अतिरसाद् आबद्धपानोत्सवाः कीराः पक्वफलाशया मधुकरीश् चुम्बन्ति मुञ्चन्ति च ।
एतेषाम् अपि पश्य किंशुकतरोः पत्रैर् अभिन्नत्विषां पुष्पभ्रान्तिभिर् आपतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ८.६ ॥१५७॥
राजशेखरस्य

दृश्यन्ते मधुमत्तकोकिलवधूनिर्धूतचूताङ्कुर- प्राग्भारप्रसरत्परागसिकतादुर्गास् तटीभूमयः ।
याः कृच्छ्राद् अभिलङ्घ्य लुब्धकभयात् तैर् एव रेणूत्करैर् धारावाहिभिर् अस्ति लुप्तपदवीनिःशङ्कम् एणीकुलम् ८.७ ॥१५८॥
मुरारेः

अशिथिलपरिस्पन्दः कुन्दे तथैव मधुव्रतो नयनसुहृदो वृक्षाश् चैते न कुड्मलशालिनः ।
दलति कलिका चौती नास्मिंस् तथा मृगचक्षुषाम् अथ च हृदये मानग्रन्थिः स्वयं शिथिलायते ८.८ ॥१५९॥

कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं माम् उल्लङ्घ्य व्रजतु पथिकः कापि यद्य् अस्ति शक्तिः ।
इत्य् आशोकी जगति सकले वल्लरी चीरिकेव प्राप्तारम्भे कुसुमसमये कालदेवेन दत्ता ८.९ ॥१६०॥

मन्दं दक्षिणम् आह्वयन्ति पवनं पुंस्कोकिलव्याहृतैः संस्कुर्वन्ति वनस्थलीः किसलयोत्तंसैर् निषण्णालिभिः ।
चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नया वर्धन्ते च विवर्धयन्ति च मुहुस् ते ऽमी स्मरं वासराः ८.१० ॥१६१॥

हृद्यस्निग्धैः परभृतरुतैर् मुक्तदीर्घप्रवासः प्रत्यावृत्तो मधुर् इति वदन् दक्षिणो गन्धवाहः ।
शिञ्जल्लोलभ्रमरवलयः काननालीवधूनां सद्यः कुन्दस्मितबृहतिकाः पूर्णपात्रीकरोति ८.११ ॥१६२॥

लोलैः कोकिलमण्डलैर् मधुलिहां चंचूर्यमाणैर् गणैर् नीरन्ध्रैर् गृहवाटिकापरिसरेष्व् अङ्गारितैः किंशुकैः ।
प्रारब्धे तिमिरे वसन्तसमयक्षोणीपतेर् भ्राम्यतः प्रस्निग्धा परितो धृतेव कलिकादीपावलिश् चम्पकैः ८.१२ ॥१६३॥
मनोविनोदस्यैतौ

च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्व् अलसा द्रुमा मनसि च गिरं ग्रथ्नन्तीमे किरन्ति न कोकिलाः ।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जठरताम् आलम्बन्ते क्लमोदयदायिनीम् ८.१३ ॥१६४॥

साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर् मौक्तिकैर् बाह्लीकीदशनव्रणारुणतलैः पत्रैर् अशोको ऽर्चितः ।
भृङ्गालङ्घितकोटि किंशुकम् इदं किंचिद् विवृन्तायते माञ्जिष्ठैर् मुकुलैश् च पाटलितरोर् अन्यैव काचिल् लिपिः ८.१४ ॥१६५॥

गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः ।
किं च त्रीणि जगनि जिष्णु दिवसैर् द्वित्रैर् मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेद् अभ्यासवश्यं धनुः ८.१५ ॥१६६॥
राजशेखरस्यैतौ

शीतास् तैर् इव भग्नशैशिरनिशाभागैर् अहः स्फायते गर्भं बिभ्रति किंशुका इव दिशां तापाय वह्न्यङ्कुरम् ।
किं च स्वाश्रयसम्भृतप्रथिमसु च्छायातपाङ्गेष्व् अयं लोकः स्तोकरसो ऽद्य न क्वचिद् अपि स्वच्छन्दम् आनन्दति ८.१६ ॥१६७॥
त्रिलोचनस्य

उद्भिन्नस्तबकावतंससुभगाः प्रेङ्खन्मरुन्नर्तिताः पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्डत्विषः ।
गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः प्रत्युज्जीवितमन्मथोत्सव इव क्रीडन्त्य् अमू भूरुहः ८.१७ ॥१६८॥

प्राग् एव जैत्रम् अस्त्रं सहकारलता स्मरस्य चापभृतः ।
किं पुनर् अनल्पनिपतितमधुकरविषकल्कलेपेन ८.१८ ॥१६९॥
शुभाङ्गस्य

स्वस्ति श्रीमलयाचलात् स्मरसखः श्रीमान् वसन्तानिलः क्रीडावेश्मसु कामिनः कुशलयत्य् एतच् च वक्तीतरत् ।
एषो ऽहं मुदितालिकोकिलकुलं कुर्वन् वनं प्राप्तवान् युष्माभिः प्रियकामिनीपरिगतैः स्थातव्यम् अस्माद् इति ८.१९ ॥१७०॥

एते नूतनचूतकोरकघनग्रासातिरेकीभवत्- कण्ठध्वानजुषो हरन्ति हृदयं मध्येवनं कोकिलाः ।
येषाम् अक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल- ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इमे ८.२० ॥१७१॥

किंशुककलिकान्तर्गतचन्द्रकलास्फर्धि केशरं भाति ।
रक्तनिचोलकपिहितं धनुर् इव जतुमुद्रितं वितनोः ८.२१ ॥१७२॥
वल्लणस्य

वाप्यो दन्तुरितोदराः कमलिनीपत्राङ्कुरग्रन्थिभिश् चूतानां कलिकामिलन्मधुलिहां कापि स्थितिर् वर्तते ।
दौर्भाग्योपनयाय साम्प्रतमयाम् अल्पो ऽपि मार्गश्रमः शिक्षाम् उल्ललितुं ददाति रजसां गन्त्रीपथे मारुतः ८.२२ ॥१७३॥

तेन्ततिवेल्य् सम्प्रवसताम् fओर् साम्प्रतमयाम् इन् च्.

अभिनन्दस्य

आरक्तैर् नवपल्लवैर् विटपिनो नेत्रोत्सवं तन्वते तान् धुन्वन्न् अयम् अभ्युपैति मधुरामोदो मरुद् दक्षिणः ।
तेनालिङ्गितमात्र एव विधिवत् प्रादुर्भवन् निर्भर- क्रीडाकूतकषायितेन मनसा लोको ऽयम् उन्माद्यते ८.२३ ॥१७४॥

काप्य् अन्या मुकुलाधिकारमिलिता लक्ष्मीर् अशोकद्रुमे माकन्दः समयोचितेन विधिना धत्ते ऽभिजातं वपुः ।
किं चाषाढगिरेर् अनङ्गविजयप्रस्तावनापण्डितः स्वैरं सर्पति बालचन्दनलतालीलासखो मारुतः ८.२४ ॥१७५॥

वह्निर् मन्ये हिमजलमिषात् संश्रितः किंशुकेषु श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः ।
संतापार्थं कथम् इतरथा पान्थसीमन्तिनीनां पुष्पव्याजाद् विसृजति शिखाश्रेणिम् उद्गाढशोणीम् ८.२५ ॥१७६॥
पौतायनेः

श्यामं
व्यामं

श्रोण्यां चित्रः कुरुबकगुणः कर्णयोर् मुग्धचूतं रक्ताशोकं प्रणयि कुचयोर् माधवी मूर्धजेषु ।
सर्वाङ्गीणो बकुलरजसा पिञ्जरेणोपरागः स्त्रैणो यूनां भवतु रतये वेशसर्वाभिसारः ८.२६ ॥१७७॥
सावर्णेः

मुघाताम्रैर् नवकिशलयैः सम्भृतोदारशोभं प्रादुर्भूतभ्रमरसरणीयौवनोद्भेदचिह्नम् ।
सीमन्तिन्यः कुसुमधनुषा बद्धसख्यस्य मासः स्निग्धास्मेरैर् मुखम् अधिगुणं दृष्टिपातैः पिबन्ति ८.२७ ॥१७८॥
वागुरस्य

शिकीमुखैर् अद्य मनोज्ञपक्षैर् विषोपलेपाद् इव कज्जलाभैः ।
नितान्तपूर्णा मुचकुन्दकोषा विभान्ति तूणा इव मन्मथस्य ८.२८ ॥१७९॥
शुभाङ्गस्य

स्नेहं स्रवन्ति तरवः पञ्चापि क्षिपति मार्गणान् मदनः ।
परिमुक्तकण्ठरोधः परपुष्टः क्षरति माधुर्यम् ८.२९ ॥१८०॥
श्रीधर्माकरस्य

संकुचिता इव पूर्वं दुर्वारतुषारजनितजडिमानः ।
सम्प्रत्य् उपरमति हिमे क्रमशो दिवसाः प्रसारजुषः ८.३० ॥१८१॥
श्रीधरणीधरस्य

दुःश्लिष्टदुर्लक्ष्यपलाशसंधीन्य् आपाटलाग्राणि हरिन्ति मूले ।
कुशेशयानां शुकशावभांसि प्रादुर्बभूवुर् नवकुड्मलानि ८.३१ ॥१८२॥

उपनयति कपोले लोलकर्णप्रवाल- क्षणमुकुलनिवेशान्दोलनव्यापृतानाम् ।
परिमलितहरिद्रान् सम्प्रति द्राविडीनां नवनखपदतिक्तान् आतपः स्वेदबिन्दून् ८.३२ ॥१८३॥
योगेश्वरस्य

सद्यस् तप्तो भ्रमति रजनीं वासरः खण्डयित्वा क्षीणक्षीणा तदनु भजते सापि सम्यक्प्रसादम् ।
एको लोके कथयति नरस्येष्टजाते निसर्गं नार्याः पुंसि स्थितिम् अनुगुणां शंसति स्पष्टम् अन्या ८.३३ ॥१८४॥

इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः स्थितीनाम् आबन्धः स्फुटति शुकचञ्चूपुटनिभः ।
ततः स्त्रीणां हन्त क्षमम् अधरकान्तिं कलयितुं समन्तान् निर्याति स्फुटसुभगरागं किसलयम् ८.३४ ॥१८५॥

उद्गच्छत्य् अलिझंकृतिः स्मरधनुर् ज्यामञ्जुगुञ्जारवैर् निर्याता विषलिप्तभल्लिविषमाः कङ्केल्लिफुल्लच्छटाः ।
रे सम्प्रत्य् अपवित्रम् अत्र पथिकाः सारम्भम् उज्जृम्भते चूतो दूत इवान्तकस्य कलिकाजालस्फुरत्पल्लवः ८.३५ ॥१८६॥

मिथःक्रीडालोलभ्रमरभरभङ्गाङ्कुररस- प्रसेकप्रोन्मीलत्परिमलसमालब्धपवनः ।
इतो ऽस्त्य् एष श्रीमान् अविरलम् इदानीं मुकुलितः प्रयच्छन्न् उन्मादान् अहह सहकारद्रुमयुवा ८.३६ ॥१८७॥

अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे ।
अङ्कुरितः पल्लवितः कोरकितो विकसितश् च हृदि मदनः ८.३७ ॥१८८॥

उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी जातं धूसरम् एव किंशुकतरोर् आश्यामलं जालकम् ।
आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः स्त्रीणां पीनघनस्तनेषु कणवान् स्वेदः करोत्य् आस्पदम् ८.३८ ॥१८९॥
भवभूतेः

सपदि सखीभिर् निभृतं विरहवतीस् त्रातुम् अत्र भज्यन्ते ।
सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे ८.३९ ॥१९०॥
राजशेखरस्य

इति वसन्तव्रज्या

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP