संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| अन्तर्यागः ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - अन्तर्यागः 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र अन्तर्यागः Translation - भाषांतर मूलाधारादाब्रह्मविलं विलसन्तीं बिसतन्तुतनीयसीं विद्युत्पुञ्जपिञ्जरां विवस्वदयुतभास्वत्प्रकाशां परचितिं भावयेत् । अथ हृदि श्रीचक्रं विभाव्य तत्र तामेव स्वीकृतप्रागुक्तरूपां श्रीदेवीं ध्यात्वा गन्धादिताम्बूलान्तं षडुपचारमन्त्रैरुपचर्य तां पुनः तेजोरूपेण परिणतां परमशिवज्योतिरभिन्नप्रकाशात्मिकां वियदादिविश्वकारणां सर्वावभासिकां स्बात्माभिन्नां परचितिं सुषुम्नापथेनोद्गमय्य विनिर्भिन्नविधिबिलविलसदमलदशशतदल कमलाद्वहन्नासापुटेन निर्गतां त्रिखण्डामुद्रामुद्रितशिखण्डे कुसुमगर्भिते अञ्जलौ समानीय ओं ऐं ह्रीं श्रीं ह्रीं श्रीं सौः श्रीलळिताया अमृतचैतन्यमूर्ति कल्पयामि नमःइति मन्त्रमुच्चरन् निजलीलाङ्गीकृतलळितवपुषं विचिन्त्य ४ ह्स्त्रैं ह्स्क्ल्रीं ह्स्त्रौः ।महापद्मवनान्तस्थे कारणानन्दविग्रहे ।सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥इति मन्त्रेण बिन्दुपीठगतनिर्विशेषब्रह्मात्मकश्रीमत्कामेश्वराङ्के परदेवतामावहयेत् । ततः नित्यादिकमणिमान्तं श्रीकमेश्वराङ्कोपवेशनं विना श्रीदेवीसमानाकृतिवेषभूषणायुधशक्तिचक्रं ओघत्रयगुरुमण्डलञ्च वक्ष्यमाणेषु आवरणेषु निजस्वामिन्यभिमुखोपविश्टमवम्रुश्य४ मूलम् आवाहिता भव४ मूलं संस्थापिता भव ४ मूलं संनिहिता भव ४ मूलं सन्निरुद्धा भव ४ मूलं संमुखीकृता भव ४ मूलं अवगुंठिता भव ४ मूलं वन्दिता भव ततः धेनुयोनिमुद्राः प्रदर्शयेत् अथ श्रीपरदेवतायाः चतुष्पष्ट्युपचारानाचरेत् । तेष्वशक्ताः भावनया पुष्पाक्षतान् अर्पयेत् ।चतुःषष्ट्युपचारार्चनम् ४ पाद्यं कल्पयामि नमः४ आभरणावरोपणं कल्पयामि नमः४ सुगन्धितैलाभ्यङ्गं कल्पयामि नमः४ मज्जनशालाप्रवेशनं कल्पयामि नमः४ मज्जनशालामणिपीठोपवेशनं कल्पयामि नमः४ दिव्यस्नानीयोद्वर्तनं कल्पयामि नमः४ उष्णोदकस्नानं कल्पयामि नमः४ कनककलशच्युतसकलतीर्थाभिषेकं कल्पयामि नमः४ धौतवस्त्रपरिमार्जनं कल्पयामि नमः४ अरुणदुकूलपरिधानं कल्पयामि नमः४ अरुणकुचोत्तरीयं कल्पयामि नमः४ आलेपमण्डपमपप्रवेशनं कल्पयामि नमः४ आलेपमण्डपमणिपीठोपवेशनं कल्पयामि नमः४ चंदनागरू कुंकुम संकु मृगमद कर्पूर कस्तूरी गोरोचनादि दिव्य गन्ध सर्वाङ्गीणविलेपनं कल्पयामि नमः४ केशभरस्य कालागरुधूपं कल्पयामि नमः४ मल्लिकामालती जातिचम्बकाशाकशतपत्रपूगकुहळी पुन्नागकल्हारमुख्यसर्वर्तु कुसुममालाः कल्पयामि नमः४ भूषणमण्डपप्रवेशनं कल्पयामि नमः४ भूषणमण्डपमणिपीठोपवेशनं कल्पयामि नमः४ नवमणिमुकुटं कल्पयामि नमः४ चन्द्रशकलं कल्पयामि नमः४ सीमन्तसिन्दूरं कल्पयामि नमः४ तिलकरत्नं कल्पयामि नमः४ कालाञ्जनं कल्पयामि नमः४ पालीयुगलं कल्पयामि नमः४ मणिकुण्डलयुगलं कल्पयामि नमः४ नासाभरणं कल्पयामि नमः४ अधरयावकं कल्पयामि नमः४ प्रथमभूषणं कल्पयामि नमः४ कनकचिन्ताकं कल्पयामि नमः४ पदकं कल्पयामि नमः४ महापदकं कल्पयामि नमः४ मुक्तावलिं कल्पयामि नमः४ एकावलिं कल्पयामि नमः४ छन्नवीरं कल्पयामि नमः४ केयूरयुगलचतुष्टयं कल्पयामि नमः४ वलयावलिं कल्पयामि नमः४ ऊर्मिकावलिं कल्पयामि नमः४ काञ्चीदाम कल्पयामि नमः४ कटिसूत्रं सौभाग्याभरणं कल्पयामि नमः४ पादकटकं कल्पयामि नमः४ रत्ननूपुरं कल्पयामि नमः४ पादाङ्गुलीयकं कल्पयामि नमः४ एककरे पाशं कल्पयामि नमः४ अन्यकरे अङ्कुशं कल्पयामि नमः४ इतरकरे पुण्ड्रेक्षुचापं कल्पयामि नमः४ अपरकरे पुष्पबाणान् कल्पयामि नमः४ श्रीमन्माणिक्यपादुके कल्पयामि नमः४ स्वसमानवेषाभिरावण देवताभिः सह महाचक्राधिरोहणं कल्पयामि नमः४ कामेश्वराङ्गपर्यङ्कोपवेशनं कल्पयामि नमः४ अमृतासवचषकं कल्पयामि नमः४ आचमनीयं कल्पयामि नमः४ कर्पूरवीटिकां कल्पयामि नमः४ आनन्दोल्लासविलासहासं कल्पयामि नमः४ मंङ्गलारार्तिकंकल्पयामि नमःसमस्तचक्रवक्रशीयुते देवि नवात्मिके ।आरार्तिकमिदं तुभ्यं गृहाण मम सिद्धये ॥इति नववारं श्रीदेव्या आचूडम् आचरणाब्जं मङ्गालारार्तिक परिभ्राम्य दक्षभागे स्थापयेत् ।४ छत्रं कल्पयामि नमः४ चामरयुगलं कल्पयामि नमः४ दर्पणं कल्पयामि नमः४ तालवृन्तं कल्पयामि नमः४ गन्धं कल्पयामि नमः४ षुष्पं कल्पयामि नमः४ धूपं कल्पयामि नमः४ दीपं कल्पयामि नमः N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP