षोडशकाण्डः - २१ ते २५
पैप्पलादसंहिता
२१
प्राणाय नमो यस्य सर्वमिदं वशी ।
यो भूत: सर्वस्येश्वरो यस्मिन् सर्वं प्रतिष्ठितम् ॥१॥
नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे ।
नमस्ते अस्तु विद्युते नमस्ते प्राणवर्षते ॥२॥
यत प्राण ऋतावागते अभिक्रन्दत्योषधी: ।
प्र वीयन्ते गर्भान् दधतेथो बह्वीर्वि जायन्ते ॥३॥
यत् प्राण स्तनयित्नुना ऽभिक्रन्दत्योषधीः ।
सर्वं तदा प्र मोदते यत् किं च भूम्यामधि ॥४॥
यदा प्राणो अभ्यक्रन्दीद्वर्षेण स्तनयित्नुना ।
पशवस्तत् प्र मोदन्ते महो वै नो भविष्यति ॥५॥
अभिवृष्टा ओषधयः प्राणेन समवादिरन् ।
आयुर्वै न: प्रातीतर: त्सर्वा न: सुरभीरक: ॥६॥
नमस्ते प्राण प्राणते नमो अस्त्वोपानते ।
प्रतीचीनाय ते नम: पराचीनाय ते नम: सर्वस्मै त इदं नम: ॥७॥
नमस्ते अस्त्वायते नमो अस्तु परायते ।
नमस्ते प्राण तिष्ठत आसीनायोत ते नम: ॥८॥
या ते प्राण प्रिया तनूर्या वा ते प्राण प्रेयसी ।
अथो यद् भेषजं तव तस्य नो धेहि जीवसे ॥९॥
प्राण: प्रजा अनुपास्ते पिता पुत्रमिव प्रियम् !
प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न ॥१०॥
२२
प्राणा मृत्युः प्राणोमृतं प्राणं देवा उपासते ।
प्राणो ह सत्यवादिनमुत्तमे लोक आादधत् ॥१॥
प्राणो विराट् प्राणो देष्ट्री प्राणं सर्व उपासते ।
प्राणो अग्निश्चन्द्रमा: सूर्य: प्राणमाहुः प्रजापतिम् ॥२॥
प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते।
यवे ह प्राण आहितोपानो व्रीहिरुच्यते ॥३॥
अपानति प्राणति पुरुषो गर्भे अन्तरा ।
यदा त्वं प्राण जिन्वस्यथ स जायते त्वुत ॥४॥
प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते ।
प्राणे ह भूतं भव्यं च प्राणे सर्वं समाहितम् ॥५॥
आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजाश्च याः ।
सर्वा: प्र मोदन्तु ओषधयो यदा त्वं प्राण जिन्वसि ॥६॥जीन्व
यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् । वर्षि
ओषधय: प्र मोदन्तेथो या: काश्च वीरुधः ॥७॥
यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठित: ।
सर्वे अस्मै बलिं हरानमुष्मिंल्लोक उत्तमे ॥८॥
यथा प्राण बलिहृतस्तुभ्यं सर्वा: प्रजा इमा: ।
एवा तस्मै बलिं हरान् यस्त्वा शुश्राव: सुश्रवा: ॥९॥
अन्तर्गर्भश्चरति देवतास्वाभूतो भूत: स उ जायते पुन: ।
स भूतं भव्यं भुवनं भविष्यत् पिता पुत्रं प्र विवेशा शचीभिः ॥१०॥
२३
एकपादं नोत्खिदति सलिलाद्धंस उत्पतन् |
यदङ्ग स तमुत्खिदेन्नैवाद्य न श्वः
रात्री नाह: स्यान्न प्रज्ञायैति किं च न ॥१॥
अष्टाचक्रं वर्त्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चात् ।
अर्धेनेदं परिबभूव विश्वं यदस्यार्धं कतम : स केतुः ॥२॥
यो अस्य विश्वजन्मन ईशे सर्वस्य चेष्टत: ।
अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोस्तु ते ॥३॥
यो अस्य सर्व जन्मन ईशे विश्वस्य चेष्टत: ।
अतन्द्रो ब्रह्मणा धीर: प्राणो मामभि रक्षतु ॥४॥
ऊर्ध्व: सुप्तेषु जागार ननु तिर्यङ् नि पद्यते । तीर्य
न सुप्तमस्य सुप्तेष्वनु सुश्राव कश्चन ॥५॥
प्राणो मा मत् पर्यावृतो न मदन्यो भविष्यसि ।
अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥६॥
२४
सहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्।
भद्रं दात्रे यजमानाय शिक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥१॥
अपां यो अग्रे प्रतिमा बभूवुः प्रभूः सर्वस्मै पृथिवीव देवी । प्रती
पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि न: कृणोतु ॥२॥
पुमानन्तर्वाङ स्थविरः पयस्वान् वसो: कबन्धमृषभो बिभर्ति ।
तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥३॥
देवानां भाग उपनाह एषो ऽपां रस ओषधीनां घृतस्य ।
सोमस्य द्रप्समवृणीत शक्रो बृहन्नद्रिरभवद्यच्छरीरम् ॥४ ॥वृह
पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।
वत्सो जरायुः प्रतिधुक् पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥५॥
सोमस्य पूर्णं कलसं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम् । विभ
शिवास्ते सन्तु प्रजन्व इमान्यस्मभ्यं स्वधिते यच्छ या अमूः ॥६॥
इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत् ।
बृहस्पतिः संभृतमेतमाहुर्ये धीरास: कवयो मनीषिणः ॥७॥संभू
आज्यं बिभर्ति घृतमस्य रेत: साहस्र: पोषस्तमु यज्ञमाहुः ।
इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥८॥
दैवीर्विशः पयस्वाना तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः ।
सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभो मा जुहोति ॥९॥
बृहस्पति: सविता ते मनो दधौ त्वष्टुर्वायो: पर्यात्मा त आभृत:
अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी अभूताम् ॥१०॥
२५
य इन्द्र इव देवेष्वेति गोषु विवावदत् ।
तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥१॥
पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ ।
अष्ठीवन्तावब्रवीन्मित्रो ममैतौ केवलाविति ॥२॥
भसदासीदादित्यानां श्रोणी आस्तां बृहस्पते: }
पुच्छं वातस्य देवस्य तेन धूनोत्योषधी:॥३॥
क्रोड आसीज्जामिशंसस्य सोमस्य कलशो धृत: ।
उत्थातुरब्रुवन् पदो यद्ऋषभं व्यकल्पयन् ॥४॥
गुदा आसन् सिनीवाल्या: सूर्यायास्त्वचमब्रुवन् । सुर्या
देवा: संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥५॥
ते कुष्ठिका: स्वरमायै: कूर्मेभ्यो अदधुः शफान् ।
ऊबध्यमस्य कीटेभ्य: श्ववर्तेभ्यो अधारयन् ॥६॥
शृङ्गाभ्यां रक्ष ऋषत्यरातिं हन्ति चक्षुषा ।
शृणोति भद्रं कर्णाभ्यां गवां य: पतिरघ्न्य: ॥७॥
शतयाजं स यजते नैनं ऋण्वन्त्यग्नय: ।
जिन्वन्ति सर्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥८॥
ब्राह्मणेभ्य ऋषभं दत्वा वरीय: कृणुते मन: !
पृष्टिं सो अघ्न्यानां स्वे गोष्ठे वि पश्यतु ॥९॥
गाव : सन्तु प्रजा: सन्त्वथो अस्तु तनूबलम् ।
सर्वं तदनु मन्यन्तां देवा ऋषभदायिने ॥१o॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP