षोडशकाण्डः - १२१ ते १२५
पैप्पलादसंहिता
१२१
यत् प्राञ्चमुद्वर्तयति यज्ञाय च देवेभ्यश्चा वृश्चते ॥१॥
यद्दक्षिणाञ्चमुद्वर्तयति यमाय च पितृभ्यश्चा वृश्चते ॥२॥
यत् प्रत्यञ्चमुद्वर्तयति वरुणायाप्सुषदे चा वृश्चते ॥३॥
यदुदञ्चमुद्वर्तयति सोमाय च राज्ञे सप्तऋषिभ्यश्चा वृश्चते ॥४॥
यदनुद्वृतमुद्धरति दिशोदिशो वैनं भयमा गच्छति ॥५॥
१२२
यत् प्राचीनं बर्हि: स्तृणाति यज्ञाय च देवेभ्यश्चा वृश्चते ॥१॥
यद्दक्षिणाचीनं बर्हि: स्तृणाति यमाय च पितृभ्यश्चा वृश्चते ॥२॥
यत् प्रतीचीनं बर्हि: स्तृणात्यकृतपूर्व करोति ॥३॥
यदुदीचीनं बर्हिः स्तृणाति सोमाय च राज्ञे सप्तऋषिभ्यश्चा वृश्चते ॥४॥
१२३
यत् पुरस्तात्पात्रस्य श्छिरं करोत्यर्ष: प्रतिग्रहीतुर्मुखे जायते ॥१॥
यद्दक्षिणत: पात्रस्य श्छिरं करोति यमाय च पितृभ्यश्चा वृश्चते ॥२॥
यत् पश्चात् पात्रस्य श्छिरं करोति प्रतीची प्रतिग्रहितारं शरव्यछितु ॥३॥
यदुतरत: पात्रस्य श्छिरं करोति
सोमाय च राज्ञे सप्तऋषिभ्यश्चा वृश्चते ॥४॥
१२४
यच्छुक्रो भवत्यादित्यानामेव प्रियं धामोपैति ।
स य: शुक्रं प्राश्नीयादादित्यानां त्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात्।
ततश्चैनमन्येन धाम्ना प्राश्नात्यादित्येभ्य वृश्चते ॥१॥
यत फलीकृतो भवति विश्वेषामेव देवानां प्रियं धामोपैति ।
स य: फलीकृतं प्राश्नीयाद्विश्वेषां त्वा देवानां प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात्।
ततश्चैनमन्येन धाम्ना प्राश्नाति विश्वेभ्यो देवेभ्य आ वृश्चते ॥२॥
यद् फलीकृतो भवति मरुतामेव देवानां प्रियं धामोपैति ।
स यो फलीकृतं प्राश्नीयान्मरुतां त्वा देवानां प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नाति मरुद्भ्य आ वृश्चते ॥३॥
यद् वक्षामो भवत्यग्नेरेव प्रियं धामोपैति ।
स यद वक्षामं प्राश्नीयादग्नेस्त्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नात्यग्नय आ वृश्चते ॥४॥
यदनवक्षामो भवति मित्रावरुणयोरेव प्रियं धामोपैति ।
प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नामि मित्रावरुणाभ्यामा वृश्चते ॥५॥
यत् क्लिन्नो भवतीन्द्रस्यैव प्रियं धामोपैति ।
स यत् क्लिन्न प्राश्नीयादिन्द्रस्य त्वा प्रियेण धाम्ना प्राश्नामीत्येन प्राश्नीयात् । दीन्द्र
ततश्चैनमन्येन धाम्ना प्राश्नातीन्द्राया वृश्चते ॥६॥
यत् क्लिन्नो भवति पितॄणामेव प्रियं धामोपैति ।
स यत् क्लिन्नं प्राश्नीयात्पितॄणां त्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नाति पितृभ्य आ वृश्चते ॥७॥
यत् क्षुद्रो भवत्यपामेव प्रियं धामोपैति ।
स यत् क्षुद्रं प्राश्नीयादपां त्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नात्यद्भ्य आ वृश्चते ॥८॥
यच्छिथिरो भवति दिशामेव प्रियं धामोपैति ।
स यत् शिथिर प्राश्नीयाद्दिशां त्चा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात्। प्राश्नि
ततश्चैनमन्येन धाम्ना प्राश्नाति दिग्भ्य आ वृश्चते ॥९॥
यद् गलन्ती भवति प्रजापतेरेव प्रियं धामोपैति ।
स यद् गलन्तीनं प्राश्निया प्रजापतेस्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नाति प्रजापतय आ वृश्चते ॥१०॥
यच्छुष्को भवत्यूर्ध्वनभस एव प्रियं धामोपैति । त्युर्ध्व
स यच्छुष्कं प्राश्नीयादूर्ध्वनभसस्त्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नात्यूर्ध्वनभसि आ वृश्चते ॥११॥
१२५
यत् क्षीरमुपसिच्य प्रथमं प्राश्नाति किलासः प्रतिग्रहीतारं हन्ति ।१॥
यत् सर्पिरुपसिच्य प्रथमं प्राश्नाति शर्वः प्रतिग्रहितारं हन्ति ॥२॥
यन् मधूपसिच्य प्रथमं प्राश्नाति महादेवः प्रतिग्रहितारं हन्ति ॥३॥
यन् मांसमुपसिच्य प्रथमं प्राश्नातीशानः प्रति ग्रहितारं हन्ति ॥४॥
यदुदकमुपसिच्य प्रथमं प्राश्नाति तत् समृद्धम् ।
ज्योग् जीवति सर्वमायुरेति न पुरा जरसः प्र मीयते य एवं वेद ॥५॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP