संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| १५१ ते १५५ क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - १५१ ते १५५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १५१ ते १५५ Translation - भाषांतर १५१वैश्वानर: संतप्यत्यन्तरिक्षं दिवं च समिद्धो अग्निर्दिव्योस्तपोधात् ।शिक्षन्त्यस्मा अभिषुण्वन्ति सोममृतेन भ्राजन्नमृतं वस्ते अत्की ॥१॥रारह्येते नीलयते शीतरूरे तन्वावस्यभीमे ।रूपाण्येति बहुधा वसानो ग्रहान् कृण्वानस्तन्वः पराची: ॥२॥पञ्चारे चक्रे परिवर्तमाने समारोहन्ति भुवनानि विश्वा ।तस्यनाक्षस्तप्यते भूरिभार: सनादेव न छिद्यते सनाभि: ॥३॥पञ्चाभिस्तप्तस्तपत्येष एतत्सहस्र धामानि मनुतिष्ठन्त्येनम् ।सप्त त्वा सूर्य हरितो वहन्ति ब्रह्मणादित्य स्त्रिवृता मुखेन ॥४॥वि द्योतन्ते द्योतत आ च द्यतते अप्स्वन्तरमृतो घर्म उद्यन् ।हन्ता वृत्रस्य हरितामनीकमनाधृष्टास्तन्वः सूर्यस्य ॥५॥घर्म: पश्चादुत घर्मः पुरस्तादयोदंष्ट्राय द्विषतोपि दध्म: ।वैश्वानरः शीतरूरे वसान: सपत्नान् मे द्विषतो हन्तु सर्वान् ॥६॥ऋतूनृतुभि: श्रपयति ब्रह्मणैकवीरो घर्मः शुचान: समिधा समिद्ध: ।ब्रह्म त्वा तपति ब्रह्मणा तेजसा च ॥७॥ब्रह्म जज्ञानं प्रथमं समाददे तज्जायमानं न विभिते न विद्यते । यज्ञातदङ्गमानं पितरं व्याहन्ति तस्य नाड्यातता विततास्तता उता: ॥८॥असयज्जान: स्वराजभारो य इं जजान स्वजासु भर्त्ता ।प्रजापति: प्रजाभि: सम्विदान: स्त्रिणि ज्योतींषि दधते नपाक:॥९॥तीषिंप्रजापतिश्चरति गर्भे अन्त: स्वजायमानो बहुधा प्र जायते ।तस्य पदमभि पश्यन्ति वेधसस्तस्मिन्नार्पिता भुवनानि विश्वा ॥१०॥ १५२यस्मिन्देवः पितरो मनुष्या अरानाभाविव श्रिताः ।अपां त्वा पुष्पं पृच्छामि यत्र तन्मायया हितम ॥१॥यत्रापां पुष्पं निहितं मायया निहितं गुहा ।यो वै तद्विद्यात् प्रत्यक्षं स विद्याद् ब्राह्मणं महत् ॥२॥मणिस्त्रिसूत्रो निहित: स्वर्यदूर्ध्वस्त्रियङ् विश एति प्रजानन् ।स पुमान् पुंसो जनयनृतेन सर्वानन्तान् गच्छति सद्य एव ॥३॥सर्वां रात्रिं सहोषत्वादित्यो जातवेदसा ।अग्नेरधि दिवमारोहन्नायुषा समनक्तु मां वर्चसा सं सृजतु माम् ॥४॥घर्म: साहस्र: समिधा समिद्धोसपत्नाः प्रदिशो मे कृणोतु ।सपत्नान् सर्वान् मे सूर्यो हन्तु वैश्वानरो हरिः ॥५॥घर्मस्तप्त प्र दहतु भ्रातृव्यान् द्विषतो वृका ।आदत्ताञ्छत्रूनादित्य उद्यन्सूर्य: पृतन्यतः ॥६॥वैश्वानर: प्र दहतु भ्रातृव्यान् द्विषतो वृषा ।उद्यन् मे शुक्र आदित्यो विमृधो हन्तु सूर्य: ! ॥७॥शुक्रं सुवर्णं हरिं ब्रह्मभ्राजदजस्रं ज्योतिर्दिवमाततान ।हरि: सुवर्णः प्रमथिष्णुराशु: सपत्नान् हन्तु महता वधेन ॥८॥हरि: सुवर्ण: सृजत्वभयंकरो हिरण्यवर्णो दुरितादाप आशुः ।सपत्नान् सर्वान् मे सूर्य आदित्यं हन्तु रश्मिभि: ॥९॥महान्तमर्थं परिसद्य एत्यहोरात्रे विततश्च्छुक्र उद्यन् ।सपत्नान सर्वान मे सूर्यों हन्तु वैश्वानर दहन् ॥१०॥उद्यन्नद्य चित्रमह: सपत्नान् मेव जहि ।दिवैनान् रश्मिभिर्जहि रात्र्यैणांस्तमसा वधीस्ते यन्त्वधमं तम: ॥११॥तेजस्तपांसि मुखतो बिभर्ष्यानन्दं भूतं महसि: प्रतिष्ठाम्॥पर्यूहमाण: श्रियमेषि सर्वतो मोघं सत्यं यश उद्यतं ते ॥१२॥१५३ब्रह्मचारिष्णश्चरति रोदसी उभे यस्मिन् देवा: संमनसो भवन्ति ।स दाधार पृथिवीं द्यामुतामुं स आचार्यं तपसा पिपर्तु ॥१॥आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्त: ।तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवा: ॥२॥ब्रह्मचारिणं पितरो मनुष्या देवजना गन्धर्वा एनमनुयन्ति सर्वे ।त्रयस्त्रिंशत् त्रिशताः षट्सहस्राः सर्वाङ् स देवांस्तपसा पिपर्त्ति ॥३॥त्रयस्त्रींइयं समित् पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।ब्रह्मचारी समिधा मेखलावी श्रमेण लोकांस्तपसा पिपर्ति ॥४॥पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत् ।तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥ब्रह्मचारी समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ॥स सद्य एति पूर्वादपरं समुद्रं लोकान् संगृभ्य मुहुराचरिक्रत् ॥६॥ब्रह्मचारी जनयन् ब्रह्मापो लोकान् प्रजापतिं परमेष्ठिनं विराजम् ।गर्भो भूत्वामृतस्य योनाविन्द्रो भूत्वा असुरांस्ततर्हि ॥७॥इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।ते ब्रह्म कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥८॥आचार्यस्ततक्ष नभसी उभे उर्वी गम्भीरे पृथिवीं दिवं च ।ते ब्रह्मचारी तपसाभि रक्षति तयोर्देवाः सदमादं मदन्ति ॥९॥अर्वागन्य: परो अन्यो गुहा निधी निहितौ ब्राह्मणस्य ।तौ ब्रह्मचारी तपसाभि रक्षति तत् केवलं कृणुते ब्रह्म विद्वान् ॥१०॥१५४अर्वागन्यो दिवस्पृष्ठादितो ऽन्य: पृथिव्याग्नी समेतो नभसी अन्तरेमे ।तयो: श्रयन्ते रश्मयोधि दृढ़ास्ताना तिष्ठति तपसा ब्रह्मचारी ॥१॥अभिक्रन्दन्नरुणः शितिङ्गो बृहच्छेपोनु भूमौ जभार ।ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्र: ॥२॥पर्जन्यो मृत्युर्वरुणः सोम ओषधय: पय:॥जीमूता आसन् सत्वानस्तैरिदं स्वराभरन् ॥३॥अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।तेषामर्चींषि पृथगभ्रे चरन्ति तेषामाज्यं पुरुषो वर्षमश्वः ॥४॥अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणो यद्यदैच्छत् प्रजापतौ।तद् ब्रह्मचारी प्रायच्छत् स्वान् मित्रो अध्यात्मनः ॥५॥आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापति: ।प्रजापतिर्वि राजति विराडिन्द्रोभवद् वशी ॥६॥ब्रह्मचर्यण तपसा राजा राष्ट्रं वि रक्षति ।आचार्यो ब्रह्मचर्यण ब्रह्मचारिणमिच्छते ॥७॥ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीर्षति ॥८॥ब्रह्मचर्येण तपसा देवा मृत्युमुपाजयन् ।इन्द्रो ह ब्रह्मचर्येणामृतं स्वराभरत् ॥९॥ओषधयो भूतभव्यमहोरात्रे वनस्पतय: ।संवत्सरः सहर्तुभिस्ते जाता ब्रह्मचारिण: ॥१०॥१५५पार्थिवा दिव्या: पश्व आरण्या ग्राम्याश्च ये ।अपक्षा: पक्षिणश्च ये ते जाता ब्रह्मचारिण: ॥१॥रीणःपृथक् सर्वे प्राजापत्याः प्राणाङ् आत्मसु बिभ्रति ।सर्वास्तान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२॥ब्रह्मचारी ब्रह्मभ्राजद् बिभर्ति तस्मिन् देवा अधि विश्वे समोता: ।स स्नातोः बभ्रुः पिङ्गल: पृथिव्यां बहु रोचते ॥३॥देवानामेतत् परिपूतमनभ्यारूढं चरति रोचमानम् ।तस्मिन् सर्वे पशवस्तत्र यज्ञस्तस्मिन्नन्नं सह देवताभिः ॥४॥प्राणापानौ जनयन्नाद्व्यानं चक्षुः श्रोत्रं जनयन् ब्रह्म मेधाम् ।वाचं श्रेष्ठां यशो अस्मासु धेहि ॥५॥अन्ने रेतो लोहितमुदरं तानि कल्पम् ।ब्रह्मचारी सलिलस्य पृष्ठे तपोतिष्ठत् तप्यमानः समुद्रे ॥६॥(इति क्षुद्रकाण्डनाम षोडशकाण्डे द्वाविंशति अनुवाकः)इत्यथर्ववेदे पैप्पलाद संहितायां क्षुद्रकाण्डनाम षोडशकाण्डः समाप्तः N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP