माणिक्यसुन्दरीप्राप्तिर्मध्वाज्यपयभोजनम् । श्वेतवस्त्रस्य संप्राप्तिरुपदशास्थो स्वयं भृगुः ॥१॥
राजशत्रुज्वरात्पीडा त्दृदि जंघाशिरोव्यथा । स्वल्पाशनश्च लाभश्च शुक्रस्योपदशां रविः ॥२॥
राज्याधिकप्रदो राज्ये लभते वस्त्रकाञ्चनम् । कन्याजन्मफलप्राप्तिः शुक्रस्योपदशां शशी ॥३॥
अलाभं ताडनं क्लेशो रक्तपित्तप्रपीडनम् । अन्न पानादिसौख्यं च शुक्रस्योपदशां कुजः ॥४॥
राजशत्रुभवा पीडा स्त्रीशत्रुकलहो भवेत् । भोजने कटुकक्षारं सितस्योपदशां तमः ॥५॥
वज्रमुक्तापदप्राप्तिर्गजाश्वादिगवां लभेत् । कर्पूरमिष्टमाहारं शुक्रस्योपदशां गुरुः ॥६॥
गवुष्ट्रखरलोहादि लभते स्वल्पलाभकृत । भोजनं तिलमाषाश्च शुक्रस्योपदशां शनिः ॥७॥
बुद्धिर्विज्ञानराज्यश्रीनिध्यधिकारलाभकृत् । भोजनं हवितक्राभ्यां शुक्रस्योपदशां बुधः ॥८॥
भ्रमणं देशग्रामाणां रोगमृत्युमहद्भयम् । लभते द्रव्यधान्यादिशुक्रस्योपदशां शिखी ॥९॥