षोडशकाण्डः - ४१ ते ४५
पैप्पलादसंहिता
४१
चतु: स्रक्तिं परिचक्रां कविभिर्निमितां मिताम ।
इन्द्राग्नी रक्षत: शालाममृतो सोम्यं सद: ॥१॥
मा नः पाशान् प्रति मुचो गुरुर्भारो लघुर्भवः ।
वधूमिव त्वा शाले यत्रकामं भरामसि ॥२॥
इमा आपः प्र हराम्ययक्ष्मा यक्ष्मनाशनी: ।
गृहानभि प्र सीदाम्यमृतेन सहाग्निना ॥३॥
प्रतीचीं त्वा प्रतीचीन: शाले प्रैम्यहिंसतीम् ।
अग्निर्ह्यन्तरापश्चर्तस्य प्रथमोभा ॥४॥
स्वाहा देवेभ्यः स्वाह्येभ्य:
प्राच्या दिश: शालाया नमो महिम्ने ॥५॥
स्वाहा देवेभ्यः स्वाह्येभ्य:
दक्षिणाया दिश: शालाया नमो महिम्ने ॥६॥
स्वाहा देवेभ्यः स्वाह्येभ्य:
प्रतीच्या दिश: शालाया नमो महिम्ने ॥७॥
स्वाहा देवेभ्यः स्वाह्येभ्य:
उदीच्या दिश: शालाया नमो महिम्ने ॥८॥
स्वाहा देवेभ्यः स्वाह्येभ्य:
धुवाया दिश: शालाया नमो महिम्ने ॥९॥
स्वाहा देवेभ्यः स्वाह्येभ्य:
ऊर्ध्वाया दिश: शालाया नमो महिम्ने ॥१०॥
स्वाहा देवेभ्यः स्वाह्येभ्य:
दिशोदिश: शालाया नमो महिम्ने ॥११॥
४२
अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतो शिर; ।
प्र वृश्चामीदमोजसा ॥१॥
वर्ममह्यमयं मणिः फालाज्जात: करिष्यति ।
तृप्तो मन्थेनमागमद्रसेन सह वर्चसा ॥२॥
यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या ।
आपस्त्वा तस्माज्जीवलाः पुनन्तु शुचय: शुचिम् ॥३॥
हिरण्यस्रगयं मणिर्दुहानो व: स्वक्षतम् ।
श्रद्धां यज्ञं महो दधत् गृहे वसतु नोतिथि: ॥४॥
तस्मै घृतं सुरां मध्वन्नमन्नं क्षदामहे ।
स नः पितेव पुत्रेभ्य: श्रेय: श्रेयश्चिकित्सतु देवेभ्यो मणिरेत्य ॥५॥
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तमग्नि: प्रत्यमुञ्चताज्याय रसायकं सो ऽस्मा आज्यं दुहे ।
भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ॥६॥
यमबध्नाद् बृहस्पतिर्मणिं फालं मधुश्चुतमुग्रं खदिरमोजसे॥
तमिन्द्र: प्रत्यमुञ्चतौजसे वीर्याय कं सो ऽस्मै बलमिद्दुहे ।
भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ॥७॥
यमबध्नाद् बृहस्पतिर्मणिं फाल घृतश्चुतमुग्रं खदिरमोजसे ।
भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ॥८॥
४३
यमाबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं सोम: प्रत्यमुञ्चत द्रविणाय रसाय कं
सो अस्मै मोह इददुहे ।
भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ॥१॥
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोजयद् दानवानां हिरण्ययीः सो अस्मै तेज इद् दुहे ।
भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ॥२॥
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवं सो अस्मै राज्यं इद् दुहे ।
भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ॥३॥
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोउ२.....ब्ब्बजसे ।
तं बिभ्रत् सविता मणिं तेनेदमजयत्स्व: ॥४॥
सो अस्मै सुनृतां दुहे ।
भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ॥५॥
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तमापो बिभ्रतीर्मणि सदा धावन्त्यक्षिता:
स आभ्यो अमृतं दुहे।
भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ॥६॥
यमबध्नाद बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तेन मां मणिना कृषिमश्विनावभिरक्षतः
स भिषग्भ्यां पयो दुहे।
भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ॥७॥
यमबध्नाद् बृहस्पतिर्वाताय मणिमाशवे
सो अस्मै वाजिनमिद्दुहे।
भूयो भूयः श्वः श्वस्तेन त्वं द्विषतो जहि ॥८॥
यमबध्नाद बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन्
स एभ्यो जितिमिद्दुहे।
भूयो भूयः श्वः श्वस्तेन त्वं द्विषतो जहि ॥९॥
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तामिमं देवता मणिं तुभ्यं दधतु भर्तवे
स उ ते भूतिमिद्दुहाम्।
भूयो भूयः श्वः श्वस्तेन त्वं द्विषतो जहि ॥१०॥
४४
अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत।
प्रजापतिसृष्टो मणिर्द्विषतो मे अधराङ् अकः ॥१॥
ऋतवस्तमबध्नतार्तवास्तमबध्नत ।
संवत्सरस्तं बद्ध्वा सर्वं भूतं वि राजति ॥२॥
अथर्वाणो अबध्नताथर्वणा अबध्नत॥
अङ्गिरसस्तं बद्ध्वा दस्यूनां बिभिदुः पुरः ॥३॥अङ्गी
तं धाता प्रत्यमुञ्चत स भूतान्यकल्पयत् ।
तेन त्वं द्विषतो जहि ॥४॥
यमबध्नाद् बृहस्पतिर्देवेभ्यो असुरक्षितिम् । वध्ना
स त्वायं मणिरागमत् सह गोभिरजाविभिरन्नेन प्रजया सह ॥५॥
यमबध्नाद् बृहस्पतिर्देवेभ्यो असुरक्षितिम् । वध्ना
स त्वायं मणिरागमन्मधोर्घृतस्य धारया
कीलालेन श्रिया सह ॥६॥
यमबध्नाद् बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
स त्वायं मणिरागमदोजसा तेजसा सहसा भूत्वा
द्रविणेन श्रिया सह ॥७॥
यस्य लोका इमे त्रय: पयो दुग्धमुपासते ।
स त्वायमभिरक्षतु मणि: श्रैष्ठ्याय मूर्धतः ॥८॥
स त्वायं शतदक्षिणो मणि: श्रेष्ठ्याय जिन्वतु ।
यं देवाः पितरो मनुष्या उपजीवन्तु सर्वदा ॥९॥
यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् ।
तं त्वं शतदक्षिणो मणे श्रैष्ठाय जिन्वतात् ॥१o॥
४५
असपत्नः सपत्नहा सपत्नान्मे अधराङ अकः ।
उत्तरं द्विषतस्त्वा मणि: कृणोतु देवजा: ! ॥१॥
मणिं समस्रवीर्यं ब्रह्मणा तेजसा सह प्रति मुञ्चामि ते शिवम् ।
स त्वायमभिरक्षतु देवै: फाल मणिः सह ॥२॥
यथा बीजमुर्वरायां कृष्टे फालेन रोहति ।
एवास्मिन्प्रजा पशवो अन्नमन्नं वि रोहतु ॥३॥
एतमिध्मं समाभृतं जुषाणो अग्ने प्रतिहर्य होमम्।
तस्मिन् विदेम सुमतिं स्वस्ति चक्षुः प्राणं प्रजां पशून् जातवेदसि ब्रह्मणा ॥४॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP