षोडशकाण्डः - १०६ ते ११०
पैप्पलादसंहिता
१०६
मा नो अश्वेषु गोषु पुरुषेषु मा गृधो नो अजाविषु ।
अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥१॥
यस्य तक्मा कासिका हेतिरेकाश्वस्येव वृषण: क्रन्द एति ।
अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥२॥
यस्तिष्ठति विष्टभितो अन्तरिक्षे ऽयज्वन: प्रमृणन् देवपीयून् ।
तस्मै नमो दशभि: शक्वरीभिः ॥३॥
तुभ्यमारण्या: पशवो मृगा वने हितास्तुभ्यं वयांसि शकुना: पतत्रिण: । शुकु
तव यक्षं पशुपतेप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो मृधे ॥४॥
शिंशुमारा अजगराः पुलीकया जषा मत्स्या रजसा येभ्यो अस्यसि ।
न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वान् प्रति पश्यसि भूमिम् ॥५॥
पूर्वस्माद्धंस्युत्तरस्मिन् समुद्रे मा नो रुद्र तक्मना मा विषेण ।
मा न: सं स्रा दिव्येनाग्निना ऽन्यत्रास्मद्विद्युतं पातयैताम् ॥६॥
भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् ।
तस्य मा प्रापत् दुच्छुना का चनेह ॥७॥
भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ॥
य: श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेस्य मृड ॥८॥
मा नो महान्तमुत मा नो अर्भकं मा नः उक्षन्तमुत मा नो उक्षत: ।
मा नो हिंसी पितरं मोत मातरं स्वां तन्व रुद्र मा रीरिषो न: ॥९॥
रुद्रस्यैलबकारेभ्यो ऽसंसूक्त गिरेभ्यः।
इदं महाश्वेभ्य: श्वभ्यो अकरं नम: ।
नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्य: ।
नमः संभुञ्जतीभ्य: नमो नमस्वस्तीभ्यो ॥१०॥
१०७
नमस्ते जायमानायै जाताया उत ते नमः ।
बालेभ्य: शफेभ्यो रूपायाघ्न्ये ते नमः ॥१॥
यो विद्यात् सप्त प्रवत: सप्त विद्यात् परावत: ।
शिरो यज्ञस्य यो विद्यात् स वशां प्रति गृह्णीयात् ॥२॥
वेदाहं सप्त प्रवत: सप्त वेद: परावत: ।
शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥३॥
यया द्यौर्यया पृथिवी ययापो गुपिता इमाः ।
वशां सहस्रधारां ब्रह्मणाच्छावदामसि ॥४॥
शतं वत्साः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्या: ।
ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा ॥५॥
यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका ।
वशा पर्जन्यपत्नी देवाङ् अप्येति ब्रह्मणा ॥६॥
अनु त्वाग्नि: प्राविशदनु सोमो वसे त्वा ।
ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे ॥७॥
अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे॥
तृतीयं राष्ट्रं धुक्षे ऽन्नं क्षीरं वशे त्वम् ॥८॥
यदादित्यैर्हूयमानोपातिष्ठ ऋतावरी।
इन्द्रः सहस्रं पात्रान् सोमं त्वापाययद् वशे ॥९॥
यदनूचीन्द्रमैरात् त्व ऋषभो ऽह्वयत्।
तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धो ऽभरद् वशे ॥१०॥
१०८
यत् क्रुद्धो धनपति: क्षीरं ते अभरद् वशे ।
इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति ॥१॥
त्रिषु पात्रेषु तं सोममा देव्यभरद् वशा ।
अथर्वा यत्र दीक्षितो वर्हिष्यास्त हिरण्यये ॥२॥
सं हि सोमेनागत समु सर्वेण पद्वता ।
वशा समुद्रे प्रानृत्यदृच: सामानि बिभ्रती ॥३॥
सं हि सूर्येणागत समु सर्वेण चक्षुषा ।
वशा समुद्रमध्यष्ठाद् गन्धर्वै: कलिभिः सह ॥४॥
सं हि वातेनागत समु सर्वैः पतत्रिभि: ।
वशा समुद्रमत्यख्यद् भद्रा ज्योतींषि बिभ्रती ॥५॥
तद् भद्राः समगच्छन्त वशा द्वेष्ट्यथो स्वधा
अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥६॥
अभीवृता हिरण्येन यदतिष्ठ ऋतावरि।
अश्व: समुद्रो भूत्वाध्यस्कन्दद् वशे त्वा ॥७॥
वशा माता राजन्यस्य वशा माता स्वधे तव।
वशाया यज्ञ - आयुधं ततश्चित्तमजायत ॥८॥
ऊर्ध्वो बिन्दुरुदचरद् ब्रह्मणः ककुदादधि।
ततस्त्वं यज्ञिषे वशे ततो होता अजायत ॥९॥
आस्नस्ते गाथा ऽभवन्नुष्णिहाभ्यो बलं तव।
पाजस्याज्जज्ञे ते यज्ञ स्तनेभ्यो रश्मयो वशे ॥१०॥
१०९
ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव। इर्मा शक्थि
आन्त्रेभ्यो अत्रा यज्ञिरे उदरादधि वीरुधः ॥१॥
यदुदरं वरुणस्यानुप्राविशथा वशे।
ततस्त्वा ब्रह्मोदह्वयत् स हि नेत्रमवेत्तव ॥२॥
सर्वे गर्भादवेपन्त जायमानादसूस्वः।
ससूव हि तामाहुर्वशेति ब्रह्मणा क्लृप्त उत बन्धुरस्या: ॥३॥
युध एक: सं सृजति यो अस्या एक इद्वशी ।
तरांसि यज्ञा अभवन् तरसां चक्षुरभवद् वशा ॥४॥
वशा सूर्यं प्रत्यगृह्णाद् वशा यज्ञमधारयत्।
वशायामन्तराविशदोदनो ब्रह्मणा सह ॥५॥ बिश
वशामेवाहुरमृतं वशां मृत्युमुपासते।
वशेदं सर्वमभवद्देवा मनुष्या असुरा: पितर ऋषय: ॥६॥
य एवं विद्यात् स वशां प्रति गृह्णीयात् ।
तथा हि यज्ञः सर्वपाद्दुहे दात्रे अनपस्फुरन् ॥७॥
तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि ।
तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥८॥
चतुर्धा रेतो अभवद् वशायाः आपस्तुरीयं अमृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम्।
य एवं विद्यात् स वशां प्रति गृह्णीयात् ॥९॥
वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः।
वशाया दुग्धमपिबन् साध्या वसवश्व ये ॥१०॥
११०
वशाया दुग्धं पीत्वा साध्या वसवश्च ये।
इमे ब्रध्नस्य विष्टपि पयी अस्या उपासते ॥१॥
सोममेनामेके दुह्रे घृतमेक उपासते।
य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिव: ॥२॥
वशां दत्त्वा ब्राह्मणेभ्यः सर्वांल्लोकान् समश्नुते।
ऋतं ह्यस्यामाहितमपि ब्रह्माथो तपः ॥३॥
वशां देवा उप जीवन्ति वशां मनुष्या उत।
वशेदं सर्वमभवद्यावत् सूर्यो विपश्यति ॥४॥
(इति क्षुद्रकाण्डनाम षोडशकाण्डे सप्तदशो अनुवाक:)
N/A
References : N/A
Last Updated : May 12, 2021
TOP