षोडशकाण्डः - ११ ते १५
पैप्पलादसंहिता
११
इन्द्रो यातूनामभवत् पराशरो हविर्मथीनामभ्याविवासताम् ।
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥१॥
उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
सुपर्णयातुमुत गृध्रयातुं दृषदेव: प्र मृण रक्ष इन्द्र ॥२॥
मा नो रक्षो अभि नड्यातुमावतामपोच्छन्तु मिथुना या किमीदिना ।
पृथिवी न: पार्थिवात् पात्वंहसोन्तरिक्षं दिव्यात्पात्वस्मान् ॥३॥
इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥४॥
प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।
रक्षोभ्यो वधमस्यतमशनिं यातुमदभ्य: ॥५॥
(इति क्षुद्रकाण्डनामषोडशकाण्डे द्वितीयो नुवाक:)
१२
या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः।
असिक्नीः कृष्णा ओषधीः सर्वाच्छा वदामसि ॥१॥
त्रायन्तामिमं पुरुषं यक्ष्माद्देवेषितादधि।
यासां द्यौष्पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥
आपो अग्रं दिव्या ओषधयः।
तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशम् ॥३॥
प्रस्तृणोती स्ताम्बिनीरेकशुङ्गाः प्रोतन्वतीरोषधीरा वदामि।
अंशुमतीः काण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥४॥
यद्वः सह: सहमाना वीर्यं यच्च वो बलम् ।
तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीः ॥५॥
जीवलां नघारिषां जीवन्तीमोषधीमुत । जीब
अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीं हुवे ॥६॥
इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम ।
यथेमं पारयामसि पुरुषं दुरितादधि ॥७॥
अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्नवा:
ध्रुवा: सहस्रनाम्नीर्भेषजी: सन्त्वाभृता: ॥८॥
अवकोल्बा उदकात्मान ओषधयः । कोल्बा
व्यृषन्ति दुरितं तीक्ष्णशृङ्ग्यः ॥९॥
उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीरथो बलासनाशनीः ।
रक्षोनाशनी: कृत्यादूषणीश्च यास्ता इहा सन्त्वोषधी: ॥१०॥
१३
शिवास्ते सन्त्वोषधीरपक्रीता: सहीयसीर्वीरुधो या अभिष्टुता: ।
अपां रसस्वतीं ज्येष्ठां त्रायन्तामस्माकं गामश्वं पुरुषं पशुम् ॥१॥
मधुमन्मूलं मधुमदग्रमासां मधुमन्मध्यं वीरुधां बभूव ।
मधुमत्पर्णं मधुमत्पुष्पमासां मधोः संभूता अमृतस्य भक्षो-
घृतमन्नं दुह्रतं गोपुरोगवम् ॥२॥
यावती: कियतीश्चेमा: पृथिव्यामध्योषधी:
ता न: सहस्रपर्णो मृत्योर्मुञ्चन्त्वंहसः ॥३॥
वैयाघ्रो मणिर्वीरुधां त्रायमाणोभिशस्तिया: ।
अमीवा: सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत् ॥४॥
सिंहस्येव स्तनथोरोषधीनामग्नेरिव विजन्त आभृताभ्य: ।
गवां यक्ष्म: पुरुषाणां वीरुद्भिरतिनुक्तो नाव्या एतु स्रोत्या: ॥५॥
मुमुञ्चाना ओषधयो ऽग्नेर्वैश्वानरादधि ।
भूमिं संतन्वतीरिव यासां राजा वनस्पतिः ॥६॥
याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा ।
अज्ञाता जानीमश्च या यासु विद्मसि संभृतम् ।
सर्वा: समग्रा ओषधीर्बोधन्तु वचसो मम ॥७॥र्वोध
या रोहन्त्याङगीरसी: पर्वतेषु समेषु च ।
वीरुधो विश्वभेषजी:।
ता नो पयस्वती: शिवा ओषधीः सन्तु शं हृदे ॥८॥सन्त्वु
अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हवि:॥
व्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमर्त्यौ ॥९॥
उजिजहीध्वे स्तनयत्यभिक्रन्दत्यौषधीः ।
यदा वः पृश्निमातर: पर्जन्यो रेतसावति ॥१०॥
१४
तस्यामृतस्येमं बलं पुरुषं पाययामसि॥
अथो कृणोमि भेषजं यथासच्छतहायनः ॥१॥
वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।
गन्धर्वा: सर्पा या विदुस्ता इहा सन्त्वोषधी: ॥२॥
या सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः ।
वयांसि हंसा या विदुर्याश्च सर्वे पतत्रिण: ।
मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥३॥
यावतीनामोषधीनां गाव: प्राश्नन्त्यघ्न्या यावतीनामजावय: ।
तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥४॥
यावतीषु मनुष्या भेषजं विषयो विदुः।
तावतीस्तुभ्यमाभृताः शर्म यच्छन्त्योषधीः ॥५॥
पुष्पवती: प्रसूमती: फलिनीरफला उत ।
संमातर इवदुह्रामस्मा अरिष्टतातये ॥६॥
उत्वाहार्षं पञ्चशलादुत्वा दशशलादुत।
उत्वा यमस्य पड्बीशादोषधीभिरपीपरम् ॥७॥
१५
इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्।
अहिनामपमारथ स्थाणुमारदथार्षत् ॥१॥
दर्भः शोचिस्तरूणकमश्वस्य वार: पुरुषस्य वारः ।
रथस्य बन्धुरमहीनामरसं विषं वारिदुग्रम् ॥२॥
अव श्वेत पदा जहि पूर्वेण चापरेण च ।
उदप्लुतमिव दार्वहीनामरसं विषं वारिदुग्रम् ॥३॥
अरंघुषो निमज्योन्मज्य पुनरब्रवीत् ।
उदप्लुतमिव दार्वहीनामरसं विषं वारिदुग्रम् ॥४॥
पैद्वो हन्ति कसर्णीलं पैद्व श्वित्रमुतासितम् ।
पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥र्ब्याः
पैद्वो प्रेहि प्रथमोनु त्वा वयमेमसि ।
अहीन् व्य ऽस्यतात् पथो येन स्मा वयमेमसि ॥६॥
इदं पैद्वो अजायतेदमस्य परायणम् ।
इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥
संयतं न वि ष्परद् व्यात्तं न सं यमत् ।
अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥८॥
अरसास इहाहयो ये अन्ति ये च दूरके ।
घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥९॥
अघाश्वस्येदं भेषजमुभयो: स्वजस्य च ।
इन्द्रो मह्यमघायन्तमहिं पैद्वो अरन्धयत् ॥१०॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP