षोडशकाण्डः - ७६ ते ८०

पैप्पलादसंहिता


७६
सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन ।
नीचैः सपत्नान् मम पादय त्वमभिष्टुतो महता वीर्येण ॥१॥
यन्मे मनसो न प्रियं न चक्षुषो यन्मे हृदये नाभिनन्दति ।
तद्दुष्वप्न्यं प्रतिमुञ्चामि सपत्ने कामं स्तुष्टुवानुदहं भिदेयम् ॥२॥
दुष्वप्न्यं काम दुरितं च कामाप्रजस्तामस्वगतामवर्तिम्।
उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात् ॥३॥
सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम ।
तया सपत्नान् परिवृङधि ये मम पर्यनान् प्राणः प्रजा: पशवो जीवनं वृणक्तु ॥४॥ङ्घि
कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितु: सवेन ।
अग्नेर्होत्रेण प्र णुदे सपत्नांच्छम्बीव नावमुदकेषु धीर: ॥५॥
अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव ।
विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥६॥
इदमाज्यं घृतवज्जुषाणा: कामज्येष्ठा इह मादयन्ताम् ।
कृण्वन्तु मह्यमसपत्नमेव ॥७॥
इन्द्राग्नी काम सरथं हि भूत्वा नीचै: सपत्नान् मम पादयाथ: । निचैः
तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥८॥
जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् ।
निरिन्द्रिया ऽरसाः सन्तु सर्वे यथा न जीवात् कतमच्चनैषाम् ॥९॥
अवधीत् कामो मम ये सपत्ना उरु लोकमकरन् मह्यमेधतुम् ।
मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥१०॥

७७
यत्ते काम शर्म त्रिवरूथमुद्भुर्ब्रह्म वर्म विततमनतिव्याध्यं कृतम् ।
तेन सपत्नान् परि वृङ्गधि ये मम पर्येनान् प्राणः प्रजा: पशवो जीवलं वृणक्तु ॥१॥
अधरांच: प्र प्लवन्तां छिन्ना नौरिव बन्धनात् ।
न सायकप्रणुत्तानां पुनरस्ति निवर्त्तनम् ॥२॥

७८
यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिव: ।
ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत् कृणोमि ॥३॥
यावतीर्भृङ्गा जत्व: कुरूरवो र्यावतीर्वघा वृक्ष सर्प्यो बभूवु:॥
ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत् कृणोमि ॥४॥
यास्ते शिवास्तन्वः काम भद्रा याभि: सत्यं भवति यद् वृणीषे ।
ताभिष्ट्वमस्मानुप संविशस्वान्यत्र पापीरप वेशया धिय: ॥५॥

७९
यौ ते मातोन्ममार्ज जाताया: पतिवेदनौ ।
दुर्णामा तत्र मा गृधदलिंश उत वत्सप: ॥१॥
पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।
अश्लिष्यं वव्रिवाससमृक्षग्रीवं प्रमीलिनं मुष्कयोरपहन्मसि ॥२॥
मा सं वृतो मोप सृप ऊरू माव सृपोन्तरा ।
कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥३॥
दुर्णामा च सुनामा चोभौ संवृतमिछत: ।
अरायानप हन्मसि सुनामा स्त्रैणमिछताम् ॥४॥
य: कृष्ण: केश्यसुर स्तम्बज उत तुण्डिकः ।
अराया नस्या भंससो मुष्कयोरपहन्मसि ॥५॥
अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् ।
अरायांछ्वकिष्किणो बजः पिङ्गो अनीनशत् ॥६॥
यस्त्वा सुप्ताञ्चरति यश्च दिप्सति जाग्रतीम् ।
छायामिव प्र तान् सूर्य: परिक्रामन्ननीनशत् ॥७॥
यस्त्वा सुप्तां निपद्यते भ्राता भूत्वा पितेव च । भुत्वा
बजस्तान्त्सहतामित: क्लीवरूपांस्तिरीटिनम् ॥८॥
य: कृणोत्यवतकां मृतवत्सामिमां स्त्रियम् ।
तमोषधे त्वं नाशयास्या: कमलमञ्जिवम् ॥९ ॥त्वां
ये शालाः परिनृत्यन्ति सायं गर्दभनादिन: ।
कुसूला ये च कुक्षिला: कुकुभाः सरमा: सुमा: ।
तानोषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥

८०
ये कुकुन्धाः कुकुरभा: कृत्यैर्दूर्शानि बिभ्रती ।
क्लीबा इव प्र नृत्यन्तो घोषं ये कुर्वते वने तानितो नाशयामसि ॥१॥
येषां पश्चात् प्रपदे पुर: पार्ष्णी पुरो मुखम् !
खलजा: शकधूमजा: उरुण्डा ये च मट्मटा: कुम्भमुष्का अयाशव:।
तानस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥२॥
ये सूर्य्यं न तितिक्षन्त आतपन्तममुं दिव: !
अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥३॥
ये सूर्यात् परिसर्पन्ति स्नुषेव श्वशुरादधि ।
बजश्च तेषां पिङ्गश्च हृदयेधि नि विध्यताम् ॥४॥
य आत्मानमतिमात्रमंसाधाय बिभ्रति ।
स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥५॥
ये पूर्वे वध्वो यन्ति हस्ते शृङ्गाणि बिभ्रतः।
आपाकेस्था: प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तानितो नाशयामसि ॥६॥
पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणा: सन्तु पण्डगाः ।
अव भेषज पातय य इमां संविवृत्सत्यपति: स्वपतिं स्त्रियम् ॥७॥
उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।
उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् ।
पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पंदना ॥८॥
यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।
पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥९॥
ये अम्नो जातान् मारयन्ति सूतिका अनुशेरते ।
स्त्रीभागान् पिङ्गो गन्धर्वानभ्रं वातमिवाजतु ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP