स्वपाककाले धरणीसुतस्य संध्यामवाप्नोति महाप्रतापम् ।
चौर्य हविस्तस्करपापकर्मा दोर्दण्डतेजोरनुसाहसश्च ॥१॥
नृपेश्वराः शस्त्रविषाग्निकर्मनेतारसूर्यानृपकूलधर्मैः ।
कान्तादिकार्यः सततार्थलाभं हेमाङ्गनाताम्रहिरण्यलाभदा ॥२॥
मतिं च पूर्वाकटुकैः कषायै रसैः कुमन्त्रैः कुजनेषु शक्तिः ।
स्वभ्रातृबन्धुस्वजनार्थनाशं दाहानुजः शोणितपित्ततेच्छया ॥३॥