षोडशकाण्डः - १४६ ते १५०

पैप्पलादसंहिता


१४६
छिन्ध्याछिन्ध्य प्र छिन्ध्यपि क्षापय क्षापय !
आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥१॥
वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ।
ओषन्ती समीषन्ती ब्रह्मणो वज्रः ॥२॥
क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ।
आ दत्से जिनतां वर्च इष्टं च पूर्तं चाशिष: ॥३॥
आदाय जीतं जीताय लोके ऽमुष्मिन् प्र यच्छसि ।
अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥४॥
मेनि: शरव्या भवाघादघविषा भव ।
अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागस: ॥५॥
त्वया प्रवृक्णं ऋदितमग्निर्दहतु दुष्कृतं ।
देवपीयुमराधसम् ।
वृश्च प्र वृश्च छिन्धि प्र छिन्धि कृन्त प्र कृन्त पिंश प्र पिंशौषसमोषो दह प्र दह ।
ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥६॥

१४७
यत्ते शीर्षणि दौर्भाग्यं शक्तं केशेषु निहितं ललाटे ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१॥
यत्ते ध्रुवोर्दौर्भाग्यं कर्णयोरक्ष्णोर्हि तम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥२॥
यत्ते मुखे नासिकायां दौर्भाग्यं वाच्योष्ठयोः ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥३॥
यत्ते दत्सु दौर्भाग्यं जिह्वायां चुबुके हि तम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥४॥
यत् ते मनसि संकल्पे दौर्भाग्यं प्राण आ हि तम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१५॥
यत्ते हन्वोर्दौर्भाग्यं कण्ठे क्लोमसु विष्ठितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥६॥
यत्ते स्कन्धेषु ग्रीवासु दौर्भाग्यं कीकसास्वनूक्ये ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥७॥
यत्ते दोष्णो दौर्भाग्यं अंसयोरुप पक्षयोः ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥८॥
यत्ते बाह्वोर्दौर्भाग्यमरत्न्यो: कल्मुषीरनु ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥९॥
यत्ते हस्तयोर्दौर्भाग्यं अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१०॥

१४८
यत्ते पृष्ठेषु दौर्भाग्यं जघने स्फिजोर्हितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१॥
यते उरसि दौर्भाग्यं पार्श्वयो: स्तनयोर्हितम्।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥२॥
यते हृदये दौर्भाग्यं नाभ्यां वक्षणा अनु ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥३॥
यते पिह्न दौर्भाग्यं यद् वा यकनि वृक्कयोः ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥४॥
यत्ते गुदास्वन्त्रेषु दौर्भाग्यमुदरे हितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥५॥
यत्ते वस्तौ दौर्भाग्यं वनिष्टौ प्लाशावाहितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥६॥
यत्ते भसदि दौर्भाग्यं यद् वायाशुषु मुष्कयोः ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥७॥
यत्ते श्रोण्योर्दौर्भाग्यमवचालूखयोर्हितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥८॥
यत्ते उसति दौर्भाग्यमूर्वोर्जानुनोर्हितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥९॥
यते जंघयोर्दौभाग्यं स्थूरयो पार्ष्ण्योर्हितम् । पाष्ण्यो
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१०॥

१४९
यत्ते गुल्फयोदौर्भाग्यं पादयोरङ्गुलीरनु ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१॥
यत्ते परुषु दौर्भाग्यं मांसे अस्थिषु मज्जसु ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥२॥
यत्ते किं च दौर्भाग्यमङ्गेष्वङ्गेषु प्रतिष्ठितम् ।
यद् वा लोमसु विष्ठितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥३॥
यते अक्षेषु दौर्भाग्यं प्राहायामधिदेवने ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥४॥
यते पशुषु दौर्भाग्यं कृष्यामशनेर्हितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥५॥
या ते लक्ष्मीर्भ्रूणहत्याथो या ते अपुत्रता ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥६॥
यत्ते ऽदृष्टं पितृषद्यमथो या ते अपत्यता ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥७॥
या ते का च पापी लक्ष्मीरथो या ते अपशुता ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥८७॥
कण्ठदघ्ना महिमार्त्तिमृणां देवेभ्यः किल्विषं यद् बभूव॥
इमास्तदापः प्र वहन्तु रिप्रं पुनातु मा शतधारं पवित्रम् ॥९॥
स्नाहि रिप्र शमलं च सर्वं कृष्णे चेले सादयित्वा पापम् ।
हित्वावर्तिं निर्ऋतिं मृत्युपाशान् सूर्यज्योतिरभ्येह्यग्निम् ॥१०॥
उद्यन्तो अस्मान्महत: समुद्रान् मुच्यमानो अंहसः पाप्मनश्च ।
पुनर्मन: पुनरायुर्न आगन् मा दभन् पणयो यातुधाना: ॥११॥
अवरिप्रमनिक्ष्ममह्यशस्तिमध्यात्मान: ।
वर्च आ धीयतां मयि तेज आ धीयतां मयि ।
प्राणापानौ मा मा हासिष्टं सर्वमायुरशीय ॥१२॥

१५०
ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि षीमतः सुरुचो वेन आवः । यज्ञा
स बुध्न्या उपमा अस्य विष्ठा: सतश्च योनिमसतश्च वि व: ॥१॥
ब्रह्मभ्राजदुदगादन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् ।
ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद् ब्रह्मास्मदपहन्तु शमलं तमश्च ॥२॥
प्रतीचीरायतास्थिता वितता: पश्यामहै ।
समुद्रे अप्सु या हिता: सुराणामयस्मयै ॥३॥
हरिः सुपर्णो दिवोमारुहोर्चिषा ये त्वा दिप्सन्ति दिवमुत्पतन्तम् ।
अव तां जहि हरसा जातवेदोबिभ्यदुग्रोर्चिषा दिवमा रोह सूर्य ॥४॥
अयोजाला असुरा मायिनोयस्मयै: पाशैरङ्किनो ये चरन्ति ।
तां स्ते रन्धयामि हरसा जातवेद:
सहस्रभृष्टि: सपत्नान् प्रमृणन् याहि वज्र: ॥५॥
देवानामधिपा एति घर्म ऋतेन भ्राजन्नमृतं वि चष्टे ।
हिरण्यवर्णो नभसो देव सूर्य
घर्मो भ्राजं दिवो अन्तां पर्येषु विद्युता ॥६॥
वि द्योतन्ते विद्युतो अग्निजिह्वा हिरण्यवर्णा अमृता अप्स्वन्तः समुद्रे ।
रुद्रस्य क्षिपण: स्तनयित्नोर्विद्युत्तस्य वैश्वानरस्य हेति: परि णो वृणोक्तु ॥७॥
विद्युता भ्राजन् ह्रदं यात्यग्निर्व्याघ्रा अप्सुषदो यत्र भीमाः ।
विष्णो: क्रमै: स्तनयन्नेति रुद्रो नुदञ्छत्रून् विमृधो वाधमानोसपत्ना: प्रदिशो मे कृणोतु ॥८॥
अपो वसानः समैत्यन्तरिक्षं दिवं च समिद्धो अग्निर्दिव्योस्तपोधात् ।
वैश्वानर: शमय: शीतरूरे अपां सुपर्णो दिव एति पृष्ठे ॥९॥
वैश्वानर: समुद्रं पर्येति शुक्रो घर्मो भ्राजन् तेजसा रोचमान: ।
नुदञ्छत्रून् प्रदहन् मे सपत्नानादित्यो द्यामध्यरुक्षद् विपश्चित् ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP