षोडशकाण्डः - १ ते ५

षोडशकाण्डः

N/A१
अन्तकाय मृत्यवे नमो इहायमस्तु पुरुषः सहासुमा ।
सूर्यस्य भागे अमृतस्य लोके प्राणा अपाना इह ते रमन्ताम् ॥१॥
उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् ।
उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥२॥
इह ते ऽसुरिह प्राण इहायुरिह ते मनः ।
उत्वा निर्ऋत्या: पाशेभ्यो दैव्या वाचा भरामसि ॥३॥
उत्क्रामात: माव पत्था मृत्योः पड्वीशमवमुञ्चमान: ।
मा छित्था अस्माल्लोकादग्ने: सूर्यस्य संदृश: ॥४॥
तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्याप: ।
सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥५॥
उद्यानन्ते पुरुष नावयानं जीवातन्ते दक्षपतिं कृणोतु ।
आ हि रोहो मममृतं सुखं रथमथजिर्विर्विदथमा वदसि ॥६॥
माते मनस्तत्रगान् मा तिरोभून् मा जीवेभ्यः प्रमोदो मानुगाः पितॄन्।
विश्वे देवा अभिरक्षन्तु त्वेह ॥७॥
मा गताना मादिधीथा ये नयन्ति परावतम् ।
उदारोह तमसो ज्योतिरेह्या ते हस्तं रभामहे ॥८॥
श्यामश्च त्वा मा बलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।
अर्वाङ् एहि मा वि दीध्यो माति तिष्ठ: पराङ्मनाः ॥९॥
मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि ।
एतत् पुरुष मा प्र पत्था अभयं परस्तादभयं ते अर्वाक् ॥१०॥


रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते ।
वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥१॥
रक्षतु त्वा पृथिवी रक्षतु द्यौ: सूर्यश्च त्वा रक्षतां चन्द्रमाश्च ।
मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर ॥२॥
अन्तरिक्षं रक्षतु देवहेत्या: बोधश्च त्वा प्रतीबोधश्च रक्षताम्॥
अस्वप्नश्च त्वानवद्राणश्च रक्षतां गोपायंश्च त्वा रक्षतां जागृविश्च ॥३॥
ते त्वा रक्षन्तु ते त्वा गोपायन्तु ते त्वांहसस्पान्तु तेभ्यो नमस्तेभ्य स्वाहा ॥४॥
जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाण:॥
मा त्वा प्राणो बलं हासीदसुं तेनु ह्ययामसि ॥५॥
मा त्वा जम्भः संहनुर्मा तमोविदन् मा जिह्वाबर्हिः प्रमयुः कथा स्याः।
उत् त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥६॥
अयं देवा इहैवास्त्वयं मामुत्र गादितः॥
इमं सहस्रवीर्येण मृत्योरुत् पारयामसि ॥७॥
उत् त्वा मृत्योरपीपरं सं धमन्तु वयोधस: ।
मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥८॥
अहार्षं त्वाविदं त्वा पुनरागा: पुनर्नव: ।
सर्वाङ्ग: सर्व ते चक्षुः सर्वमायुश्च ते ऽविदन् ॥९॥
उत् त्वा द्यौरुत् पृथिव्युत् प्रजापतिरग्रभीत् ।
उत् त्वा मृत्योरोषधय: सोमराज्ञीरपीपरन् ॥१०॥
व्यवात् ते ज्योतिरभूदप त्वत् तमो अक्रमीत् ।
अप त्वन्मृत्युं निर्ऋतिमप यक्ष्मं नि दध्मसि ॥११॥


आ रभस्वेमाममृतस्य श्नुष्टिमच्छिद्यमाना जरदष्टिरस्तु ते ।
असुं त आयु: पुनरा भरामि रजस्तमो मोप गा मा प्रमेष्ठा: ॥१॥
जीवतां ज्योतिरभ्येहि लोकमा त्वा हरामि शतशारदाय ।
द्राघीय आयुः प्रतरं ते कृणोम्यवमुञ्चन्तु मृत्युपाशान् अशस्तीः ॥२॥
वातत्ते प्राणमविदन् सूर्याच्चक्षुरहं परि ।
यस्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वदजिह्वयालपन् ॥३॥
प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि ।
नमस्ते मृत्यो चक्षुषे नम: प्राणाय ते ऽकरन् ! ॥४॥
अयं जीवतु मा मृतेमं समीरयामसि ।
कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥५॥
जीवलां नघारिषां जीवन्तीमोषधीमहम् ।
त्रायमाणां सहमानां सहस्वतीमरुन्धतीमिह हुवे ऽस्मा अरिष्टतातये ॥६॥
अधि ब्रूहि मा रभथा: सृजेमं तवैव संत्सर्वहाया इहास्तु ।
भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः ॥७॥
देवानां हेतिः परि त्वा वृणक्तु पारयामि रजस उत्त्वा मृत्योरपीपरम्।
आरादग्निं क्रव्यादं निरुह जीवातवे ते परिधिं दधामि ॥८॥
अस्मै मृत्योरधिब्रूहीमं दयस्वोदितो यमेतु । ब्रुही
अरिष्ट: सर्वाङ्ग: सुश्रुज्जरसा शतहायनात्मनाभुजमश्नवत् ॥९॥
यत् ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।
पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म्म कृण्मसि ॥१०॥


कृणोमि ते प्राणापानौ जरां मृत्युं कृणुतां दीर्घमायु: स्वस्ति ।
वैवस्वतेन प्रहितान् यमदूतांश्चरत आरादप सेधामि सर्वान् ॥१॥
अरादरातिं निर्ऋतिं परो ग्राहिं क्रव्याद: पिशाचान् ।
रक्षो यत् सर्वं दुर्भूतं तत् तम इवाप हन्मसि ॥२॥
अग्नेष्टे प्राणममृतादायुष्मतो वन्वे जातवेदस: ।
यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥३॥
शिवे ते स्तां द्यावापृथिवी असंतापे अधिश्रियौ ।
शं ते सूर्या तपति शं वातो वातु ते हृदे ।
शिवा अभिरक्षन्तु त्वापो दिव्या: पयस्वतीः शिवास्ते सन्त्वोषधीः ॥४॥
उत् त्वा हार्षमधरस्यादुत्तरां पृथिवीमभि ।
तत्र त्वादित्यौ रक्षतां सूर्या चन्द्रमसावुभा ॥५॥
यते वास: परिधानं यां नीविं कृणुषे त्वम् ।
शिवं ते तन्वे तत् कृण्मः संस्पर्शे ऽद्रूक्ष्णमस्तु ते ॥६॥
यत् क्षुरेण मर्चायता सुतेजसा वप्ता वपसि केशश्मश्रु ।
शुभं मुखं मैनमायुः प्र मोषी: ॥७॥
शिवौ ते स्तां व्रीहियवावबलासावदोमथौ ।
एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥८॥
यदश्नाशि यत् पिबसि धान्यं कृष्या: पयः ।
आद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥९॥
अह्ने च त्वा रात्रये चोभाभ्यां परि दध्मसि ।
अरायेभ्यो जिघत्सुभ्य इमं न: परि रक्षतु ॥१०॥


शतं ते ऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि सन्तु ।
इन्द्राग्नी विश्वे देवा अनुमन्यन्तामहृणीयमाना: ॥१॥
शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दध्मसि ।
वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥२॥बर्ध
मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् ।
तस्मात् त्वां मृत्योर्गोपतेरुद्धरामि स मा मृथाः ॥३॥
सो ऽरिष्टो न मरिष्यसि न मरिष्यसि मा बिभे: ।
न वै तत्र प्र मीयन्ते नो यन्त्यध्वरं रजः ॥४॥म्रीय
सर्वो वै यत्र जीवति गौरश्व: पुरुषः पशुः ।
यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम ॥५॥ क्रीय
परि त्वा पातु समानेभ्यो ऽभिचारात् सबन्धुभ्यः ।
यमम्रिर्भवामृतो ऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥६॥
विश्वे देवा अमृतेन बिभ्रत्वधिवक्ता पशुपतिष्टे अस्तु ।
अनामयत्सविता ते कृणोत्वा त्वा प्राणो विशतु जीवनाय ॥७॥
ये मृत्यव एकशतं या नाष्ट्रातिजीव्या ।
मुञ्चन्तु तस्मात् त्वा देवा अग्नेर्वैश्वानरादधि ॥८॥
(इति क्षुद्रकाण्डनाम षोडशकाण्डे प्रथमो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP