संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - शुक्रमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - शुक्रमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मित्रोपचारमशुभप्रमदाविलासं

श्वेतातपत्रनृपपूजितदेशलाभम् ।

हस्त्यश्वयानपरिपूर्णमनोरथाश्च

शुक्रे दशा सृजति निश्चलराज्यलक्ष्मीम् ॥१॥

शुक्रमध्ये शुक्रफलम्

शौक्रे स्त्रीसङ्गमो लाभो धर्मकामार्थसंयुतः ।

कौशल्यं च महाकीर्तिर्निधिलाभश्च जायते ॥२॥

शुक्रमध्ये रविफलम् ।

गण्डोदरक्षयं रोगैर्नृपवन्ध्यादिकैतवैः ।

उपपातो भवेन्नूनं शुक्रस्यान्तर्गते रवौ ॥३॥

शुक्रमध्ये चन्द्रफलम् ।

नखास्थिजशिरोरोगैः कामलाद्यामयैर्दशाम् ।

शरीरे क्लेशमाप्नोति शुक्रस्यान्तर्गतः शशी ॥४॥

शुक्रमध्ये भौमफलम् ।

वातपित्तक्षयो रोगो मदोत्साहोऽन्यसंशयः ।

भूयः स्थाद्भूमिलाभश्च शुक्रस्यान्तर्गते कुजे ॥५॥

शुक्रमध्ये राहुफलम् ।

अन्त्यजैः सह संक्लेशो बन्धूद्वेगः सुत्दृद्वधः ।

अकस्माद्भयमाप्नोति राहोन्तर्गतः सितः ॥६॥

शुक्रमध्ये गुरुफलम् ।

धान्यरत्नसमृद्धिं च भूमिपुत्रसुखावहः ।

श्रियं प्रभुत्वमाप्नोति जीवः शुक्रदशां गतः ॥७॥

शुक्रमध्ये शनिफलम् ।

वृद्धस्त्रीभिः सह क्रीडा पुत्रनाशो विपत्पदम् ।

शत्रुनाशः सुखप्राप्तिः सौरः शुक्रदशां गतः ॥८॥

शुक्रमध्ये बुधफलम् ।

धनागमश्च सौख्यं च मनोरथयशः श्रियः ।

नृपवल्लभता शौर्य शुक्रस्यान्तर्गते बुधे ॥९॥

शुक्रमध्ये केतुफलम् ।

कलहो बान्धवैः सार्द्ध रिपुनाशोऽरिविग्रहः ।

चलाचलं समग्रं च केतावन्तर्गते सिते ॥१०॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP