संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - शनिमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - शनिमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


प्राप्नोति सौरस्य दशाविपाके दुर्गादिसीमागिरिरक्षणं च ।

सुधान्यजीर्णाम्बरभूमिलाभं संयुज्यतेऽश्चैर्महिषादिभिश्च ॥१॥

शनिमध्ये शनिफलम् ।

बन्धुदारसुतार्थानां नाशो वा पीडनं भवेत् ।

विदेशगमनं दुःखं सौरे स्वान्तरसंस्थिते ॥२॥

शनिमध्ये गुरुफलम् ।

देवद्विजार्चनं सौख्यं धनवृद्धिगुणोदयः ।

स्थानाप्तिः कामनाप्तिश्च शनेरन्तर्गते गुरौ ॥३॥

शनिमध्ये राहुफलम् ।

वातरोगः कुक्षिपीडा देशान्तरगतिर्भवेत् ।

बुधद्वेषः सुखाभावो राहौ शनिदशां गते ॥४॥

शनिमध्ये शुक्रफलम् ।

बन्धुमित्रकलत्रार्थसुखसम्पत्समागमः ।

सौहार्द नृपतेर्लक्ष्मीः शनेरन्तर्गते सिते ॥५॥

शनिमध्ये रविफलम् ।

दारासुतधनार्थानां भीतिर्जीवितसंक्षयः ।

शनेरन्तर्गते भानौ सर्वत्राशुभदर्शनम् ॥६॥

शनिमध्ये चन्द्रफलम् ।

स्त्रीलाभं विजयं सौख्यं महीषीगोधनादिकम् ।

लभते कन्यकाजन्म शनेरन्तर्गते विधौ ॥७॥

शनिमध्ये भौम फलम् ।

बन्धुस्त्रीसुतनाशो वा विद्युत्पातभवं भयम् ।

महाव्याधिररिष्टं वा शनेरन्तर्गते कुजे ॥८॥

शनिमध्ये बुधफलम् ।

सौख्यं सौभाग्यमारोग्यं यशःसन्तोषवृद्धयः ।

सुत्दृत्स्थानादिलाभः स्याच्छनेरन्तर्गते बुधे ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP