षोडशकाण्डः - ६१ ते ६५
पैप्पलादसंहिता
६१
केन देवाङ् अनु क्षियति केन दैवरजनयद्विश: ।
केनेदमन्यन्नक्षत्रं केन सत् क्षत्रमुच्यते ॥१॥
केन पर्जन्यमाप्नोति केन सोमं विचक्षणम् ।
केनेममग्निं पुरुष: केन संवत्सरं ममे ॥२॥
केनेयं भूमिर्निहिता केन द्यौरुत्तरा हिता । रुत
केनेदमूर्ध्वं तिर्यक् चान्तरिक्षं व्यचो हितम् ॥३॥
ब्रह्मणा भूमिर्निहिता ब्रह्म द्यामुत्तरां दधौ ।
ब्रह्मेदमूर्ध्वं तिर्यक् चान्तरिक्षं व्यचो हितम् ॥४॥तीर्यक्
केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् ।
केन यज्ञश्च श्रद्धा च केनास्मिन्निहितं मन: ॥५॥
ब्रह्म श्रोत्रियमाप्नोति ब्रहेमं परमेष्ठिनम् ।
ब्रह्म यज्ञश्च श्रद्धा च ब्रह्मास्मिन्निहितं मन: ॥६॥
क इदमस्थ्यसृजत क इदं मांसं समभरत् ।
क इमां त्वचं च लोमं च को इदं रूपं समैरयत् ॥७॥
क इदं ब्रह्मास्थ्यसृजत ब्रह्म मांसं समभरत् ।
ब्रह्म त्वचं च लोमं च ब्रह्मरूपं समैरयत् ॥८॥
क इदं चक्षुरसृजत क: प्राणं केष्वामयत् ।
क इदं मनश्च वाचञ्च क इमां समभरत्पुरम् ॥९॥
ब्रह्म चक्षुरसृजत ब्रह्म के प्राणमावयत् ।
ब्रह्म मनश्च वाचञ्च ब्रह्म समभरत् पुरम् ॥१०॥
६२
नैनं चक्षुर्जहाति न प्राणो जरस: पुरा ।
पुरं यो ब्रह्मणो वेद यस्मात् पुरुष उच्यते ॥१॥
यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।
तस्मै ब्रह्म च ब्राह्म्यश्चायुष्प्राणं प्रजां ददुः ॥२॥
अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।
तस्यां हिरण्यय: कोश: स्वर्गो ज्योतिषावृत: ॥३॥
तस्मिन् हिरण्यये कोशे त्र्योरे त्रिप्रतिष्ठिते ।
तस्मिन् यदन्तरात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४॥
प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।
पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥५॥
६३
अयं ते वरणो मणि: सपत्नक्षयण: कृत: ।
तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यत: ॥१॥
प्रैणाञ्छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात् ।
अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वर्यत् ॥२॥
आ त्वारक्षद्वरणो विश्वभेषज: सहस्राक्षो हरितो हिरण्यय: ।
यस्ते शत्रून्नधरान्पादयासि पूर्वस्तान् दभ्नुहि य उ त्वा द्विषन्ति ॥३॥
अयं ते कृत्यां विततां पौरुषेयमयं वधम् ।
अयं ते सर्वं पाप्मानं वरणो वारयिष्यते ॥४॥
वरणो वारयाता इत् अयं देवो वनस्पतिः।
यक्ष्म: प्रविष्टो यो ऽस्मिन्तमु देवा अवीवरन् ॥५॥
स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम्।
परिक्षवाच्छकुने: पापवादादयं मणिर्वरणो वारयातै ॥६॥
अरात्या मा निर्ऋत्या अभिचारादथो भयात् ।
मृत्योरोजीयसो वधात् त्वं वरणो वारय ॥७॥
वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धव: ।
असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥८॥
यन्मे माता यन्मे पिता भ्रातरो यच्च ते स्वा यदेनश्चकृमा वयम्।
तस्मान्नो वारयिष्यते अयं देवो वनस्पति: ॥९॥
अरिष्टोहमरिष्टगुरायुष्मान् सर्वपूरुषः ।
तस्मान्मायं वरणो मणि: परि पातु दिशोदिशः ॥१०॥
६४
अयं मे वरण उरसि राजा देवो वनस्पति: ।
स मे क्षत्रं च राष्ट्रं च पशूनोजश्च ते दधत् ॥१॥
इमं बिभर्मि वरणमायुष्माञ्छतशारद: ।
स मे शत्रून् वि बाधतामिन्द्रो दस्यूनिवासुरान् ॥२॥
यथा वातो वनस्पतीन् जीर्णान्भनक्त्योजसा ।
एवा सपत्नांस्त्वं भङ्ग्धि पूर्वान् जातानुतापरान् वरणस्त्वाभि रक्षतु ॥३॥
यथा वातेन प्रक्षीणा वृक्षा: शेरे न्यर्पिता: ।
एवा सपत्नांस्त्वं सर्वान् प्र क्षिणीहि न्यर्पय पूर्वान् जातानुतापरान् वरणस्त्वाभि रक्षतु ॥४॥
यथा वातश्चाग्निश्च सर्वान् प्सातो वनस्पतीन् !
एवा सपत्नास्त्वं प्साहि पूर्वान् जातानुतापरान् वरणस्त्वाभि रक्षतु ॥५॥
तास्त्वं प्र छिन्द्धि वरण पुरा दिष्टात् पुरायुष: ।
य इमं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥६॥
यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।
एवा सपत्नांस्त्वं सर्वान् अति भाति श्व:श्वो वरणस्त्वाभि रक्षतु ॥७॥
यथा यश: पृथिव्यां यथास्मिन् जातवेदसि ।
एवा मे वरणो मणि: कीर्त्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा ॥८॥
यथा यशो अग्निहोत्रे वषटकारे यथा यशः ।
एवा मे वरणो मणिः कीर्त्तिं भूतिं नि यच्छतु
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥९॥
यथा यश: सोमपीथे मधुपर्के यथा यश: ।
एवा मे वरणो मणिः कीर्त्तिं भूतिं नि यच्छतु
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१o॥
६५
यथा यश: कन्यायां यथास्मिन् संभृते रथे ।
एवा मे वरणो मणि: कीर्तिं भूतिं नि यच्छतु
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१॥
यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि ।
एवा मे वरणो मणिः कीर्त्तिं भूतिं नि यच्छतु
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२॥
यथा यश: प्रजापतौ यथास्मिन् परमेष्ठिनि ।
एवा मे वरणो मणि: कीर्त्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा ॥३॥
यथा देवेष्वमृतं यथैषु सत्यमाहितम् ।
एवा मे वरणो मणि: कीर्त्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा ॥४॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP