संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
तत्त्वशोधनम्

ललितार्चन चंद्रिका - तत्त्वशोधनम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


अथ सन्निहिते गुरौ तं पादुकामन्त्रेणाभिपूज्य पात्रानि समर्प्य समाहूतैः शिष्यैः वृन्दात्मना अवस्थितैः सामयिकै साकं पाणी प्रक्षाळ्य, श्रीदेव्यै मूलेनोपचारमन्त्रेण च त्रिः पुष्पाञ्जलिं समर्प्य, ३ समस्तप्रकटगुप्नगुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्यपरापरातिरहस्ययोगिनीश्रीपादुकाभ्यो नम इति समष्टिमन्त्रेण आवरणदेवतानां एकं पुष्पाञ्जलिं दत्वा, पूर्ववत् पात्रं पुनःपुनरादायाचमनोक्तैः मन्त्रैः तत्त्वानि शौधयेत् । यथा - ओं ऐं ह्रीं श्रीं कएईल ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा ॥
४ ह स क ह ल ह्रीं विद्यातत्त्वं शोधयामि नमः स्वाहा ॥
४ स क ल ह्रीं शिवतत्त्वं शोधयामि नमः स्वाहा ॥
षोडश्युपासकस्य तुत्रयोदशबीजपुटितैः प्रत्येकखण्डैः तत्त्वंत्रयशोधनं सर्वेण मूलेन सर्वतत्त्वशोधनं च विशेषः ॥
[ अन्न प्रथमापात्रस्वीकार एवोत्थनम् । यथासम्प्रदायं सर्व पात्रस्वीकारोsपि । स्त्रीणां तूत्थायैव । अत्र च बालोपास्तवेकं पात्रं सर्वतत्त्वशोधनम् । पञ्चदश्युपासनायां तु पात्रत्रयम् । श्रीषोडशाक्षर्युपास्तौ तु तञ्चतुष्टयम् । निवृत्ते पूर्णाभिषेके तप्पञ्चकं, यथाsविकारमैच्छिकानि वा । विश्वस्तायाः कुमार्याः सुवासिन्याशश्चैकं पात्रमिति विवेकः ॥
किं च श्रीगुरोस्तच्छिक्तिसुतज्येष्ठकनिष्ठानां स्वज्येष्ठस्य सामयिकानां स्त्रीणां चोच्छिष्टं द्रव्याद्युपादेयम् । तेभ्यस्तु न देयम् । स्वकनिष्ठशिष्ययोस्तु प्रदेयम् वीराणां तूच्छिष्टं चर्वणमात्रमादेयम् ।
उल्लासास्तुं - आरम्भतरुणयौवनप्रौढतदन्तोन्मनानवस्थssख्याः सप्त । तेष्वर्ध्यसंशोधनमारम्भः । तरुणयौवनप्रोढेषु समर्याविधिः । ततो देवताविसर्जनम् । अवशिष्टं अवस्थात्रयं सिद्धानां वीराणां न तु साधकानां इति तत्त्वम् । इति हविः प्रतिपत्तिः ॥ ]

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP