षोडशकाण्डः - ७१ ते ७५
पैप्पलादसंहिता
N/A७१
अक्रव्यादा तन्वा जातवेदो या ते स्वर्गा तपसा सयोनि: ।
तयोदनमभिश्राम्यैतं तया नो अग्ने महि शर्म यच्छ: ॥१॥
सोमस्यांशुभिर्यत: मध्यमदित्या: पृष्ठेसीदत ।
ये त ओदन देवयाने लोके विदुः पात्रं दारुमयं मनुष्या: ॥२॥
तेषामेधि पात्र मात्र: स्वर्ग: पृथिवीं विद्म तव पात्रम् ।
एतास्त्वौदनोप यन्त्वापो घृतश्चुत: पयसा वर्धयन्ती: ॥३॥
स्तभ्नासि स्व: पृथिवीमुतद्यामुतान्तरिक्षं स्वधया पूरयासि ।
यावन्तस्तण्डुलास्तत्तस्य विष्ठास्तावन्तो यज्ञास्तत्तस्य दोहा: ॥४॥
तावती स्वधा घृतपृष्ठे मे अस्तूर्जं दुहां मधुपृचं व्योमन् ।
यमोदनं पचामि श्रद्दधानः पात्रेपूरं घृतपृष्ठं जुषाण: ॥५॥
स मे मां क्षेष्ट सदमिष्यमानो यमस्य लोके परमे व्योमन् ।
ओदनः पात्रेण सह दक्षिणया ब्राह्मणेभ्यो दत्तो अमृतत्वे दधाति ॥६॥
सूर्यस्य ध्राजीरनु रश्मिन् आगन्दिवस्पृष्ठान् शकुन इवारोहन् ।
सं प्राणेन प्राणभृतं सृजामि सं वीर्येण पयसाशिषा च ॥७॥
आस्तावं गच्छ सुकृतां यत्र लोकं ते त्वां प्राश्नन्तु दक्षिणतो निषद्य।
अग्निष्टोमेन सरथं हि याह्यथोक्तमतिरात्रं च गच्छ ॥८॥
द्विरात्र मात्रस्त्र्यहं व्यश्नुह्यथारोह चतूरात्रं रथमिव॥
चतूरात्रेण कल्पमानो हि याह्यथ सप्तरात्रं दशरात्रं च गच्छ। ॥९॥
द्वादशाहं परिभूय विश्वत एकविंशत्या विमृधो नुदस्व ।
एकविंशत्या विमृधो हि याह्यथैक चत्वारिंशतोप याह्येकम् ।
त्रयस्त्रिंशतामृतो भूत्वा त्रिमास्यमोदनान् वा रभस्व ॥१०॥
७२
इदावत्सरं च परिवत्सरं च व्रध्नस्य विष्टपि परमे व्योमन् ।
नाकेन नाकमभिसंभवौदन ॥१॥
साध्यानयन्तु मुखतो ममैतमादित्यारुद्रा वसव: सचेतसः ।
विश्वे देवा ऋतुभि: संविदाना इमं रक्षन्तु सधमप्रमादम ॥२॥
इदावत्सरं च परिवत्सरं च संवत्सरमहोरात्राणि मासाः ।
सूर्यस्याग्नेश्चन्द्रमसोनुभूतिं वातस्याभूतिमन्वावभौदन ॥३॥
यमीडते पितरो यं च देवा: पुरोहितं तपसा ब्रह्मणा च ।
स्वधामूर्जामक्षितिमा जुहोमि वाते देवे पवमाने बृहस्पतौ ॥४॥
चतुर्धैत्योदनः कल्पमान ऊर्जा देवान् स्वधा पितॄन् ।
शरीरं मनुष्यानाशितं भव ब्राह्मणान् सो अस्माकमस्तु परमे व्योमन् ॥५॥
अयं पन्था ओदन देवयानो अनारुद्धो मृत्युना तेन याहि ।
अदब्ध स्वतो निहित: सकृद्भिर्ब्रह्मणा सृष्ट: प्रशिषायमस्य सः ॥६॥
यत्र ते ग्राह्या ओदन तत् परेहि यत्राप: तद् गच्छन्त्याप: ;
यत्र योनिमोदनं ब्राह्मणा विदुः सो अस्माकमस्तु परमे व्योमन् ॥७॥
हुतं ते वाचि हुतमस्तु चक्षुषि हुतं विज्ञाने हुतमस्तु ते बले ।
श्रोत्रे प्राणे ते हुतं प्रजामृतत्वे ते हुतं कामे च हुतमस्तु ते ॥८॥
यद्वाग्नेयो यदि वास्यैन्द्रो यदि मारुतो यदि वैश्वदेव: ।
यस्ते अग्निर्नृम्णानामहृद्यस्तास्मिन्नेष सुहुतो अस्त्वोदन:
सो अस्माकमस्तु परमे व्योमन् ॥९॥
य आविवेश नृम्णा मनुष्या अग्निनामग्निः प्रथमो वयोधाः ।
स्तस्मिन्नेष सुहुतो अस्त्वोदन सो अस्माकमस्तु परमे व्योमन् ॥१o॥
७३
या ते तनूरपचक्राम मृत्यो र्देवानां सख्यमभिजीव लोकम् ।
अप्सुचरा गह्वरेष्ठा महित्त्वा तस्यामेष सुहुतो अस्त्वोदन:
सो अस्माकमस्तु परमे व्योमन् ॥१॥
अहेडमानाभ्ये हि नो गृह संकाशं भद्रे सुमना अघोरा ।
प्रति त्वा वर्षवृद्धमेतु ।
एषां न स्वधा नवगज्जनित्र्यमृतेष्वमृता हुताभूत् ! ॥२॥
तान्नो गोपाय सधमप्रमादमस्माकमेतोरनुरक्ष जागृहि ।
ये नो निधिमभिधामन्त्व्येतं प्रवाहं प्रौढ़ं यमराज्ये ॥३॥
राजा तेषां वरुण इन्द्रियाण्यभितिष्ठतु हरसा दैव्येन ।
एतं सधस्था: परिणो वा ददाम्यनुख्यता यज्ञपतिर्यदायत् ॥४॥
य आखिदन्ति विखिदन्ति दत्तं विगृह्णते दक्षिणामीयमाना: ।
तानिन्द्रो देवो मघवाञ्छचीपतिरग्निमेदी प्रदहन्नेतु शक्रः ।
बृहस्पतिर्वरुण: सोम इन्द्रो ममैव दत्तं केवलं कृण्वन्तु ॥५॥
७४
शीर्षक्तिं शीर्षामयं कर्णशूलं तृतीयकम् ।
सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥१॥
कर्णाभ्यां ते कङ्कूषेभ्यः शुक्तिबल्गं विलोहितम् ।
सर्व शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥२॥
य: कृणोति प्रमोत्तमन्धं कृणोति पूरुषम् ।
सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥३॥
यस्य हेतो: प्रच्यावते यक्ष्मो नासत आस्यत: ।
सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥४॥
शीर्षरोगमङ्गरोगं विश्वाङ्गीनं विसल्पकम् ।
सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥५॥
यस्य भीम: प्रतीकाश उद्वेपयति पूरुषम् ।
तक्मानं शीतं रूरञ्च तं ते निर्मन्त्रयामहे ॥६॥
य उरू अनुसर्पत्यथो एति गवीनिके ।
बलासमन्तरङ्गेभ्य: बहिर्निर्मन्त्रयामहे ॥७॥
यदि कामादपकामाद्धृदयाज्जायते परि ।
हृदो बलासमङ्गेभ्य: बहिर्निर्मन्त्रयामहे ॥८॥
हरिमाणं ते अङ्गेभ्यो यक्ष्मोधामन्तरात्मनः ।
यक्ष्मं ते सर्वमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥९॥
आसो बलासो भवतु मूत्रं भवत्यामयत् ।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥१०॥
७५
बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥१॥
उदरात्ते परि क्लोम्न नाभ्या हृदयादधि ।
यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥२॥
या: सीमानं विरुजन्ति मूर्धानं प्रत्यर्षणी: ।
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥३॥
या हृदयमुपसर्पन्त्यनुतन्वन्ति कीकसाः ।
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥४॥
या: पार्श्वे उपऋषन्त्यनुनिक्षन्ति पृष्ठी: ।
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥५॥
यास्तिरश्चीरुपसर्पन्त्यर्षणीर्वक्षणासु ते । र्बक्ष
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥६॥
या गुदा अनुसर्पन्त्यान्त्राणि याहयन्ति च ।
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥७॥
यामज्ज्ञो अनुसर्पन्ति परूंषि विरुजन्ति च ।
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥८॥
ये अङ्गानि विजयन्ति यक्ष्मासो रोपणाः सह ।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥९॥
विसल्पस्य विद्रधस्य वातीकारस्य वालजे:॥
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥१०॥
पादाभ्यां ते गुल्फाभ्यां जानुभ्यां ऊरुभ्यां श्रोणिभ्यां परि भंसस: ।
अनूकादर्षणीरुष्णिहाभ्यो ग्रीवाभ्यः स्कन्धेभ्यः शीर्ष्णो रोगमनीनशम् ॥११॥
सन्ते शीर्ष्ण: कपालानि हृदयस्य च यो विदुः ।
उद्यन् सूर्य आदित्यो ऽङ्गरोगमनीनशत् ॥१२॥
(इति क्षुद्रकाण्डनाम षोडशकाण्डे द्वादशो ऽनुवाकः)
N/A
References : N/A
Last Updated : May 12, 2021
TOP