षोडशकाण्डः - १०१ ते १०५
पैप्पलादसंहिता
१०१
स्कंम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः॥
स्कम्भ इदं सर्वमार्पितमेजत्प्राणं निमिषच्च यत् ॥१॥
एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चात् ।
अर्धेनेदं परिबभूव विश्वं यदस्यार्धं कतम: स केतुः ॥२॥
पञ्चवाहि वहत्यग्रमस्य प्रष्टयो युक्ता अनुसंवहन्ति । बह
अयातमस्य ददृशे न यातं परं नेदीयोवरं दवीयः ॥३॥
इदं सवितर्वि जानीहि षड् यमा एक एकजः।
तस्मिन् हापित्वमिछन्ते य एषामेक एकजः ॥४॥
तिर्यग्बिलश्चमस उर्ध्वबुध्नो यस्मिन् यशो निहितं विश्वरूपम्।
तत्रासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥५॥
तिस्रो ह प्रजा अत्यायमायन् न्य न्या अर्कमभितो विशन्त ।
बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥६॥
द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत॥
तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥७॥
अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते॥
ते नाकपालश्चरति प्रजानन् विद्वान् भूतं यदु भव्यमस्य ॥८॥
आविः सन्निहित गुहा जरन्नाम महत् पदम्।
तत्रेदं सर्वमार्पितमेजत् प्राणत् निमिषच्च यत् ॥९॥
ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।
पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदु: ॥१०॥
१०२
ऊनात्पूर्णमुदचति पूर्णादूनमुदच्यते।
कविस्तद्ब्रह्मणा वेद यतस्तत् परिषिच्यते ॥१॥
प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायत ।
अर्धन विश्वं भुवनं जजान यदस्यार्धं किमु तज्जजान ॥२॥
यदेजति चरति यच्च तिष्ठत्यप्राणात् प्राणन्निमिषच्च चेष्टत ।
तद्दाधार पृथिवीं विश्वरूपं तत् संभूय भवत्येकमेव ॥३॥
या: पुरस्ताद्युज्यते योत पश्चाद्या विश्वतो युज्यते योत सर्वत:।
यया यज्ञस्त्रायते प्राङ् तां त्वा पृच्छामि कतमा नु सर्चाम् ॥४॥
यत: सूर्य उदेत्यस्तं यत्र च गच्छति ।
तदेव मन्येहं ज्येष्ठं ततो नात्येति किं चन ॥५॥
सत्येनोर्ध्वो स्तपति ब्राह्मणार्वाङ वि पश्यति ।
प्राणेन तिर्यङ् प्राणाति यस्मिन् ज्येष्ठमधि श्रितम् ॥६॥
यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु।
सविद्वान् ज्येष्ठं मन्येत स विद्याद् ब्राह्मणं महत् ॥७॥
अपादग्रे समभवत् सो अग्रे स्वराभरत् ।
चतुष्पाद् भूत्वा भोग्य: सर्वमादत्त भोजनम् ॥८॥
भग्यो भवदथो अन्नमदद् बहु ।
यो वेदमुत्तरावन्तमुपासातै सनातनम् ॥९॥
सनातनमेनमाहुरुताद्य स्यात् पुनर्णवः ।
अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयो: ॥१०॥
१०३
शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन्निविष्टम् ।
तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचते एष एतत् ॥१॥
आराग्रमात्रं ददृश उतैकं नेव दृश्यते ।
तत: परिष्वजीयसी देवता सा मम प्रिया ॥२॥
इथं कल्याण्यजरा मर्त्यस्यामृता गृहे |
धस्मै कृता शये स यश्चकार जजार स: ॥३॥
त्वं स्त्री त्वं पुमानसि त्वं कुमार्युत वा कुमारः॥
त्वं जीर्णो दण्डेन भञ्जसि त्वं जातो भवसि विश्वतोमुखः ॥४॥
उतैष ज्येष्ठ उत वा कनिष्ठ उतैषां भ्रातोत वा पितैष: ।
एको देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥५॥
अनेनैत्येजति सर्वमस्मिन् विश्वा भूतानि पर्याभृतस्य ।
स पुमान् पुंसो जनयनृतेन सर्वानन्तान् गच्छति तिष्ठन्नेव ॥६॥पूंसो
मध्ये दिवो निहित: पृश्निरश्मा विचक्रमाणौ रजसस्पात्यन्तौ । रस्मा
स विश्वाभिरभि चष्टे शचीभिरन्तरापूर्वमपरं च केतुम् ॥७॥
ये अर्वाङ् मध्य उत वा पुराणे वेदं विद्वांसमभितो वदन्ति ।
आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥८॥
एकामृचं समिन्धते द्वादशभिरग्निभिः ।
तस्यामापस्तस्याङ्गावस्तस्यामोषधय: श्रिता: ॥९॥
सप्त सुपर्णा उप धावन्ति वाणमनुष्टुभा संभृतं विश्वरूपं ।
तमाततं विततं तन्तुमाततं स न: पुनातु सलिलस्य पृष्ठे ॥१०॥
सप्त ऋषय: प्रतिहिता: शरीरे सप्त रक्षन्तु सदमप्रमादम् ।
सप्तापः स्वपतो लोकमीयुस्तत्र जागृतो अस्वप्नजौ
सत्त्रसदौ च देवौ ॥११॥
(ड्रति क्षुद्रकाण्डनाम षोडशकाण्डे षोडशो अनुवाक :)
१०४
भवाञ्शर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् ।
प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पद: ॥१॥
शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ।
ये च कृष्णा अविष्यव:।
मक्षिका: ते पशुपते वयांसि ते विघसे मा विदन्त ॥२॥
क्रन्दाय ते प्राणाय ते याचते भव रोपयः॥
नमस्ते रुद्र कृण्मः सहस्राक्षायमर्त्यः ॥३॥
पुरस्तात्ते नम: कृण्म:, उत्तरादधरादुत ।
अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नम: ॥४॥
मुखाय ते पशुपते यानि चक्षूंसि ते भव।
त्वचे रूपाय संदृशे प्रतीचीनाय ते नम: ॥५॥
अङ्गेभ्यो उदराय जिह्वाया आस्याय च।
दद्भ्यो गन्धाय ते नमः ॥६॥
अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना।
रुद्रेणार्ध्वकघातिना तेनमा समरामहि ॥७॥
स नो भवः परि वृणक्तु विश्वत
आपो इवाग्निः परि वृणक्तु नो भव: ।
मा नो अभि मांस्त नमो अस्त्वस्मै ॥८॥
चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते ।
तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा आादजावयः ॥९॥
तव चतस्रोः प्रदिशस्तव द्यौस्तवेदमुग्रोर्वन्तरिक्षम्।
तवेदं सर्वमात्मन्वद्यदेजदधिभूम्याम् ॥१०॥
१०५
उरु: कोशो वसुधानस्तवायं यस्मिन्निमा विश्वा भुवनान्यन्त: ।
स नो मृड पशुपते नमस्ते
पर: क्रोष्टारो अभिभा: श्वान: परो यन्त्वघरुदो विकेश्य: ॥१॥
धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्नि शतवधं शिखण्डिन्।
रुद्रस्येषुश्चरति देवहेतिस्तस्मै नमो यतमस्यां दिशीत: ॥२॥
योभियात निलयते त्वामुग्र निचिकीर्षति।
पश्चादनुप्रयुंङ्क्षे तं विद्धस्य पदनीरिव ॥३॥
भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय।
तयोर्भूमिरन्तरिक्षं स्वर्द्यौस्ताभ्यां नमो भवमर्त्त्याय कृण्मः ॥४॥
नमस्ते अस्त्वायते नमो अस्तु परायते।
नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ॥५॥
नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा।
भवाय च शर्वाय चोभाभ्यामकरं नमः ॥६॥
सहस्राक्षमतिपश्यं पुरस्ताद् रुद्रमस्यन्तं बहुधा विपश्चितम्।
मोपाराम जिह्वयेयमानम् ॥७॥
श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम्।
पूर्वे प्रतीमो नमो अस्त्वस्मै ॥८॥पुर्वे
मा नोभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते ।
अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥९॥
मा नो नो हिंसीरधि नो ब्रूहि परि णो वृङ्ग्धि मा क्रुध: ।
मा त्वया समरामहि ॥१०॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP