अन्तर्दशाफलम् ।
स्वी स्वी दशाया दिवसादिनिघ्ना स्वांतर्दशाया दिवसैः क्रमेण ।
षष्टिर्विभक्ता घटिकास्तथा च स्युर्मङ्गलाद्याः क्रमशो नितान्तम् ॥१॥
मित्रपुत्रकलत्राङ्गव्यापारसुखदायिनी । मङ्गलात्यर्थदा जाता मङ्गला मङ्गलप्रदा ॥२॥
कलहः स्वजनैः सार्द्ध मानसोद्वेगमेव हि । विविधार्तिप्रदा नित्यं पिंगला मङ्गलां गता ॥३॥
गजाश्वगोधनप्राप्तिः सुतमित्रसुखं महत् । विलासो विविधः पुंसां धन्या स्यान्मङ्गला गता ॥४॥
स्त्रीमित्रकलहो नित्यं प्रवासो धननाशनम् । नरेन्द्रैः सह सांगत्यं भ्रामरी मङ्गलां गता ॥५॥
धनधान्यसुतस्त्रीभिः प्रीतिः स्यात्स्वजनः सह । प्रमोदः सुरभिज्ञो वा भद्रा चेन्मङ्गलां गता ॥६॥
धनकीर्तिसुतोद्वेगस्त्रीमित्रपशुपीडनम् । भूपतेर्हानिदा नित्यमुल्का स्यान्मङ्गलां गता ॥७॥
भवेत्पुत्रधनस्त्रीभिर्विलासो विविधं सुखम् । बन्धुमित्रसमं योगः सिद्धा चेन्मङ्गलां गता ॥८॥
जलाग्निचोरभूषालपीडनं कलिवर्द्धनम् । मृत्युतुल्यं तथा ज्ञेयं सङ्कटा मंगलां गता ॥९॥
पिंगलान्तरफलम् ।
पिङ्गला स्वदशां प्राप्ता रुक्छोकव्यसनार्तिदा । मानसोद्वेगसंतापक्लेशभ्रमणदा मता ॥१०॥
धन्या धन्यार्थदात्री च विलाससुतकामदा । पिङ्गलान्तरगतराण्ये रमणी सुखदा नृणाम् ॥११॥
देशत्यागो गृहग्रामपुरलोकधनक्षतिः । कलहः स्वजनैः सार्द्ध भ्रामरी पिंगलां गता ॥१२॥
भद्रा भद्रकरी प्रोक्ता पिङ्गलान्तर्गता यदा । स्थानान्तरात्पुत्रकीर्तिर्व्यापारे धनलाभता ॥१३॥
उल्कादशा यदा पुंसां पिङ्गलामध्यतो भवेत् । विग्रहो बन्धुभिः सार्द्ध राजचोरजनार्दनम् ॥१४॥
सिद्धिदा मंत्रयन्त्राणां सिद्धा धान्यधनप्रदा । पिङ्गला मध्यमा पुंसां कासश्वासप्रमेहदा ॥१५॥
पिङ्गलान्तर्यदा जाता सङ्कटा धनहानिदा । दुष्टव्याधिविरोधित्वं शत्रुराजभयं तथा ॥१६॥
मङ्गला विविधव्याधिशोकमोहभयार्तिदा । पिङ्गलान्तर्गता पुंसां माससिद्धिकरी तथा ॥१७॥
धन्या स्वीयदशा प्राप्ता भूग्रामधनधान्यदा । नृपस्वजनस्त्री पुत्रसुखं स्याद्विविधं नृणाम् ॥१८॥
धन्यान्तर्भ्रामरी चेत्स्याद्भमणक्लेशहानिदा । अन्यस्थानाश्रयाल्लाभः स्वजनैश्च विरोधता ॥१९॥
भद्रा सौभाग्यजननी ग्रहामित्रसुखप्रदा । धन्यान्तर्नृपमंत्रीशवाहनाम्बरभूमिदा ॥२०॥
विविधं कष्टमुत्पातमुल्का धन्यान्तरं गत । तत्र त्दृत्कटिशूलादिपीडनं धननाशनम् ॥२१॥
सिद्धा धन्यान्तरं याता सुतमित्रोत्सवप्रदा । नानाभोगप्रदा नित्यं ज्ञेया सा तु विचक्षणैः ॥२२॥
धन्यासूपगता यत्र सङ्कटा बन्धनप्रदा । नीतिव्यापारभूपाल मानसोत्साहदा मता ॥२३॥
पिङ्गला यदि धन्यान्तर्व्यवथा हस्तभूधनः । सोत्साहो नृपतेर्भातिः शिरोरुक्शूलभासुरः ॥२४॥
भ्रामर्यन्तरफलम् ।
भ्रामरी स्वदशामध्ये भ्रान्तिमोहविषार्त्तिदा । स्वस्थाने स्वजने शैलोवैरिदुष्टजलार्त्तिदा ॥२५॥
भद्रायां भ्रामरीमध्ये विदेशगमनं भवेत् । निजमित्रसमायोगो विद्यासम्मानभूपतिः ॥२६॥
उल्का तु भ्रामरीमध्ये ज्वरशूलासृगार्तिदा । धनपुत्रकलत्राङ्गपीडाहानिकरी मता ॥२७॥
सिद्धा सिद्धिप्रदा नित्यं भ्रामरीमध्यतो यदा । विवेकविद्यानिधिदा भयरोगार्तिनाशका ॥२८॥
संकटा मरणं क्लेशः शोकं मोहं गतं गदः । राजचोरजनख्यातिप्रदा भ्रामरिमध्यगा ॥२९॥
विलासो विविधं सौख्यं नृपसेवातिपुष्टता । भ्रामर्यन्तर्गता यत्र मंगला सहमङ्गला ॥३०॥
पिङ्गला भ्रामरीमध्ये गुदाङ्घिमुखरोगदा । गजाश्वमहिषव्याघ्रव्रणभीतिप्रदा भवेत् ॥३१॥
भ्रामर्युपगता धन्या धनवाहनभोगदा । नृपैः प्रीतिकरी भिल्लैर्वैरहानिकरी मता ॥३२॥
भद्रिकान्तरफलम् ।
भद्रा भद्रगता यत्र यशोभद्रायगोवती । व्यसनार्तिहरा पुण्यमार्गरोधकरी मता ॥३३॥
उल्का भद्रान्तरं याता विवादकृतरोगदा । स्थानभ्रंशो द्रव्यहानिकारिण्युद्वेगदायिनी ॥३४॥
सिद्धा तु भद्रान्तर्गता द्विजदेवार्चने रतिः । पुत्रमित्रकलत्राङ्गगृहग्रामजनोत्सवान् ॥३५॥
भद्रादशां समायाता सङ्कटा सङ्कटार्तिदा । मोहशोकादिव्यसनभ्रान्तिदेशगमार्त्तिदा ॥३६॥
सम्मानधनभूकीर्तिव्यापारे सुतसौख्यदा । मङ्गला भद्रिकामध्ये पितृवंशविवृद्धिदा ॥३७॥
यदा मध्ये तु भद्रायाः पिङ्गला पित्तरोगदा । कृषिवाणिज्यभूवृद्धाश्रयतो विविधप्रदा ॥३८॥
रुधिराग्नियमाद्भीतिर्भद्रायां भ्रामरी यदा । गृहक्षेत्ररिपुध्वंसो निजबन्धुजनैः सुखम् ॥३९॥
शत्रुभिः साहसं हानिर्द्रव्यस्य महती व्यथा । उल्कामध्ये यद्युल्का च राज्यभ्रंशात्तु भीतिदा ॥४०॥
सिद्धा तु स्वफलं त्यक्त्वा परस्य फलदायिनी । उल्कान्तरं समायाता विदेशगमनप्रदा ॥४१॥
उल्काया मध्यगा यत्र सङ्कटा मरणप्रदा । स्त्रीपुत्रभृत्याश्च जनहानिर्निजकुलक्षयः ॥४२॥
उल्काया मध्यगा यत्र मङ्गला मोहकारिणी । धनमित्रविवेकस्त्रीसुखदा मलहारिणी ॥४३॥
कुष्ठकम्बूशिरोरोगैः पीडितो धरणीतले । भ्रमते नात्र संदेहो यद्युल्कायां तु पिङ्गला ॥४४॥
नो लाभो न सुखं किंचिद्वातव्याधिकफादयः । धन्योल्कायां समायाता स्त्रीपुत्रस्वजनैः कलिः ॥४५॥
उद्विग्नमानसं मोहो भ्रमः पुंसोऽरिजं भयम् । नानाक्लेशसमायोगो भ्रामर्युक्लान्तरं गता ॥४६॥
उल्कामध्ये तु संप्राप्ता भद्रा भद्रार्थदायिनी । भूषणाम्बरहानिः स्यात्कुलमित्रजनात्सुखम् ॥४७॥
सिद्धान्तरफलम् ।
सिद्धा सिद्धार्थसंदात्री स्वजनैस्सह सौख्यदा । सिद्धायामथवैश्वर्य सुखमित्रसुखप्रदा ॥४८॥
बन्धनं नृपचौरेभ्यो धनहानिर्महद्भयम् । देशत्यागो भवेन्नूनं सिद्धायां सङ्कटा यदा ॥४९॥
विलासः स्वजनैः सौख्यं धनलब्धिर्नृपाद्भवेत् । मङ्गला सिद्धिदा सिद्धा सङ्गता विविधा यदा ॥५०॥
सिद्धायां पिङ्गलायां तु मानं क्रोधाग्निदाहका । वैरोदयं निजैः सार्द्ध परद्रव्याभिधारणम् ॥५१॥
पुंसां धन्या तु सिद्धायां प्राक्पुण्यनिचयो भवेत् । मनःप्रकल्पितं सर्व सिद्धिमायाति सर्वतः ॥५२॥
भ्रामरी यदि संप्राप्ता सिद्धायां यस्य जन्मनि । स्वस्थानाद्वयसनैस्त्यागान्ननु राजकुलाद्भयम् ॥५३॥
माङ्गल्यभोगजननी विद्यासौख्यगुणप्रदा । नराणां सिद्धिदा भद्रा सिद्धायामुपजायते ॥५४॥
उल्का सिद्धां समापन्ना धनधान्यविनाशिनी । क्लेशशोकव्यसनदा गुदरुङमोहकारिणी ॥५५॥
संकटान्तरफलम् ।
सङ्कटा स्वदशां प्राप्ता करोति मरणं ध्रुवम् । राजवंशाच्च हानिश्च देशत्यागो धनक्षयः ॥५६॥
शिरोरुग्विविधैरोगैर्व्याधिभिर्व्यसनैस्तथा । कलत्रजीवतिनरो मङ्गला संकटां गता ॥५७॥
अकस्माद्धनहानिः स्यात्पुत्रशोकोऽरिजं भयम् । पिंगला सङ्कटां याता वियोगः स्वजनैः सह ॥५८॥
गुल्मोदरकृता पीडा निजेषु प्रमुखं महत् । स्वदेशजनता कीर्तिर्धन्या तु सङ्कटां गता ॥५९॥
भ्रामरी सङ्कटा मध्ये भ्रमणं पृथिवीतले । देशग्रामपुरद्वारराज्यभ्रंशोऽरिजं भयम् ॥६०॥
विद्यालङ्कारवस्त्राणि विविधानि महद्यशः । विग्रहोऽन्यजनैः सार्द्ध भद्रा चेत्संकटां गता ॥६१॥
उल्कापातधनग्रामहारिणी मृत्युकारिणी । सङ्कटामन्तरेणैव पशुमात्रकुलार्दनः ॥६२॥
उत्साहो विविधः पुंसां निजपुत्रसुखोदयम् । मनःप्रसन्नतामेति सिद्धा चेत्सङ्कटांगता ॥६३॥