षोडशकाण्डः - १२६ ते १३०

पैप्पलादसंहिता


१२६
यत् प्राशिष्यन् पुरस्तादभिमृशति ।
प्राङ् प्रतिग्रहीतुः प्राण: प्र क्रामति ततो एवोत्थाय प्र व्रजति शिरस्तस्य रुदतीति ब्रज
द्वादशीर्नाति जीवत्येनं चैनं प्राश्नन्तमुपद्रष्टा गृह्णामि ॥१॥
यत् प्राशिष्यन् दक्षिणत: प्रमृशति ।
दक्षिणा प्रतिग्रहीतुः प्राण: प्र क्रामति
ततो एवोत्थाय प्र व्रजति शिरस्तस्य रुदतीति ब्रज
द्वादशीर्नाति जीवत्येनं चैनं प्राश्नन्तमुपद्रष्टा गृह्णामि ॥२॥
यत् प्राशिष्यन् उत्तरत: प्रमृशति ।
उदङ् प्रतिग्रहीतुः प्राणः प्र क्रामति
ततो एवोत्थाय प्र व्रजति शिरस्तस्य रुदतीति ब्रज
द्वादशीर्नाति जीवत्येनं चैनं प्राश्नन्तमुपद्रष्टा गृह्णामि ॥३॥
यत् प्राशिष्यन् पश्चात् प्राञ्चमभिमृशति ।
शर्मणा चैवैनं तद्वर्मणा चाभिमृशति शर्म चैवास्मै वर्म च भवति जयत्योदनमोदनलोको भवति य एवं वेद ॥४॥

१२७
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्यं स्थ ।
जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि जिष्णवे योगाय
विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ॥१॥
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्य स्थ ।
जिष्णवे योगाय क्षत्रयोगैर्वा युनज्मि जिष्णवे योगाय
विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ॥२॥
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्य स्थ ।
जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि जिष्णवे योगाय विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ॥३॥
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्य स्थ ।
जिष्णवे योगायान्नयोगैर्वो युनज्मि जिष्णवे योगाय विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ॥४॥
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेद्रस्य शुक्लं स्थेन्द्रस्य वीर्यं स्थ ।
विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता मापः स्थ ॥५॥

१२८
अग्नेर्भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥१॥
इन्द्रस्य भाग स्थ । अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥२॥
सोमस्य भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥३॥
वरुणस्य भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥४॥
यमस्य भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥५॥
पितॄणां भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥६॥
बृहस्पतेर्भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥७॥
देवस्य सवितुर्भाग स्थ । अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥८॥

१२९
यो व आपोपां भागो अप्स्वन्तर्यजुष्यो देवयजन: ।
इदं तमति सृजामि तं माभ्यविनिक्षि ।
तेन तमभ्यतिसृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
त वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥१॥
यो व आपोपामूर्मिरप्स्वन्तर्यजुष्यो देवयजन: ।
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यतिसृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
त वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥२॥
यो व आपोपां वेगो अप्स्वन्तर्यजुष्यो देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥३॥
यो व आपोपां बिन्दुरप्स्वन्तर्यजुष्यो देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि । विन्दु
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥४॥
यो व आपोपां गर्भो अप्स्वन्तर्यजुष्यो देवयजन:
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥५॥
यो व आपोपां वत्सो अप्स्वन्तर्यजुष्यो देवयजनः
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥६॥
यो व आपोपां वृषभो अप्स्वन्तर्यजुष्यो देवयजन:
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥७॥
यो व आपो अश्मा पृश्निर्दिव्योप्स्वन्तर्यजुष्यो देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं त स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥८॥
यो व आपोपां हिरण्यगर्भो अप्स्वन्तर्यजुष्या देवयजन:
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
त वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥९॥
यो व आपोपामग्नयो अप्स्वन्तर्यजुष्या देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥१०॥

१३०
यदर्वाचीनमेकहायनादनृतं किं चोदिम ।
आपो मा तस्मादेनसो दुरितात्पान्तु विश्वत: ॥१॥
अरिप्रा आपो अपरिप्रमस्मत् ।
प्रास्मोदेनो दुरितं सुप्रतीका: प्र दु:ष्वप्न्यं प्र मलं वहन्तु ॥२॥बह
समुद्रं वो प्र सृजामि स्वां योनिमपीतन ।
अरिष्टाः सर्वहायसो मा च नः किं चनाममत् ॥३॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP