षोडशकाण्डः - ९६ ते १००
पैप्पलादसंहिता
९६
पुमान् पुंसो अधि तिष्ठ चर्म न ते शिश्नं प्र दहाज्जातवेदा: ।
भवात् ते स्त्रैणमप्यप्सरासु ॥१॥
महती द्यावापृथिवी अन्तरिक्षमिदं महत्।
महान् महिम्ना सर्वाङ्गो यस्त्वा पचत्योदन ॥२॥
सप्तैनं सूर्याभृताः सप्त पुषकरणीरुत।
सप्तो सहस्रं गन्धर्वा यस्त्वा पचत्योदन ॥३॥
धातात्रैषामुद्गातासीद्देवा होतार ऋत्विजः ।
सर्वाङ्ग यत्रौदनं सत्येनाग्रे समैरयन् ॥४॥
सप्त ऋषयो भूतकृत ऋषयः साध्याश्च ये ।
ते वै सर्वाङ्गमोदनं श्रद्धयाग्रे समैरयन् ॥५॥
यः सर्वाङ्गं पचति ब्रह्माणं च न हिंसति ।
तस्मै ज्योतिष्मन्तं लोकं यमो राजाभि रक्षति ॥६॥
तं सर्वाङ्गं घृतपृष्ठं द्यौमात्रं देव संहितम्।
निधत्स्वामुत्रत्शेवधि तं ते ब्रह्माभि रक्षतु ॥७॥
तस्यौदनस्योदरमन्तरिक्षं द्यौ: पृष्ठं दिशः पार्श्वे ।
सूर्याचन्द्रमसावक्षावृतवो दन्ताः पवमानः प्राणो अङ्गिरसो रूपम् ॥८॥
(इति क्षुद्रकाण्डनाम षोडशकाण्डे पञ्चदश अनुवाकः)
९७
आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन्।
तीर्त्वा तमांसि बहुधा विपश्यन्नजो नाकमा क्रमतां तृतीयम् ॥१॥
प्र पदो ऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् ।
ज्योतिष्मन्तं सुकृतां लोकमीप्सन् तृतीये नाके अधि वि क्रमस्व ॥२॥
अनु च्छ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः।
माभि द्रुहः परुश: कल्पयैनं सुकृतां मध्ये अधि वि श्रयैनम् ॥३॥
भूम्यां त्वा भूमिमधि धेह्य् एतामासिञ्चोदकमव धेह्येनम्।
पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः ॥४॥
अग्नेरग्निरधि सं बभूविथ ज्योतिष्मान् गच्छ सुकृतां यत्र लोकः ॥५॥
पञ्चौदनः पञ्चधा वि क्रमस्वाक्रंस्यमानः पञ्च ज्योतींषि।
ईजानानां सुकृतां प्रेहि मध्यं ज्योतिष्मन्तमभि लोकं जयास्मै ॥६॥
अजमेवाग्निमजमु ज्योतिराहुरजं ब्रह्मणे जीवता देयमाहुः।
अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्धधानेन दत्तः ॥७॥
एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेजं ददाति।
अजस्तमांस्यप हन्ति दूरं पञ्चौदनो ब्रह्मणे दीयमानः ॥८॥
पञ्चौदनो ब्रह्मणे दीयमानोजो नाकं मा क्रमतां तृतीयम् ।
विचक्रमाणः सुकृतस्य लोके स्वर्ज्योतिषा तमो अप हन्ति दूरम् ॥९॥
अजा क्रमस्व सुकृतां यत्र लोक: शरभो न चत्तो अति दुर्गाण्येष: ।
पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा कामदुघास्येका ॥१०॥ दूघा
९८
ज्योतिष्मन्तं सुकृतां लोकमीप्सन् पञ्जौदनं ब्रह्मणेजं ददाति ।
स व्याप्नुह्येभि लोकं जयास्मै शिवोस्मभ्यं प्रतिगृहीत एधि ॥१॥
अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे सुकृतां लोके ददिवांसं दधाति । वासं
पञ्चौदनो ब्रह्मणे दीयमान: स दातारं तृप्त्या तर्पयाति ॥२॥
अजोह्यग्नेरजनिष्ट शोकात् विप्रो विप्रस्य सहसो वयोधाः ।
हुतमिष्टमभिपूर्तं वषट्कृतं तद्देवा ऋतुश: कल्पयन्तु ॥३॥
अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् ।
तथा लोकान् समाप्नुयाद् ये दिव्या ये च पार्थिवा: ॥४॥
एतास्त्वाज धारा: उप यन्तु विश्वत: सोम्या देवीर्घृतपृष्ठा मधुश्चुत: ।
स्तभान पृथिवीं दिवं सदस्व नाके तिष्ठास्यधि सप्तरश्मौ ॥५॥
पृष्ठात् पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद् दिवमारुहम् ।
दिवो नाकस्य पृष्ठात् स्वर्ज्योतिरगामहम् ॥६॥
अजो ऽस्यज स्वर्गो ऽसि त्वया लोकमङ्गिरसः प्राजानम् ।
तं लोकमनु प्र ज्ञेष्म ॥७॥
येना सहस्रं वहसि येन वा सर्ववेदसम् ।
तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥८॥
अजं च पचत पञ्च चौदनान् ।
अजं पञ्चौदनान् पक्त्वा देवा लोकान् समानशुः ॥९॥
पञ्चौदनं पञ्चभिरङ्गुलीभिर्दर्व्योद्धर पञ्च चौदनमेतम् ।
प्राचीं दिशं दक्षिणां प्रतीचीमुदीचीं ध्रुवामूर्ध्वां दिशमाक्रमस्व ॥१०॥
९९
प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम्।
प्रतीच्यां दिशि भसदमस्य धेह्युदीच्यां दिश्युत्तरं धेहि पार्श्वम् ॥१॥
अजस्यानूकमूर्ध्वायां दिशि धेहि दिशि धेहि पाजस्यं ध्रुवायाम् ।
अन्तरिक्षे मध्यतो मध्यमस्य पद्भिश्चतुर्भि: प्रति तिष्ठ दिक्षु ॥२॥
शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम्।
स उत्तिष्ठ प्रेहि नाकमुत्तमं पद्भिश्चतुर्भि: प्रति तिष्ठ दिक्षु ॥३॥
सर्वा दिश: संविदाना: सध्रीची: सान्तर्देशा: प्रतिगृह्णन्तु तेजम् ।
तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्यो जुहोमि हविषा घृतेन ॥४॥
यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य ।
सर्वं तदग्ने सुकृतस्य लोके जानीतान्न: सङ्गमने पथीनाम् ॥५॥
अजः पञ्चौदनो व्यक्रमत
तस्योर इयमभवदुदरमन्तरिक्षं द्यौ: पृष्ठं दिश: पार्श्वे ॥६॥ईय
दितिश्चादितिश्च शृङ्गे सत्यं च ऋतं च चक्षुषी ।
विश्वरूपं श्रद्धा प्राणो विराट् शिरः ॥७॥
एष वा अपरिमितो यज्ञो यदज: पञ्चौदन: ।
अपरिमितं लोकं जयत्यपरिमितं लोकमवरुन्धे ऋन्धे
य एवं विदुषेजं पञ्चौदनं ददाति ॥८॥
नास्यास्थीनि भिन्द्यान्न मज्ज्ञो निर्धयेत् ।
सर्वाणि समादायेदमिदं प्रवेशयेत् ॥९॥
इदमिदमस्य रूप तेनैनं सं गमयति ।
स्वधामूर्जमक्षितिमहो अस्मै दुहे य एवं विदुषेजं पञ्चौदनं ददाति ॥१०॥
१००
इन्द्राय भागं सविता कृणोत्विमं यज्ञं यज्ञपतिश्च सूर: ।
ये नो द्विषन्त्यनु तान् रभस्वारिष्ठा वीरा यजमानस्य सर्वे ॥१॥
पञ्चलोका: पञ्चऋतव: ॥
पञ्चषु तुतुष्टु घ्नोति य एवं विदुषेजं पञ्चौदनं ददाति ॥२॥
एष वै निदाघो यज्ञो यदजः पञ्चौदनः।
निरप्रियं भ्रातृव्यं दहति भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति ॥३॥
यो वा आयन्तमित्यृतुं वेद।
आयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति।
य एवं विदुषेजं पञ्चौदनं ददाति ॥४॥
यो वै संयन्तमित्यृतुं वेद।
संयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति।
य एवं विदुषेजं पञ्चौदनं ददाति ॥५॥
यो वै संभवन्तमित्यृतुं वेद।
भवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति ॥६॥
यो वा अभिभवन्तमित्यृतुं वेद।
अभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति ॥७॥
यो वा उद्यन्तमित्यृतुं वेद।
उद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति ॥८॥
यो वै मूर्द्धानमित्यृतुं वेद।
मूर्ध्नीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना ।
परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति ॥९॥
यो वै सर्वमित्यृतुं वेद ।
सर्वामेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति ॥१०॥
यावन्त्यस्य लोमानि ब्रह्मणास्तृणोति वेद्याम् ।
तावतीरस्यधारा: समुद्रस्येवाक्षताः ॥११॥
दुहां क्षीरं भवतु सर्पिरेभ्यः स्वराड् भूत्वोपतिष्ठत्सुराणाम्।
मधोर्धारामधुघेभ्यो दुहानोजो नाके तिष्ठतु मोदमानः ॥१२॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP