संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - शनिमध्ये पाचकफलम्

मानसागरी - अध्याय ५ - शनिमध्ये पाचकफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


शनेर्विपाके कुरुतेऽभिमानं महत्सुखं लोहगतादिवृद्धिः । लाभं प्रतापं च शरीरकष्टं प्रान्ते ददात्येव हि सूर्यपुत्रः ॥१॥

धनहानिर्भवेन्नित्यं हानिशोकौ भयं तथा । विदेशे भ्रमणं शीलं शनेः पाके गतो रविः ॥२॥

सुखदं रोगनिर्मृक्तं लाभदं हानिजं तथा । करोति शनिपाके च चन्द्रमोऽन्तर्गते रवौ ॥३॥

महीसुतेऽन्तरगते कलहं च उपद्रवः । अग्निदाहं ज्वरं तीव्रं विफलं विगतं भवेत् ॥४॥

सौरान्तरगते सौम्ये राजमानं करोति च । मध्यसंपत्यगेहे च कार्यप्राप्तिः सवस्त्रदम् ॥५॥

करोति जीवो बहुबुद्धिसौख्यं राज्याभिधं देशपुराधिपत्यम् । परोपकारं सुखसंपदश्च करोति सौरे च गुरुः सदैव ॥६॥

ददाति वित्तं भृगुनन्दनः सुखं सुखार्थविद्यागमनं भवेत् स्वयम् । सुनिर्मलं बाहुप्रतापयुक्तं विदेशयाने च नरः सुखं लभेत् ॥७॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP