संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| २६ ते ३० क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - २६ ते ३० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २६ ते ३० Translation - भाषांतर २६अयं पिपान इन्द्रियं रयिं बिभर्ति चेतनीम् ।अयं धेनु सुदुघां नित्यवत्सां वशं दुहे विपश्चितं परो दिव: ॥१॥पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो नागन् ।प्रजामस्मभ्यं दधत् रयिं च रायस्पोषमुप सत्ता सदेम ॥२॥एतं वो युवानं परि दध्मो अत्र तेन क्रीडन्तीश्चरत वशाङ् अनु । क्रिडमा नो हिंसिष्ट जनुषा सुभागा रायस्पोषैरभि न: सचध्वम् ॥३॥स्पोसैउपेहोपपर्चना ऽस्मिन् गोष्ठे उप पृञ्चतु ।उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥४॥२७अयं प्रतिसरो मणिर्वीरो वीराय बध्यते । वध्यवीर्यावान् सपत्नहा शूरवीर: परिपाण: सुमङ्गलः ॥१॥अयं मणि सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।प्रत्यक्कृत्या दूषयन्नेतु वीरः ॥२॥अनेनेन्द्रो मणिना वृत्रमहन्ननेनासुरान् पराभावयन्मनीषी।अनेन द्यावापृथिवी उभे अजयदनेनाजयत् प्रदिशश्चतस्रः ॥३॥अयं स्राक्त्यो मणि: प्रतीवर्त: प्रतिसर: ।ओजस्वान् विमृधो मणि: सो अस्मान् पातु विश्वत: ॥४॥तदग्निराह तदु सोम आह बृहस्पति: सविता तदिन्द्र: ।ते ते देवा: पुरोहिताः प्रतीची: कृत्या: प्रतिसरैरजन्तु अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् ।उतेमं ब्रह्मणस्पतिम् ॥५॥ते ते देवा: पुरोहिता: प्रतीची: कृत्या: प्रतिसरैरजन्तु ॥६॥ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।सूर्यो दिवमिवारुह्य वि कृत्या बाधते वशी ॥७॥वाधस्राक्त्येन मणिन ऋषिणेव मनीषिणा ।अजैषं सर्वा पृतना वि मृधो हन्मि रक्षस: ॥८॥या: कृत्या आङ्गिरसीर्या: कृत्या आसुरीरुत ।कृत्या या: स्वयंकृता या उ चान्येभिराभृता: ।उभयीस्ता: परा यन्तु परावतो नवतिं नाव्या अति ॥९॥अस्यै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः वध्नप्रजापति: परमेष्ठी विराड् वैश्वानर ऋषयश्च सर्वे ॥१०॥२८उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्र: श्वपदामिव॥यमैच्छामाविदाम तं प्रतिस्पाशनमन्तितम् ॥१॥स इद् व्याघ्रो भवत्यथो सिंहो अथो वृषा ।सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥२॥नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः ।सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥३॥कश्यपत्स्वामसृजत् कश्यपस्त्वा समैरयत् ।अबिभस्त्वेन्द्रो मानुषे वर्म बिभ्रत् संश्रेषिणे ऽजयत् ॥४॥मणिं सपत्नं जम्भनं वर्म देवा अबध्नत ।यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यस्त्वा यज्ञैर्जिघांसति ।प्रत्यक् त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥५॥अयमिद्वै: प्रतीवर्त: सहस्वान् संजयो मणि: ।प्रजां धनं च रक्षतु परिपाण: सुमङ्गल: ॥६॥असपत्नं नो अधरादसपत्नं न उत्तरात् ।इन्द्रासपत्नं न: पश्चाज्ज्योति: शूर पुरस्कृधि ॥७॥ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नाति विध्यन्ति सर्वे ।तत्ते तन्वं त्रायतां सर्वतो बृहदायुष्मान् जरदष्टिर्यथासत् ॥८॥आ त्वा रुक्षद्देवमणिर्मह्या अरिष्टतातये ।इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥९॥अस्मिन्निन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् ।दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत् ॥१०॥इन्द्रो बध्नातु ते मणिं जिगीवाङ् अपराजितः सोमपा अभयंकरो वृषा ।स त्वा रक्षतु सर्वदा दिवानक्तं च विश्वतः ॥११॥(इति क्षुद्रकाण्डनामषोडषकाण्डे पञ्चमो ऽनुवाकः)२९इन्द्रो मन्थतु मन्थिता शक्रः शूर: पुरन्दर: ।यथा हनाम सेनाममित्राणां सहस्रशः ॥१॥पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमुम् ।अग्निं धूमं परादृश्य हृत्स्वा दधतां भयम् ॥२॥पुरुषानमून् पुरुषाह्वः कृणोतु हन्त्वेनान् वधको वधै: ।क्षिप्रं शर इव भज्यन्तां बृहज्जालेन संदिता: ॥३॥अमूनश्वत्थ नि: शृणीहि खादामून् खदिराजिरम् । मुनताजभङ्ग इव भज्यन्तां बृहज्जालेन संदिताः ॥४॥अन्तरिक्षं जालमासीज्जालदण्डा दिशो मही: ।तेनाभिधाय सेनामिन्द्रो दस्यून् अपावपत् ॥५॥दस्युबृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।तेन न्युब्ज मघवन्नमित्राः शस्वतीभ्य: समाभ्यः ॥६॥बृहद्धि जालं बृहत: शक्रस्य वाजिनीवत: ।तेन शतं सहस्रमयुतं जघानेन्द्रो दस्यूनामभिधाय सेनाम् ॥७॥दस्युअयं लोको जालमासीच्छक्रस्य महतो महान् ।तेनाहमिन्द्रजालेन तमसामूनपि दधामि सर्वान् ॥८॥सेदिरुग्रा वयृद्धिरार्तिश्चानपवाचना ।श्रमस्तन्द्रीश्च मोहश्च तैरमूनपि दधामि सर्वान् ॥९॥मृत्यवेमून् प्र यच्छामि मृत्युपाशैरमी सिताः । वेमुमृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्धान् ॥१०॥३०मृत्युदूता अमून्नयत यमदूता अपोम्भत:पर:सहस्रा हन्यन्तां तृणेढ्येनां मत्यं भवस्य ॥१॥साध्या एकं जालदण्डमुद्यत्य यन्त्वोजसा ।रुद्रा द्वितीयं वसवस्तृतीयमादित्यैरेक उब्जत: ॥२॥विश्वे देवा उपरिष्टादुब्जन्तो यन्त्वोजसा ।मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो वधै: ॥३॥वनस्पतीन् वानस्पत्यानोषधीरुत वीरुधः ।द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥४॥गन्धर्वाप्सरसो देवान् सर्पान् पुण्यजनान् पितॄन् ।दृष्टानदृष्टानिष्णामि यथा सेनाममूं हनन् ॥५॥मृत्युपाशा इमे युक्ता यानाक्रम्य न मुच्यसे ।अमुष्या हन्तु सेनाया इदं कूट सहस्रहम् ॥६॥घर्मः समिद्धो अग्निनायं होमः सहस्रह: ।भवश्च पृश्निबाहुः शर्व सेनाममूं हतम् ॥७॥मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥८॥पराजिता: प्र त्रसतामित्रा जिता धावत ब्रह्मणा ।बृहस्पतिप्रणुत्तानां मामीषां मोचि कश्चन ॥९॥अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।अथैषां बहु बिभ्यतामिषवो घ्नन्तु मर्मणि ॥१०॥समेनान् क्रोशतां द्यावापृथिवी उभे समन्तरिक्ष सह देवताभि: ।मा ज्ञातारं मा प्रतिष्ठां विदन्तमिथो विघ्नाना उप यन्तु मृत्युम् ॥११॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP