बन्धव्याधिस्तथा रोगः पीडा भवति दारुणा । स्थानच्युतिः कुभोज्यं च राहुः स्वोपदशाङ्गतः ॥१॥
ज्ञानधर्मार्थनाशश्च कलहं व्यसनं भवेत् । कटुकं मिष्टभोज्यं च राहोरुपदशां गुरुः ॥२॥
लङ्घनं गृहभङ्गश्च हस्तपादाक्षिपीडनम् । बन्धनं बहुजीवश्च राहोरुपगते शनौ ॥३॥
धनवस्त्रादिहानिश्च पदबुद्धयोर्विनाशकृत । भोजनं फलशाकादि राहोरुपदशां बुधः ॥४॥
अर्थनाशो विदेशश्च मृत्युचोरनृपाद्भयम् । राहोरुपदशां केतुर्बन्धनं विग्रहो भवेत् ॥५॥
स्त्रीनाशः कुलनाशश्च योगिनीभूतमातृभिः । पीडनं च कुभोज्यं स्यद्राहोरुपदशां सितः ॥६॥
सुत्दृत्पुत्रमहापीडा ज्वररोगान्नहानिकृत् । राहोरुपदशां सूर्यः कुरुते नात्र संशयः ॥७॥
चित्तभ्रमो मनोभङ्ग उद्वेगोऽथ कलिर्भयम् । भोज्यं स्त्रेहं हविष्यान्नं राहोरुपदशां शशी ॥८॥
रोगमृत्युप्रमादश्च रक्तपित्तभगंदरौ । कुभोजनं मानहाही राहोरुपदशां कुजः ॥९॥