संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ५१ ते ५५ क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ५१ ते ५५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ५१ ते ५५ Translation - भाषांतर ५१यत्रा सुर्हार्द: सुकृतो मदन्ति विहाय रोगं तन्व: स्वाय़ाः ।अश्लोणा अङ्गैरहृता: स्वर्गे तत्रा पश्येम पितरौ च पुत्रान् ॥१॥विषाणा पाशाङ् अभि वि ष्वाध्यस्मद् य उत्तमा अधमा वारुणा ये ।यद्दारुणा वध्यसे यच्च रज्वां यद्भूम्यां वध्यसे यच्च वाचा ॥२॥उदगातां भगवती विचृतौ नाम तारके ।प्रेहामृतस्य यच्छतां प्रैतु बद्धोकमोचनम् ॥३॥वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् । वद्धयोन्या इव प्रच्युतो गर्भ: पथः सर्वाङ् अनु क्षिय ॥४॥तं प्रजानन् प्रतिगृह्णाति विद्वान् बृहस्पति: प्रथमजा ऋतस्य॥अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनु सं न' ॥५॥ततं तन्तुमन्वेके तरन्ति येषां दत्तमायनं पित्र्येण ।अबन्ध्वेके ददत: प्रयच्छान्दातुं चेच्छिक्षान्स स्वर्ग एषाम् ॥६॥अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधाना: सचन्ते !यद्वां पूर्तं परिविष्टमग्नौ तस्य गुप्तये दंपता स श्रयथाम् ॥७॥देवा: पितर: पितरो देवाः ।यो ऽस्मि सो ऽस्मि सो ऽयमस्मि ॥८॥स पचामि स यजामि स यजतेस्य ।स्वमयं इष्टमस्तु सूनं श्रान्तं शिवं कृतम् तस्मान्मा यवम् ॥९॥नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।विद्धि पूर्त्तस्य नो राजन् स देव सुमना भव ॥१०॥५२अपास्मद् ब्राह्मणां संधामपधारां नि दध्मसि ।इन्द्राग्नी विश्ववेदसावर्णवादधिमुञ्चताम् ॥१॥नमस्ते ब्राह्मणा संधे परे हि यते यथ॥योस्मां द्वेष्टि यं वयं द्विष्मस्तं ते प्र सुवामिस्तमद्धिप्रसूता: ॥२॥योष्मांअपारं त्वाहुरर्णवम् अनुर्यायां न ये विदुः ।यस्ते वेदो वरमास्य महत्साक्षाद्वेदि मुखं तव निर्याण तव ते विदुः ॥३॥इन्द्रेण क्लृप्ता योनिर्नरको अस्याः कुलायम् ।महान् समुद्रो रजसो विमान: स्वर्गे लोके अपि नः कृणोतु ॥४॥५३तस्यौदनस्य बृहस्पति: शिरो ब्रह्ममुखं सूर्याचन्द्रमसावक्ष्यौ बृहद्रथन्तरे श्रोत्रे ।अग्निरास्यं विद्युज्जिह्वा मरुतो दन्ता: पवमान: प्राण: ॥१॥ओषधयो लोमानि वनस्पतय: केशा: समुद्रोमूत्रमश्विना प्रपदे।चरुं पञ्चबिलमुखं घर्मो ऽभीन्धे ॥२॥चक्षुर्मुषलं काम उलूखलं दितिः शूर्पमदितिः शूर्पग्राही वातोपाविनक् ।गावस्तण्डुला अश्वा: कणा मशकास्तुषा:कब्रु फलीकरणा: स्याममयो लोहितमयो अस्य मांसम् ॥३॥ त्रपु भस्मार्जुनमस्थि हरितं वर्ण: पुष्करं गन्ध: ।खल: पात्रमष्टारौ बाहू स्फ्यावंसौ गुदा वरत्राः ।ईषानूक्यं युगानि जत्रव: ॥४॥ऋतं हस्तावाभिषेचनं कुल्योपसेचनमार्तवा: पक्तारो अग्नि: प्राशिता ब्राह्मण: प्रतिग्रहीता ॥५॥५४तस्यौदनस्य भूमिः कुम्भी द्यौरपिधानं शरोभ्रमुषा नीहारो बृहदायवनं रथन्तरं दर्वी ॥१॥दिश: पार्श्वे सीता: पर्शव: सिकता ऊबध्यं बलनमुपस्तरणमहोरात्रे विक्रमणे ओदनस्य ॥२॥वर्षं प्रोक्षणं मरुतः पर्यैन्धति किष्करव: परिधयः ।ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेष्यते ब्रह्मणा प्रतिगृह्यते ॥३॥य एतस्यौदनस्यैवं महिमानं विद्यात् ।नाल्प इति ब्रूयान्नानुपसेचन इति नेदं च किं चेति ॥४॥यावद्दाताभिमनस्येत तन्नाति वदेत् ।ओदनेन यज्ञवच: सर्वे लोका: समाप्या: ।यस्मिन् समुद्रो द्यौर्भूमिस्त्रयोवरपरं श्रिता: ॥५॥५५ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीःपराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं शीर्ष्णा प्राशी: ॥१॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीःपराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं मुखेन प्राशी: ॥२॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीःपराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनमक्षीभ्यां प्राशी: ॥३॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीःपराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं श्रोत्राभ्यां प्राशीः ॥४॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी:पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनमास्येन प्राशीः ॥५॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीःपराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं जिह्वया प्राशीः ॥६॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं दन्तै: प्राशीः ॥७॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी: पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं प्राणैः प्राशीः ॥८॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी: पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनमुरसा प्राशीः ॥९॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं व्यचसा प्राशीः ॥१०॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं पृष्ठेन प्राशीः ॥११॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनमुदरेण प्राशीः ॥१२॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं वस्तिना प्राशीः ॥१३॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनमूरुभ्यां प्राशीः ॥१४॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनमष्ठीवद्भ्यां प्राशीः ॥१५॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्चं त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं पद्भ्यां प्राशी:॥१६॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी: पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यामेनं प्रतिष्ठायां प्राशी:॥१७॥ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।कस्यैनं हस्ताभ्यां प्राशी: ॥१८॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP