संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - भौममहादशाफलम्

मानसागरी - अध्याय ५ - भौममहादशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


भौममध्ये गुरुफलम् ।

पुण्यतीर्थाभिगमनं देवब्राह्मणपूजनम् ।

जीवे कुजान्तरे प्राप्ते नृपात्किञ्चिद्भयं भवेत् ॥१॥

भौममध्ये शनिफलम् ।

उपर्युपरि जायन्ते दुःखान्यपि सहस्त्रशः ।

जनक्षयं कुजस्यार्की या प्राप्तान्तर्दशा यदा ॥२॥

भौममध्ये बुधफलम् ।

रिपुचोरशस्त्राग्निभ्यो नाशं प्राप्नोति मानवः ।

महाक्रूरकृता पीडा कुजस्थानुगते बुधे ॥३॥

भौममध्ये केतुफलम् ।

मेघाशनिभयं घोरं शस्त्रग्निस्तस्करस्तथा ।

क्लेशमाप्नोति भौमस्य केतुरन्तर्गतो यदा ॥४॥

भौममध्ये शुक्रफलम् ।

शस्त्रकोपभयं व्याधिर्धनक्षयमुपद्रवम् ।

प्रवासगमनानि स्युः कुजस्यान्तर्गते सिते ॥५॥

भौममध्ये रविफलम्

प्रचण्डशासनं वाति नृपाद्धयजयान्वितम् ।

क्षुवतेऽनर्थयुक्तं च भौमस्यान्तर्गते रवौ ॥६॥

भौममध्ये चन्द्रफलम् ।

नानावित्तसुत्दृत्सौख्यमुक्तं मुक्तामणिः प्रभोः ।

भौमस्यान्तर्दशां प्राप्तश्चन्द्रमाः कुरुते भृशम् ॥७॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP