षोडशकाण्डः - १३१ ते १३५

पैप्पलादसंहिता


१३१
विष्णो: क्रमो ऽसि सपत्नहा पृथिवीसंशितो अग्नितेजा: ।
पृथिवीमनु वि क्रमेहं पृथिव्यास्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
पूर्वजान् सपत्नान् ऽवैनान्वाधे अत्येनान् क्रामान्वपाङ् अपनुत्त: सपत्न: ॥१॥
विष्णो: क्रमो ऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।
अन्तरिक्षमनु वि क्रमेहमन्तरिक्षात्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
सहजान् सपत्नान् अवैनान्वाधे अत्येनान् क्रामान्वपाङ् अपनुत्त: सपत्न: ॥२॥
विष्णो: क्रमो ऽसि सपत्नहा द्यौसंशित: सूर्यतेजाः ।
दिवमनु वि क्रमेहं दिवस्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
अपरजान् सपत्नानवैनान्वाधे अत्येनान् क्रामान्वपाङ् अपनुत्त: सपत्न: ॥३॥
विष्णोः क्रमो ऽसि सपत्नहा दिक्संशितो वाततेजा: ।
दिशो अनु वि क्रमेहं दिग्भ्यस्तं निर्भजामो
यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ॥४॥
विष्णो: क्रमो ऽसि सपत्नहाशासंशितो मनस्तेजा: ।
आशा अनु वि क्रमेहमाशाभ्यस्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ॥५॥
विष्णो: क्रमो ऽसि सपत्नहापसंशितो वरुणातेजा: ।
आपो अनु वि क्रमेहमद्भ्यस्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ॥६॥
विष्णो: क्रमो ऽसि सपत्नह ऋक्संशितो सामतेजा: ।
ऋचो अनु वि क्रमेहमृग्भ्यस्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ॥७॥
विष्णो: क्रमो ऽसि सपत्नहा यज्ञोसंशितो ब्रह्मतेजा: ।
यज्ञमनु वि क्रमेहं यज्ञात्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ॥८॥
विष्णो: क्रमो ऽसि सपत्नहौषधीसंशितः सोमतेजा: ।
ओषधीरनु वि क्रमेहमोषधिभ्यस्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ॥९॥
विष्णो: क्रमो ऽसि सपत्नहा कृषिसंशित: पुरुषतेजा: ।
कृषिमनु वि क्रमेह कृष्यास्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१०॥
विष्णो: क्रमो ऽसि सपत्नहा प्राणसंशितोन्नतेजा: ।
दिशी अनु वि क्रमेहं प्राणात्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥११॥

१३२
अगमं स्वरगमं ज्योतिरभ्यष्ठां विश्वा: पृतना अराती: ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामसि ॥१॥
सूर्यस्यावृत मन्वावर्ते दक्षिणामन्वावृतम् ।
सा मे द्रविणं यच्छन्तु सा मे ब्राह्मणवर्चसम् ॥२॥
दिशो ज्योतिष्मतीरभि पर्यावर्ते ।
ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥३॥
सप्तऋषीनभि पर्यावर्त्ते ।
ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥४॥
ब्रह्माभि पर्यावर्त्ते ।
ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥५॥
ब्राह्मणानभि पर्यावर्त्ते ।
ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥६॥
यत्ते अन्नं भुवस्पत आक्षियेत पृथिवीमनु । भूव
तस्य नस्त्वं भुवस्पते संप्रयच्छ प्रजापते ॥७॥भूव
यं वयं मृगयामहे तं वधै स्तृणवामहै।
व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥८॥
वैश्वानरस्य दंष्ट्राभ्यां मृत्युस्तं समधादभि ।
इयं तं प्सात्वाहुति: समिद्देवी सहीयसी ॥९॥
राज्ञो वरुणस्य बन्धोसि
सो ऽमुमामुष्यायणममुष्या: पुत्रमन्ने प्राणे बधान ।
अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ॥१०॥
सो अस्यपर्वाणि प्र शृणातु सर्वा तन्मे देवाह्यनु जानन्तु विश्वे ।
यदग्ने तपसा तप उपप्रेक्षामहे वयम् ।
प्रिया: श्रुतस्य भूयाश्चायुष्मन्त: सुमेधसः ॥११॥

१३३
विराड् वा इदमग्रे ऽजायत तस्या जाताया अबिभेत् सर्वम् |
इयमेवेदं भविष्यति न वयमिति ॥१॥
सोदक्रामत् सा दक्षिणाग्नौ न्यक्रामत् ।
यज्ञर्त्तो वासतेयो भवति य एवं वेद ॥२॥
सोदक्रामत् सा गार्हपत्ये न्यक्रामत् ।
गृहमेधी गृहपतिर्भवति य एवं वेद ॥३॥
सोदक्रामत् साहवनीये न्यक्रामत् ।
यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥४॥
सोदक्रामत् सा सभायां न्यक्रामत्।
यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥५॥
सोदक्रामत् सा समितौ न्यक्रामत् !
यन्यस्य समितिं समित्यो भवति य एवं वेद ॥६॥
सोदक्रामत् सामन्त्रणे न्यक्रामत् ।
यन्त्वस्या मन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥७॥
सोदक्रामत् सान्तरिक्षे चतुर्धा विक्रान्ता तिष्ठत्तां देवमनुष्या अब्रुवन्नियं तद् वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति तामुपाह्वयन्त ।
ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥८॥सुनृ
तस्या बृहद्रथन्तरं च द्वौ स्तनावास्तां वृह
यज्ञायज्ञियञ्च वामदेव्यं च द्वौ ॥९॥
ओषधीर्वै रथन्तरं देवा अदुह्रन् व्यचो बृहदपो वामदेव्यं यज्ञं यज्ञायज्ञियम् । वृह
ये ते वै विराज: कामधुगास्तना: ।
कामंकामं विराजं दुहे य एवं वेद ॥१०॥

१३४
सा वनस्पतीनागच्छत्तां वनस्पतयोघ्नत सा संवत्सरे समभवत् ।
तस्मात्संवत्सरे वनस्पतीनां वृक्णमपि रोहति वृश्चतेस्याप्रियो भ्रातृव्यो य एवं वेद ॥१॥
सा पितॄनागच्छत्तां पितरोघ्नत सा मासे समभवत् ।
तस्मात् मासे पितृभ्यो ददति स्वधावान् पितृषु भवति
प्र पितृयाणं पन्थां जानाति य एवं वेद ॥२॥
सा देवानागच्छतां देवा अघ्नत सार्धमासे समभवत ।
तस्मादर्धमासे देवेभ्यो जुहोति जुहोत्यग्निहोत्रं
प्र देवयानं पन्थां जानाति य एवं वेद ॥३॥
सा मनुष्यानागच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्।
तस्मादुभयद्युर्मनुष्याणामुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥४॥

१३५
सोदक्रामत् सासुरानागच्छत्तामसुरा उपाह्वयन्त माय एहीति ॥१॥
तस्या विरोचन: प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् ॥२॥
तां द्विमूर्धार्त्व्योधोक् तां मायामधोक् ॥३॥
तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥४॥
सोदक्रामत् सा पितॄनागच्छत्तां पितर उपाह्वयन्त स्वध एहीति ॥५॥
तस्य यमो वैवस्वतो वत्स आसीद्रजतपात्रं पात्रम् ॥६॥
तामन्तको मार्त्यवोधोक् तां स्वधामधोक् ॥७॥
तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥८॥
सोदक्रामत् सा मनुष्यान् आगच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति ॥९॥
तस्या मनुर्वैवस्वतो वत्स आसीत् पृथिवी पात्रम् ॥१०॥
तां पृथी वैन्योधोक तां कृषिं च सस्यं चाधोक ॥११॥
तां कृषिं च सस्यं च मनुष्या उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥१२॥
सोदक्रामत् सा देवानागच्छत्तां देवा उपाह्वयन्तोर्ज एहीति ॥१३॥
तस्या इन्द्रो वत्स आसीत् दारु पात्रं पात्रम् ॥१४॥
तां सविताधोक तामूर्जामधोक् ॥१५॥
तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥१६॥
सोदक्रामत् सा सप्तऋषीनागच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति ॥१७॥
तस्याः सोमो वत्स आसीच्छन्द: पात्रम् ॥१८॥
तां बृहस्पतिराङ्गिरसोधोक् तां ब्रह्म च तपश्चाधोक् ॥१९॥
तद् ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥२०॥
सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ॥२१॥
तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत् पुष्करपर्णं पात्रम् ॥२२॥
तां वसुरुचि: सौर्य वर्चसोधोक् तां पुण्य गन्धमधोक् ॥२३॥
तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥२४॥
सोदक्रामत्सा पुण्यजनानागच्छत्
तां पुण्यजना उपाह्वयन्ति तिरोध एहीति ॥२५॥
तस्याः कुबेरो वैश्रवणो वत्स आसीदाम पात्रं पात्रम् ॥२६॥
तां रजतनाभिः काबेरकोधोक् तां तिरोधामधोक् ॥२७॥धक्
तां तिरोधां पुण्यजना उप जीवन्ति तिरोधत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥२८॥
सोदक्रामत् सा सर्पानागच्छत्तां सर्पा उपह्वयन्त विषवत्येहीति ॥२९॥
तस्यास्तक्षको वैशालेयो वत्स आसीदलाबुपात्रं पात्रम् ॥३o॥
तं धृतराष्ट्र ऐरावतोधोक् तां विषमधोक् ॥३१॥
तद्विषं सर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥३२॥
तस्माद्यस्या अलाबुनाभिषिञ्चेन्मनसा त्वा
प्रत्याहन्मित्येनं प्रत्याहन्यात् ॥३३॥
यत् प्रत्याहन्ति विषं प्रत्याहन्ति
न च प्रत्याहन्ति विषमनुप्रषिच्यते ॥३४॥
विषमस्या प्रियं भ्रातृव्यं हन्ति य एवं वेद ॥३५॥
(इति क्षुद्रकाण्डनाम षोडशकाण्डे ऊनविंशो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP