बुधस्य संध्या विदघातु शश्वद्धनागमं मित्रकलत्रपुत्रैः ।
वाणिक्प्रयोगादिखिलेषु काव्यैर्महेन्द्रजालैः कुहकादिभिश्च ॥१॥
द्यूतप्रयोगाद्विपकर्ममन्त्रैर्दैवज्ञसिद्धान्तरसायकाद्यैः ।
भूहेमलोहस्वनृपात्मजेभ्यो लाभो धनानां सुखसौख्यवृद्धिः ॥२॥
नीचारितस्थोऽस्तमितस्य सौम्यस्त्रिधातुपीडा कुरुतेऽर्थनाशम् ।
कलत्रहानिर्नृपबन्धनाप्तिं परस्वदुःखं नृपपीडितश्च ॥३॥