संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - योगिनीदशा

मानसागरी - अध्याय ५ - योगिनीदशा

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


नत्वा गणेशं गिरमब्जयोनिं विष्णुं शिवं सूर्यमुखान्महेन्द्रान् ।

वक्ष्ये स्फुटं सूर्यकृताद्यशास्त्राद्दशाक्रमं वा किल योगिनीजम् ॥१॥

अथ जनस्य विधिवत्प्रसवं विचार्य संवत्सरर्त्वयनमासदिनर्क्षकालैः ।

यस्मिन्भवेद्दिवसभे जननं जनस्य तद्भं पिनाकनयनैः सहितं विधेयम् ॥२॥

गौरीशमर्त्या विभजेच्च शेषं यत्संख्यकं सैव दशा जनस्य ।

यया जनः कर्मफलस्य पक्तिः शुभाशुभस्य स्फुटतामुपैति ॥३॥

मङ्गला १ पिङ्गला २ धन्या ३ भ्रामरी ४ भद्रिका तथा ५ उल्का ६ सिद्धा ७ सङ्कटा ८ च एतासां नामवत्फलम् ॥४॥

एकं द्वौ गुणवेदबाणरसप्तेष्टाङ्कसंख्याक्रमात्स्वीस्वीया च दशाविपाकसमये ज्ञेयं शुभं वाशुभम् ।

षट्कृत्वा विभजेच्च षट्कृतिरसैकद्वित्रिवेदेषु षट् सप्ताष्टघ्नदशा भवेयुरिति ता एवं दशान्तर्दशाः ॥५॥

गतर्क्षनाडीगुणिता दशाब्दाः सर्व च नाडीवित्दृताः फलं यत् । वर्षाधिकं भुजफलं ततश्च भोग्यं दशायाः प्रविचार्य लेख्यम् ॥६॥

मंगलादियोगिनीदशान्तर्दशालम् ।

सद्वर्मे द्विजदेवगोपुरमनोत्कर्षप्रदात्री नृणां नानाभोगयशोऽर्थसन्नृपपराश्चेभाङ्गजाप्तिप्रदा । सन्माङ्गल्यविभूपणाम्बरवयःस्त्रीभोगसंदायिनी ज्ञानानन्दकरी दशा भवति सा ज्ञेया सदा मङ्गला ॥७॥

स्यात्पुंसां यदि पिङ्गलाप्रसवतो त्दृद्रोगशोकप्रदा नानारोगकुसङ्गदेह मनसो व्याध्यर्दितार्तिप्रदा । कृष्णासृग्ज्वरपित्तशूलमलिनस्त्रीपुत्रभृत्याप्तसन्मानध्वंसकरी धनव्ययकरी सत्प्रेमहंत्री खला ॥८॥

धन्या धन्यतमा धनागमसुखव्यापारभोगप्रदा पुंसां मानविवृद्धिदा रिपुगणप्रध्वंसिनी सौख्यदा । विद्याराजजनप्रबोधसुरताज्ञानाङ्कुरान्वर्द्धिनी सत्तीर्थामरसिद्धसेवनरतिर्लभ्या दशा भाव्यगाः ॥९॥

दुर्गारण्यमहीधरोपगहनारामातपव्याकुला दूराहूरतरं भ्रमन्ति मृगवत्तृष्णाकुलाः सर्वतः । भूपालान्वयजा दशामधिगता ये वै नृपा भ्रामरी स्वं राज्यं प्रविहाय ते स्फुटतरं क्ष्माधो लुठन्ते मुहुः ॥१०॥

सौहार्द निजवर्गभूसुरसुरेशावासुत्दृन्मानता माङ्गल्यं गृहमण्डले खिलमुखव्यापारसक्तं मनः । राज्यं चित्रकपोलपालितिलकासप्ताङ्गनाभिः समः क्रीडामोदभरो दशा भवति चेत्पुंसां हि भद्राभिधा ॥११॥

उल्का चेद्यदि योगिनी गुरुदशा मानार्थगोवाहनव्यपाराम्बरहारिणी नृपजनक्लेशप्रदा नित्यशः । भृत्यापत्यकलत्रवैरजननी रम्यापहन्त्री नृणां त्दृन्नेत्रोदरकर्णदानपदजो रोगः स्वदेहे भृशम् ॥१२॥

सिद्धा सिद्धिकरी सुभोगजननी मानार्थसंदायिनी विद्याराजजनप्रतापधनसद्धर्माप्तजज्ञानदा । व्यापाराम्बरभूषणादिकमतोद्वाहोऽपि माङ्गल्यदा सत्सङ्गान्नृपदत्तराज्यविभवो लभ्या दशा पुण्यतः ॥१३॥

राज्यभ्रंशाग्निदाहो ग्रहपुरनगरग्रामगोष्ठेषु पुंसां तृष्णारोगाङ्गधातोः क्षणविकृतिरथो पुत्रकान्तावियोगः । चेत्स्यान्मोहोऽरिभीतिः कृशतनुलतिकासङ्कटाया विरोधो नो मृत्युर्जन्मकालाद्यममपि हि विना सङ्कटं योगिनीजम् ॥१४॥

भ्रामर्या च तथोल्कायां सङ्कटान्तर्गता भवेत् । तदा तु यमराजस्य सदनं प्राप्यते नृणाम् ॥१५॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP