संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - शनेरुपदशाफलम्

मानसागरी - अध्याय ५ - शनेरुपदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


जलौकादेहपीडा च विदेशगमनं भवेत् । कुधान्यतिलमश्नाति शनिः स्वोपदशां गतः ॥१॥

धनबुद्धी रिपोः पीडाऽन्नपानादिहानिकृत् । विना स्नेहरसं भुंके सौरस्योपदशां बुधः ॥२॥

शत्रुचित्तभयं त्रासो दरिद्रं च बहुक्षुधा । नीचसङ्गं कुभक्षी च सौरस्योपदशां शिखी ॥३॥

द्यूतवेश्याभवेद्द्रव्यं महिषीकृष्यलाभदः । कन्याजन्मतदा गर्भः सौरस्योपदशां सितः ॥४॥

राजाधिकारस्तेजस्वी व्याधिः पीडा ज्वरो व्यथा । कलत्रकलहं चौरं सौरस्योपदशां रविः ॥५॥

प्रमाणबुद्धिप्राधान्यं बहुस्त्रीभोगवान् धनी । हविर्मधुक्षीरभोक्ता सौरस्योपदशां शशी ॥६॥

शस्त्रवह्निरिपोर्भीतिर्वतरक्तोपमानवः । भोजनं मधुसर्पिर्भ्या सौरस्योपदशां कुजः ॥७॥

धनभूमिपशुनाशं कटुतीक्ष्णाम्लभोजनम् । मृत्युर्विदेशगमनं सौरस्योपदशां तमः ॥८॥

गृहध्वंसो भवेत्स्त्रीभिः क्लेशप्रियानिरुद्यमः । किञ्चित्सौख्यमवाप्नोति सौरस्योपदशां गुरुः ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP