संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - गुरुमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - गुरुमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


नृपप्रसादो धनधान्यपुत्रकलत्रमित्राप्तिसुरत्नलाभम् ।

नीरोगतां शत्रुजयं च सौख्यं गुरोर्दशावाञ्छितमातनोति ॥१॥

गुरुमध्ये गुरुफलम् ।

जीव्यमाने सुतो बुद्धिर्धनधर्मार्थगौरवम् ।

हेम्नश्चाम्बरलाभश्च वर्णेभ्यो ह्यतिसञ्चयम् ॥२॥

गुरुमध्ये शनिफलम् ।

वेश्यास्त्रीमद्यशून्यैश्च भूषितः सुखवर्जितः ।

विलुप्तधर्मवस्त्रोऽसौ सौरिर्गुर्वनुगो यदा ॥३॥

गुरुमध्ये बुधफलम् ।

स्वस्थो मित्रयुतो भोगी गुरुदेवाग्निभक्तिकः ।

सुकृताचरणे सक्तो जीवस्यान्तर्गते बुधे ॥४॥

गुरुमध्ये केतुफलम् ।

पुत्रबन्धुक्षतो योगो युक्तः स्वस्थानवर्जितः ।

परिभ्रमति सर्वत्र केतावन्तर्गते गुरोः ॥५॥

गुरुमध्ये शुक्रफलम् ।

कलहं शत्रुवैरं च वित्तं मानसचिन्तनम् ।

स्त्रीभ्यो विघातमाप्नोति जीवस्यान्तर्गते सिते ॥६॥

गुरुमध्ये सूर्यफलम् ।

शत्रूणां संक्षयं सौख्यं नृपपूजा च लभ्यते ।

प्रचण्डसाहसाङ्गैश्च जीवस्यान्तर्गते रवौ ॥७॥

गुरुमध्ये चन्द्रफलम् ।

बहुस्त्रीरिपुभोगश्च रिपुर्भोगविवर्जितः ।

नृपतुल्यो भवेन्नित्यं चन्द्रे गुर्वन्तरागते ॥८॥

गुरुमध्ये भौमफलम् ।

तीक्ष्णशौर्यरिपुं जित्वा धनं कीर्ति च मानुषे ।

सुखसौभाग्यमारोग्यं गुरोन्तर्गते कुजे ॥९॥

गुरुमध्ये राहुफलम् ।

बन्धूद्वेगं रुजश्चैव कलहं मरणाद्भयम् ।

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP