षोडशकाण्डः - ८१ ते ८५

पैप्पलादसंहिता


८१
परिसृष्टं धारयन्तं यद्धितं माव पादि तत् ।
गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥१॥
परिपाणं पुरुषाणां रक्षसामसि चातनम् ।
अरायान् सर्वान् दुर्णाम्नो यातुधानान्विषूचीनान् विनाशय ॥२॥
पवोनसात्तङ्गल्वाच्छायकादुत नग्नकात् ।
प्रजायै पत्ये त्वा पिङ्ग: परि पातु किमीदिन: ॥३॥
द्व्यास्याच्चतुरक्षात् पञ्चपादादनङ्गुले ॥४॥
वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात् ।
य आामं मांसमदन्ति पौरुषेयं च ये क्रविः ।
गर्भान् खादन्ति केशवाः ।
अरायानस्या भंससो मुष्कयोरप हन्मसि ॥५॥
पिङ्ग रक्ष जायमानं पुमांसं मा स्त्रियं करन् ।
आण्डादो गर्भान्मा दभन् बाधस्वेत: किमीदिन: ॥६॥
अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ।
वृक्षादिव स्रजं कृत्वा ऽप्रिये प्रति मुञ्च तत् ॥७॥
पिङ्ग जहि यातुधानान् दुर्गन्धींल्लोहितास्यान् ।
त्वया प्रणुत्ताः क्रव्यादो विश्वञ्चो यन्तु निर्हताः ॥८॥

८२
उच्छिष्टे नामरूपाण्युच्छिष्टे लोक आहित: ।
उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्त: समाहितम् ॥१॥
उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।
आप: समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥२॥
सन्नुच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः ।
लौक्या उच्छिष्टायत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥३॥
दृढो दृंहस्थिरो अन्यो ब्रह्म विश्वसृजो दश।
नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताहिता: ॥४॥
ऋक्साम यजुरुच्छिष्ट उद्गीथ: प्रस्तुतं स्तुतम् ।
हिंकार उच्छिष्टेस्वर: साम्नो मेढिश्च तन्मयि ।५॥
ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् ।
उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥६॥
राजसूयं वाजपेयमग्निष्टोमस्तदध्वर: ।
अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तम: ॥७॥
अग्न्याधेयमथो दीक्षा कामप्रच्छन्दसा सह ।
उत्सन्ना यज्ञा: सत्त्राण्युच्छिष्टेधि समाहिता: ॥८॥
अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।
दक्षिणेष्टं पूर्तं चोच्छिष्टेधि समाहिता: ॥९॥
एकरात्र: त्रिरात्रश्च सद्य: क्री: प्रक्रीरुक्थ्य: ।
ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया: ॥१०॥
८३
चतूरात्र: पञ्चरात्र: षड्रात्रश्चोभय: सह ।
षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्व ये यज्ञा अमृते हिता: ॥१॥
प्रतीहारो निधनं विश्वजिच्चाभिजिच्च य: ।
साह्नातिरात्रावुच्छिष्टे द्वादशाहोपि तन्मयि ॥२॥
सूनृता संनति क्षेम: स्वधोर्जामृतं सह: ।
उच्छिष्टे सर्वे प्रत्यञ्चः कामा: कामेन तृप्यन्तु ॥३॥
नव भूमी समुद्राश्चोच्छिष्टेधि श्रिता दिव: ।
आ सूर्यो भात्युच्छिष्टे अहोरात्रे च तन्मयि ॥४॥
उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिता: बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता। .
पिता जांभतुरुच्छिष्टो असो: पौत्र: पितामह: ।
स क्षियति विश्वस्येशानो वृषा भूम्यामतिघन्य: ॥६॥
ऋतं सत्यं तपो दीक्षा: श्रमो धर्मश्च कर्म च ।
भूतं भविष्यदुच्छिष्टे वीर्यं लक्षीर्बलं बले ॥७॥
समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः।
संवत्सरोध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥८॥
चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः।
उच्छिष्टे यज्ञा होत्राश्च पशुबन्धास्तदिष्टयः ॥९॥
अर्ध मासाश्च मासाश्चार्तवा ऋतुभि: सह ।
उच्छिष्टे घोषिणीराप: स्तनयित्नुः श्रुतिर्मही ॥१०॥

८४
शर्करा: सिकता अश्मान ओषधयो वीरुधस्तृणा ।
विरुअभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता: ॥१॥
रातिः प्राप्तिर्व्याप्ति: समाप्तिर्मह एधतुः ।
अत्याप्तिरुच्छिष्टे भूतिराहिता निहिता हिता ॥२॥
यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ॥३॥
प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या: ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ॥४॥
देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित : ॥५॥
ऋच: सामानि छन्दांसि पुराणं यजुषा सह ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ॥६॥
अथर्वाङ्गिरसो ब्रह्म सर्प पुण्यजनाश्च ये ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ॥७॥
आनन्दाश्च प्रमादाश्चाभीमोदमुदश्च ये ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ॥८॥

८५
यन्मन्युर्जायामावहत् संकल्पस्य गृहादधि ।
क आसं जन्या: के वरा: क उ ज्येष्ठवरो ऽभवत ॥१॥
तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
त आसं जन्यास्ते वरा स उ ज्येष्ठवरो ऽभवत् ॥२॥
दश साकमजायन्त देवा देवेभ्यः पुरा ।
यो वै तान् विद्यान्नामथा स वा अद्य महद्वदेत् ॥३॥
प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या।
व्यानोदानौ वाङ् मनस्ते वा आकूतिमावहन् ॥४॥
अजाता आसन्नृतवोथो धाता बृहस्पतिः।
इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥५॥
तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
तपो ह यज्ञे कर्मणस्तत् ते ज्येष्ठमुपासत ॥६॥
कुत इन्द्र: कुत: सोम: कुतो अग्निरजायत ।
कुतस्त्वष्टा समभवद्धाता समभवत् कुत: ॥७॥
इन्द्रादिन्द्र: सोमात्सोमो अग्नेरग्निरजायत ।
त्वष्टा ह यज्ञे त्वष्टुर्धाता धातुरजायत ॥८॥
ये त आसन्दश जाता देवा देवेभ्यः पुरा: ।
पुत्रेभ्यो लोकं दत्त्वा कस्मिन्ते लोक आसते ॥९॥
येतो भूमि: पूर्वासीद्यामद्धातय इद्विदुः ।
के तस्यां देवा आसते कस्मिन् उषाधिश्रिता: ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP