षोडशकाण्डः - ६ ते १०

पैप्पलादसंहिता



रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म ।
शिशानो अग्नि: क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥१॥
अयोदंष्ट्रो अर्चिषा वावृधानानुप स्पृश जातवेद: समिद्धः ।
आ जिह्वाया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥२॥
उभोभयाविन्नुप धेहि दंष्ट्रो हिंस्रः शिशानोवरं परं च॥
उतान्तरिक्षे परि याह्यग्ने जम्भै: सं देह्यभि यातुधानान् ॥३॥
अग्ने त्वचं यातुधानस्य भिन्द्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।
प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर्वि चिनोत्वेनम् ॥४॥
जज्ञैरिषूः संनममानो अग्ने वाचा शल्याङ् अशनिभिर्दिहानः ।
ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ॥५॥वाहू
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् । उता
उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशान: ॥६॥
उतारब्धान्त्स्पृणुहि जातवेद उतारेभाणां ऋष्टिभिर्यातुधानान् ।
अग्ने पूर्वो नि जहि शोशुचान आमाद: क्ष्विङ्कास्तमदन्त्वेनी: ॥७॥
इह प्र ब्रूहि यतम: सो अग्ने यो यातुधानो य इदं शृणोति ।
तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥८॥
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्य: प्र णय प्रचेत: ।
हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्ष: ॥९॥
नृचक्षारक्ष: प्रतिपश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा: ।
तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥


त्रिर्यातुधान: प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।
तमर्चिषा स्फूर्जयन् जातवेद: समक्षमेनं गृणते नि वृङ्धि ॥१॥
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
मन्योर्मनस : शरव्या जायते या तया विध्व हृदये यातुधानान् ॥२॥
पराशृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि !
परार्चिषा मूरदेवाञ्छृणीहि परासुतृप: शोशुचतः शृणीहि ॥३॥
पराद्य देवा वृजिनं शृणीहि प्रत्यगेनं शपथा यन्तु सृष्टाः ।
वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधान: ॥४॥
सनादग्ने मृणासि यातुधानान्नत्वा रक्षांसि पृतनासु जिग्युः ।
अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत दैव्याया: ॥५॥
य: पौरुषेयेण क्रविषा समङ्क्ते योऽश्व्येन पशुना यातुधान:।
यो अघ्न्याया भरति क्षीरमग्ने स्तेषां शीर्षाणि हरसापि वृश्च ॥६॥अघ्या
संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्ष: । उस्री
पीयूषमग्ने यतमस्तितृप्सात् तं प्रत्यञ्चमर्चिषा विध्व मर्माणि ॥७॥
विषं गवां यातुधानाः पिबन्त्वावृश्चन्त्वामदितये दुरेवा: । पिव
परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥८॥
त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात् ।
प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥९॥
पश्चात् पुरस्तादधरादुदक्त: कवि: काव्येन परि पाह्यग्ने ।
सखा सखायमजरो जरिम्णे अग्ने मर्त्याङ् अमर्त्यस्त्वं न: ॥१०॥


तदग्ने चक्षुः प्रति धेहि रेभे सफारुजं येन पश्यसि यातुधानान् ।
अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तुमचितं न्योष ॥१॥
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥२॥
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुषे महित्वा।
प्रादेवीर्मायाः सहते दुरेवा: शिशीते शृङ्गे रक्षसे विनिक्ष्वे ॥३॥
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः।
शुचिः पावक ईड्यः ॥४॥
अग्ने रक्षाणो अंहस: प्रतिस्म देवरिषत: ।
तपिष्ठैरजरो दह ॥५॥
ये ते शृङ्गे अजरे जातवेदस्तिग्म शोचीर्ब्रह्म संशिते ।
ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनं
प्रत्यञ्चं यातुधानं जातवेदो विनिंक्ष्व ॥६॥विनि
विषेण भङ्गुरावतः समिन्द्र रक्षसो दह ।
प्रत्यग्ने मिथुना दह यातुधाना किमीदिना ।
सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः ॥८॥दव्धं
प्रत्यग्ने हरसा हरः शृणीहि विश्वत: प्रति ।
यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥९॥
सीदान्वेया: प्रमृण रक्ष इन्द्र यातुधान क्षयणैर्मूरै: ।
एतावग्ने मिथुना यातुधाना विष्वञ्चौ उक्तै हरसा शयाताम् ॥१०॥
बृहस्पतिर्न: परि पातु पश्चादुतोत्तरस्मादधरादघायो: ।
इन्द्र: पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥


इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृध: ।
परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिण: ॥१॥
इन्द्रासोमा समघशंसमभ्यगं तपुर्ययस्तु चरुरग्निवाङ् इव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥
इन्द्रासोमा दुष्कृतो वव्र अन्तरनारम्भणे तमसि प्र विध्यतम् ।
यथैषां नातः पुनरेकश्चनोदयत् तद् वामस्तु सहसे मन्युमच्छवः ॥३॥
इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥४॥
इन्द्रासोमा प्र हरतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
उत् तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथ: ॥५॥
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
यां वां होत्रां तं परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥
प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः।
इन्द्रासोमा दुष्कृते मा सुगं भूद् यो मा कदा चिदभिदासति द्रुहुः ॥७॥
यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।
आपो इव काशिना संगृभीता असंनस्त्वासत इन्द्र वक्ता ॥८॥
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभि:।
अहये वा तान् प्रददातु सोम आवा दधातु निर्ऋतेरुपस्थे ॥९॥
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् ।
रिपु स्तेन स्तेयकृद् दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥

१०
पर: सो अस्तु तन्वा तना च तिस्र: पृथिवीरधो अस्तु विश्वा: ।
प्रति शुष्यति यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥१॥
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते।
तयोर्यत् सत्यं यतरदृजीयस्तदित् सोमोवति हन्त्यासत् ॥२॥
न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम्।
हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥३॥
यदि वाहमनृतदेवो अस्मि मोघं वा देवाङ् अप्यूहे अग्ने ।
किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचन्ताम् ॥४॥
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य ।
अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥५॥
यो मायातुं यातुधानेत्याह यो वा रक्षा: शुचिरस्मीत्याह ।
इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥
प्र या जिगाति खर्गलेव नक्तमप द्रुंहुस्तन्वं गूहमाना।
वव्राङ् अनन्ताङ् अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपद्वैः ॥७॥
वि तिष्ठध्वं मरुतो विक्ष्वीच्छत गृभायतः रक्षसः सं पिनष्टन ।
वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥८॥
एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो अदाभ्यम् ।
शिशीते शक्रः पिशुनेभ्यो वध नूनं सृजदशनिं यातुमद्भ्य: ॥९॥
प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन् सं शिशाधि ।
प्राक्तो अपाक्तो अधरादुदक्तो ऽभि जहि रक्षस: पर्वतेन ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP