षोडशकाण्डः - १६ ते २०

पैप्पलादसंहिता


N/A१६
पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्न: ।
इमे पश्चात्पृदाकव: प्रदीध्यंत आसते ॥१॥दीध्य
नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।
जघानेन्द्रो जघ्निमा वयम् ॥२॥
हतास्तिरश्चिराजयो निपिष्ठास: पृदाकवः ।
दर्विं करिक्रतं श्वित्रं दर्भष्वसितं जहि ॥३॥
कैरातिका कुमारिका सका खनति भेषजम् ।
हिरण्ययोभिरभ्रिभिर्गिरीणामुप सानुषु ॥४॥
आयमगन् युवा भिषक् पृश्निहापराजित: ।
स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥५॥
इन्द्रो मे ऽहीन् जम्भयन्मित्रश्च वरुणश्च ।
वाता पर्जन्योभा ॥६॥
पैद्वो मे ऽहीनजम्भयत् पृदाकुं च पृदाकव: । दाकूं
स्वजं तिरश्चिराजिं कसर्णीलं दशोदसिन् ॥७॥
इन्द्रो जघान प्रथमं जनितारमहे तव । ,
तेषां वस्तृह्यमाणानां कः स्वित् तेषामसद्रस: ॥८॥
सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।
सिन्धोर्मध्यं परेत्य व्य ऽनिजमहेर्विषम् ॥९॥
अहीनां सर्वेषां विषं परा वहन्तु सिन्धव: ।
हतास्तिरश्चिराजयो निपिष्टास : पृदाकव: ॥१०॥

१७
ओषधीनामहं वृण उर्वरीरिव साधुया ।
नयाम्यर्वतीरिवाहे निरैतु ते विषम् ॥१॥
यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत् ।
कान्दा विषं कनिक्लकं निरैत्वैतु ते अहे ॥२॥
अङ्गादङ्गात् प्र च्यावय हृदयं परि वर्जय ।
अधा विषस्य तत्तेजोवाचीनं तदेतु ते ॥३॥
अग्ने त्रायस्व विमदं नयेमं पुनर्धेहि जीवसे जातवेद:।
मा ते हेडांसि दुरिताव गन्माहिर्वधीद् द्विषत: पुरुषं न: ॥४॥
ये अग्निजा ओषधीजाहीनां ये अभ्रजा विद्युत आबभूवुः ।
येषां जातानि बहुधा बहूनि तेभ्य: सर्पेभ्यो नमसा विधेम ॥५॥
तौदी नामासि कन्या घृताची नाम वा असि ।
अधस्पदेन ते पदोराददे विषदूषणम् ॥६॥
आरे अभूद्विषमरौद्विषे विषमप्रागपि ।
अग्निरहेर्निरधाद् विषं सोमो निरणयीत् ।
दंष्ट्रारमन्वगाद्विषमहिरमृत ॥७॥

१८
कृतस्तौ जातौ कतमः सो अर्ध: कस्माल्लोकात्कतमस्या: पृथिव्या: ।
वत्सौ विराज: सलिलादुदैतां त्वौ त्वा पृच्छामि कतरेण दुग्धा ॥१॥
यो अक्रन्दयत् सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयान: ।
वत्स: कामदुघो विराजो गुहा: चक्रे तन्व: पराचै: ॥२॥
यानि चत्वारि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम्।
ब्रहौनद्विद्यातपसा विपश्चिद्यस्मिन्नेकं युज्यते यस्मिन्नेकम् ॥३॥
बृहत: परि सामानि षष्ठात्पञ्चाधि निर्मिता ।
बृहद् बृहत्या निर्मितं कुतोधि बृहती मिता ॥४॥
बृहती परि मात्राया मातुर्मात्राधि निर्मिता ।
माया हि यज्ञे मायाया मायाया मातली परि।५॥
वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्नि: ।
ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥६॥
षट् त्वा पृच्छाम ऋषय: कश्यपेदं त्वं हि युक्तं युयुक्षे योग्यं च ।
विराजमाहुर्ब्रह्मणः पितरं तां नो विधेह्यृतुधा सखिभ्यः ॥७॥
यां प्रच्युतामनु यज्ञाः प्रोच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् ।
यस्या व्रते प्रसवे यक्षमेजति सा विराडृषय: परमे व्योमन् ॥८॥
अप्राणैति प्राणेन प्राणतीनां विराट् स्वराजमभ्येति पश्चात् ।
विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्तेनाम् ॥९॥
को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः । ऋतुन्
क्रमान् को अस्या: बहुधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥१०॥

१९
इयमेव सा या प्रथमा व्यौच्छात्साप्स्वन्तश्चरति प्रविष्टा ।
वधूर्जिगाय नवगज्जनित्री महान्तो अस्यां महिमानो अन्त: ॥१॥
छन्द: पक्षे उषसा पेपिशाने समानं योनिमनु सं चरेते ।
सूर्यपत्नी सञ्चरत: प्रजानती केतुमती अजरे भूरिरेतसा ॥२॥
ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः । .
प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥३॥
अग्निषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः ।
गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तः ॥४॥
पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनान्मीमृतवोनु पञ्च ।
पञ्च दिश: पञ्चदशेन क्लृप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥५॥
षड्जाता भूता: प्रथमजर्तस्य षडु सामानि षडहं वहन्ति ।
षड्योगं सीरमनु सामसाम षडाहुर्द्यावापृथिवी: षडुर्वीः ॥६॥
षडाहुः शीतान् षडु मास उष्णानृतुं नो ब्रूत यतमोतिरिक्तः ।
सप्त सुपर्णा: कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥७॥
सप्तहोमाः समिधो ह सप्त मधूनि सप्तर्तवो नु सप्त ॥८॥
सप्ताज्यानि परि भूतमायन् सप्त होतार ऋतुष्या यजन्ति ताः सप्त गृध्रा इति शुश्रवाहम् ॥९॥
अष्टौ धामानि प्रथमजर्तस्याष्टेन्द्रर्त्विजो दैव्या ये ।
अष्टयोनिरदितिरष्टपुत्रा अष्टमीं रात्रिमभि हव्यमेतु ॥१०॥
इत्थं श्रेयो मन्यमाने दमागमं युष्माकं सख्ये अहमस्मि शेवा ।
समानजन्मा क्रतुरस्तु वः शिवः स नः सर्वाः सं चरति प्रजानन्म॥११॥

२०
केवलीन्द्राय ददुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना । केबली
अथा तर्पयच्चतुरश्चतुर्धा देवान् मनुष्याङ् असुरानुतर्षीन् ॥१॥
अष्टेन्द्रस्य षड् यमस्य ऋषीणां सप्त सप्तधा ।
अपो मनुष्यानोषधीस्तां उ पश्चानु सेचिरे ॥२॥
को नु गौ: क एकर्षिः किमु साम का आशिषः ।
यक्ष्मं पृथिव्यामेकवृदेकर्तुः कतमो नु स: ॥३॥
एक गौरेक एकर्षिरेकं सामैकधाशिषः ।
यक्ष्मं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥४॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP